12.105
युधिष्ठिर उवाच॥
धार्मिकोऽर्थानसम्प्राप्य राजामात्यैः प्रबाधितः। च्युतः कोशाच्च दण्डाच्च सुखमिच्छन्कथं चरेत् ॥१२-१०५-१॥
भीष्म उवाच॥
अत्रायं क्षेमदर्शीयमितिहासोऽनुगीयते। तत्तेऽहं सम्प्रवक्ष्यामि तन्निबोध युधिष्ठिर ॥१२-१०५-२॥
क्षेमदर्शं नृपसुतं यत्र क्षीणबलं पुरा। मुनिः कालकवृक्षीय आजगामेति नः श्रुतम् ॥ तं पप्रच्छोपसङ्गृह्य कृच्छ्रामापदमास्थितः ॥१२-१०५-३॥
अर्थेषु भागी पुरुष ईहमानः पुनः पुनः। अलब्ध्वा मद्विधो राज्यं ब्रह्मन्किं कर्तुमर्हति ॥१२-१०५-४॥
अन्यत्र मरणात्स्तेयादन्यत्र परसंश्रयात्। क्षुद्रादन्यत्र चाचारात्तन्ममाचक्ष्व सत्तम ॥१२-१०५-५॥
व्याधिना चाभिपन्नस्य मानसेनेतरेण वा। बहुश्रुतः कृतप्रज्ञस्त्वद्विधः शरणं भवेत् ॥१२-१०५-६॥
निर्विद्य हि नरः कामान्नियम्य सुखमेधते। त्यक्त्वा प्रीतिं च शोकं च लब्ध्वाप्रीतिमयं वसु ॥१२-१०५-७॥
सुखमर्थाश्रयं येषामनुशोचामि तानहम्। मम ह्यर्थाः सुबहवो नष्टाः स्वप्न इवागताः ॥१२-१०५-८॥
दुष्करं बत कुर्वन्ति महतोऽर्थांस्त्यजन्ति ये। वयं त्वेनान्परित्यक्तुमसतोऽपि न शक्नुमः ॥१२-१०५-९॥
इमामवस्थां सम्प्राप्तं दीनमार्तं श्रियश्च्युतम्। यदन्यत्सुखमस्तीह तद्ब्रह्मन्ननुशाधि माम् ॥१२-१०५-१०॥
कौसल्येनैवमुक्तस्तु राजपुत्रेण धीमता। मुनिः कालकवृक्षीयः प्रत्युवाच महाद्युतिः ॥१२-१०५-११॥
पुरस्तादेव ते बुद्धिरियं कार्या विजानतः। अनित्यं सर्वमेवेदमहं च मम चास्ति यत् ॥१२-१०५-१२॥
यत्किञ्चिन्मन्यसेऽस्तीति सर्वं नास्तीति विद्धि तत्। एवं न व्यथते प्राज्ञः कृच्छ्रामप्यापदं गतः ॥१२-१०५-१३॥
यद्धि भूतं भविष्यच्च ध्रुवं तन्न भविष्यति। एवं विदितवेद्यस्त्वमधर्मेभ्यः प्रमोक्ष्यसे ॥१२-१०५-१४॥
यच्च पूर्वे समाहारे यच्च पूर्वतरे परे। सर्वं तन्नास्ति तच्चैव तज्ज्ञात्वा कोऽनुसञ्ज्वरेत् ॥१२-१०५-१५॥
भूत्वा च न भवत्येतदभूत्वा च भवत्यपि। शोके न ह्यस्ति सामर्थ्यं शोकं कुर्यात्कथं नरः ॥१२-१०५-१६॥
क्व नु तेऽद्य पिता राजन्क्व नु तेऽद्य पितामहः। न त्वं पश्यसि तानद्य न त्वा पश्यन्ति तेऽपि च ॥१२-१०५-१७॥
आत्मनोऽध्रुवतां पश्यंस्तांस्त्वं किमनुशोचसि। बुद्ध्या चैवानुबुध्यस्व ध्रुवं हि न भविष्यसि ॥१२-१०५-१८॥
अहं च त्वं च नृपते शत्रवः सुहृदश्च ते। अवश्यं न भविष्यामः सर्वं च न भविष्यति ॥१२-१०५-१९॥
ये तु विंशतिवर्षा वै त्रिंशद्वर्षाश्च मानवाः। अर्वागेव हि ते सर्वे मरिष्यन्ति शरच्छतात् ॥१२-१०५-२०॥
अपि चेन्महतो वित्ताद्विप्रमुच्येत पूरुषः। नैतन्ममेति तन्मत्वा कुर्वीत प्रियमात्मनः ॥१२-१०५-२१॥
अनागतं यन्न ममेति विद्या; दतिक्रान्तं यन्न ममेति विद्यात्। दिष्टं बलीय इति मन्यमाना; स्ते पण्डितास्तत्सतां स्थानमाहुः ॥१२-१०५-२२॥
अनाढ्याश्चापि जीवन्ति राज्यं चाप्यनुशासते। बुद्धिपौरुषसम्पन्नास्त्वया तुल्याधिका जनाः ॥१२-१०५-२३॥
न च त्वमिव शोचन्ति तस्मात्त्वमपि मा शुचः। किं नु त्वं तैर्न वै श्रेयांस्तुल्यो वा बुद्धिपौरुषैः ॥१२-१०५-२४॥
राजपुत्र उवाच॥
यादृच्छिकं ममासीत्तद्राज्यमित्येव चिन्तये। ह्रियते सर्वमेवेदं कालेन महता द्विज ॥१२-१०५-२५॥
तस्यैवं ह्रियमाणस्य स्रोतसेव तपोधन। फलमेतत्प्रपश्यामि यथालब्धेन वर्तये ॥१२-१०५-२६॥
मुनिरुवाच॥
