Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.102
युधिष्ठिर उवाच॥
किंशीलाः किंसमुत्थानाः कथंरूपाश्च भारत। किंसंनाहाः कथंशस्त्रा जनाः स्युः संयुगे नृप ॥१२-१०२-१॥
भीष्म उवाच॥
यथाचरितमेवात्र शस्त्रपत्रं विधीयते। आचारादेव पुरुषस्तथा कर्मसु वर्तते ॥१२-१०२-२॥
गान्धाराः सिन्धुसौवीरा नखरप्रासयोधिनः। आभीरवः सुबलिनस्तद्बलं सर्वपारगम् ॥१२-१०२-३॥
सर्वशस्त्रेषु कुशलाः सत्त्ववन्तो ह्युशीनराः। प्राच्या मातङ्गयुद्धेषु कुशलाः शठयोधिनः ॥१२-१०२-४॥
तथा यवनकाम्बोजा मथुरामभितश्च ये। एते नियुद्धकुशला दाक्षिणात्यासिचर्मिणः ॥१२-१०२-५॥
सर्वत्र शूरा जायन्ते महासत्त्वा महाबलाः। प्राय एष समुद्दिष्टो लक्षणानि तु मे शृणु ॥१२-१०२-६॥
सिंहशार्दूलवाङ्नेत्राः सिंहशार्दूलगामिनः। पारावतकुलिङ्गाक्षाः सर्वे शूराः प्रमाथिनः ॥१२-१०२-७॥
मृगस्वरा द्वीपिनेत्रा ऋषभाक्षास्तथापरे। प्रवादिनः सुचण्डाश्च क्रोधिनः किंनरीस्वनाः ॥१२-१०२-८॥
मेघस्वनाः क्रुद्धमुखाः केचित्करभनिस्वनाः। जिह्मनासानुजङ्घाश्च दूरगा दूरपातिनः ॥१२-१०२-९॥
बिडालकुब्जास्तनवस्तनुकेशास्तनुत्वचः। शूराश्चपलचित्ताश्च ते भवन्ति दुरासदाः ॥१२-१०२-१०॥
गोधानिमीलिताः केचिन्मृदुप्रकृतयोऽपि च। तुरङ्गगतिनिर्घोषास्ते नराः पारयिष्णवः ॥१२-१०२-११॥
सुसंहताः प्रतनवो व्यूढोरस्काः सुसंस्थिताः। प्रवादितेन नृत्यन्ति हृष्यन्ति कलहेषु च ॥१२-१०२-१२॥
गम्भीराक्षा निःसृताक्षाः पिङ्गला भ्रुकुटीमुखाः। नकुलाक्षास्तथा चैव सर्वे शूरास्तनुत्यजः ॥१२-१०२-१३॥
जिह्माक्षाः प्रललाटाश्च निर्मांसहनवोऽपि च। वक्रबाह्वङ्गुलीसक्ताः कृशा धमनिसन्तताः ॥१२-१०२-१४॥
प्रविशन्त्यतिवेगेन सम्परायेऽभ्युपस्थिते। वारणा इव संमत्तास्ते भवन्ति दुरासदाः ॥१२-१०२-१५॥
दीप्तस्फुटितकेशान्ताः स्थूलपार्श्वहनूमुखाः। उन्नतांसाः पृथुग्रीवा विकटाः स्थूलपिण्डिकाः ॥१२-१०२-१६॥
उद्वृत्ताश्चैव सुग्रीवा विनता विहगा इव। पिण्डशीर्षाहिवक्त्राश्च वृषदंशमुखा इव ॥१२-१०२-१७॥
उग्रस्वना मन्युमन्तो युद्धेष्वारावसारिणः। अधर्मज्ञावलिप्ताश्च घोरा रौद्रप्रदर्शिनः ॥१२-१०२-१८॥
त्यक्तात्मानः सर्व एते अन्त्यजा ह्यनिवर्तिनः। पुरस्कार्याः सदा सैन्ये हन्यन्ते घ्नन्ति चापि ते ॥१२-१०२-१९॥
अधार्मिका भिन्नवृत्ताः साध्वेवैषां पराभवः। एवमेव प्रकुप्यन्ति राज्ञोऽप्येते ह्यभीक्ष्णशः ॥१२-१०२-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.