अनागतमतीतं च यथा तथ्यविनिश्चयात्। नानुशोचसि कौसल्य सर्वार्थेषु तथा भव ॥१२-१०५-२७॥
अवाप्यान्कामयस्वार्थान्नानवाप्यान्कदाचन। प्रत्युत्पन्नाननुभवन्मा शुचस्त्वमनागतान् ॥१२-१०५-२८॥
यथा लब्धोपपन्नार्थस्तथा कौसल्य रंस्यसे। कच्चिच्छुद्धस्वभावेन श्रिया हीनो न शोचसि ॥१२-१०५-२९॥
पुरस्ताद्भूतपूर्वत्वाद्धीनभाग्यो हि दुर्मतिः। धातारं गर्हते नित्यं लब्धार्थांश्च न मृष्यते ॥१२-१०५-३०॥
अनर्हानपि चैवान्यान्मन्यते श्रीमतो जनान्। एतस्मात्कारणादेतद्दुःखं भूयोऽनुवर्तते ॥१२-१०५-३१॥
ईर्ष्यातिच्छेदसम्पन्ना राजन्पुरुषमानिनः। कच्चित्त्वं न तथा प्राज्ञ मत्सरी कोसलाधिप ॥१२-१०५-३२॥
सहस्व श्रियमन्येषां यद्यपि त्वयि नास्ति सा। अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते जनाः ॥ अभिविष्यन्दते श्रीर्हि सत्यपि द्विषतो जनात् ॥१२-१०५-३३॥
श्रियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः। त्यागधर्मविदो वीराः स्वयमेव त्यजन्त्युत ॥१२-१०५-३४॥
बहु सङ्कसुकं दृष्ट्वा विवित्सासाधनेन च। तथान्ये सन्त्यजन्त्येनं मत्वा परमदुर्लभम् ॥१२-१०५-३५॥
त्वं पुनः प्राज्ञरूपः सन्कृपणं परितप्यसे। अकाम्यान्कामयानोऽर्थान्पराचीनानुपद्रुतान् ॥१२-१०५-३६॥
तां बुद्धिमुपजिज्ञासुस्त्वमेवैनान्परित्यज। अनर्थांश्चार्थरूपेण अर्थांश्चानर्थरूपतः ॥१२-१०५-३७॥
अर्थायैव हि केषाञ्चिद्धननाशो भवत्युत। अनन्त्यं तं सुखं मत्वा श्रियमन्यः परीक्षते ॥१२-१०५-३८॥
रममाणः श्रिया कश्चिन्नान्यच्छ्रेयोऽभिमन्यते। तथा तस्येहमानस्य समारम्भो विनश्यति ॥१२-१०५-३९॥
कृच्छ्राल्लब्धमभिप्रेतं यदा कौसल्य नश्यति। तदा निर्विद्यते सोऽर्थात्परिभग्नक्रमो नरः ॥१२-१०५-४०॥
धर्ममेकेऽभिपद्यन्ते कल्याणाभिजना नराः। परत्र सुखमिच्छन्तो निर्विद्येयुश्च लौकिकात् ॥१२-१०५-४१॥
जीवितं सन्त्यजन्त्येके धनलोभपरा नराः। न जीवितार्थं मन्यन्ते पुरुषा हि धनादृते ॥१२-१०५-४२॥
पश्य तेषां कृपणतां पश्य तेषामबुद्धिताम्। अध्रुवे जीविते मोहादर्थतृष्णामुपाश्रिताः ॥१२-१०५-४३॥
सञ्चये च विनाशान्ते मरणान्ते च जीविते। संयोगे विप्रयोगान्ते को नु विप्रणयेन्मनः ॥१२-१०५-४४॥
धनं वा पुरुषं राजन्पुरुषो वा पुनर्धनम्। अवश्यं प्रजहात्येतत्तद्विद्वान्कोऽनुसञ्ज्वरेत् ॥१२-१०५-४५॥
अन्येषामपि नश्यन्ति सुहृदश्च धनानि च। पश्य बुद्ध्या मनुष्याणां राजन्नापदमात्मनः ॥ नियच्छ यच्छ संयच्छ इन्द्रियाणि मनो गिरम् ॥१२-१०५-४६॥
प्रतिषिद्धानवाप्येषु दुर्लभेष्वहितेषु च। प्रतिकृष्टेषु भावेषु व्यतिकृष्टेष्वसम्भवे ॥ प्रज्ञानतृप्तो विक्रान्तस्त्वद्विधो नानुशोचति ॥१२-१०५-४७॥
अल्पमिच्छन्नचपलो मृदुर्दान्तः सुसंशितः। ब्रह्मचर्योपपन्नश्च त्वद्विधो नैव मुह्यति ॥१२-१०५-४८॥
न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि। नृशंसवृत्तिं पापिष्ठां दुःखां कापुरुषोचिताम् ॥१२-१०५-४९॥
अपि मूलफलाजीवो रमस्वैको महावने। वाग्यतः सङ्गृहीतात्मा सर्वभूतदयान्वितः ॥१२-१०५-५०॥
सदृशं पण्डितस्यैतदीषादन्तेन दन्तिना। यदेको रमतेऽरण्ये यच्चाप्यल्पेन तुष्यति ॥१२-१०५-५१॥
महाह्रदः सङ्क्षुभित आत्मनैव प्रसीदति। एतदेवङ्गतस्याहं सुखं पश्यामि केवलम् ॥१२-१०५-५२॥
असम्भवे श्रियो राजन्हीनस्य सचिवादिभिः। दैवे प्रतिनिविष्टे च किं श्रेयो मन्यते भवान् ॥१२-१०५-५३॥