Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.106
मुनिरुवाच॥
अथ चेत्पौरुषं किञ्चित्क्षत्रियात्मनि पश्यसि। ब्रवीमि हन्त ते नीतिं राज्यस्य प्रतिपत्तये ॥१२-१०६-१॥
तां चेच्छक्ष्यस्यनुष्ठातुं कर्म चैव करिष्यसि। शृणु सर्वमशेषेण यत्त्वां वक्ष्यामि तत्त्वतः ॥१२-१०६-२॥
आचरिष्यसि चेत्कर्म महतोऽर्थानवाप्स्यसि। राज्यं राज्यस्य मन्त्रं वा महतीं वा पुनः श्रियम् ॥ यद्येतद्रोचते राजन्पुनर्ब्रूहि ब्रवीमि ते ॥१२-१०६-३॥
राजपुत्र उवाच॥
ब्रवीतु भगवान्नीतिमुपपन्नोऽस्म्यहं प्रभो। अमोघमिदमद्यास्तु त्वया सह समागतम् ॥१२-१०६-४॥
मुनिरुवाच॥
हित्वा स्तम्भं च मानं च क्रोधहर्षौ भयं तथा। प्रत्यमित्रं निषेवस्व प्रणिपत्य कृताञ्जलिः ॥१२-१०६-५॥
तमुत्तमेन शौचेन कर्मणा चाभिराधय। दातुमर्हति ते वृत्तिं वैदेहः सत्यसङ्गरः ॥१२-१०६-६॥
प्रमाणं सर्वभूतेषु प्रग्रहं च गमिष्यसि। ततः सहायान्सोत्साहाँल्लप्स्यसेऽव्यसनाञ्शुचीन् ॥१२-१०६-७॥
वर्तमानः स्वशास्त्रे वै संयतात्मा जितेन्द्रियः। अभ्युद्धरति चात्मानं प्रसादयति च प्रजाः ॥१२-१०६-८॥
तेनैव त्वं धृतिमता श्रीमता चाभिसत्कृतः। प्रमाणं सर्वभूतेषु गत्वा प्रग्रहणं महत् ॥१२-१०६-९॥
ततः सुहृद्बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रितम्। अन्तरैर्भेदयित्वारीन्बिल्वं बिल्वेन शातय ॥ परैर्वा संविदं कृत्वा बलमप्यस्य घातय ॥१२-१०६-१०॥
अलभ्या ये शुभा भावाः स्त्रियश्चाच्छादनानि च। शय्यासनानि यानानि महार्हाणि गृहाणि च ॥१२-१०६-११॥
पक्षिणो मृगजातानि रसा गन्धाः फलानि च। तेष्वेव सज्जयेथास्त्वं यथा नश्येत्स्वयं परः ॥१२-१०६-१२॥
यद्येव प्रतिषेद्धव्यो यद्युपेक्षणमर्हति। न जातु विवृतः कार्यः शत्रुर्विनयमिच्छता ॥१२-१०६-१३॥
वसस्व परमामित्रविषये प्राज्ञसंमते। भजस्व श्वेतकाकीयैर्मित्राधममनर्थकैः ॥१२-१०६-१४॥
आरम्भांश्चास्य महतो दुष्करांस्त्वं प्रयोजय। नदीबन्धविरोधांश्च बलवद्भिर्विरुध्यताम् ॥१२-१०६-१५॥
उद्यानानि महार्हाणि शयनान्यासनानि च। प्रतिभोगसुखेनैव कोशमस्य विरेचय ॥१२-१०६-१६॥
यज्ञदानप्रशंसास्मै ब्राह्मणेष्वनुवर्ण्यताम्। ते त्वत्प्रियं करिष्यन्ति तं चेष्यन्ति वृका इव ॥१२-१०६-१७॥
असंशयं पुण्यशीलः प्राप्नोति परमां गतिम्। त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति पार्थिवः ॥ कोशक्षये त्वमित्राणां वशं कौसल्य गच्छति ॥१२-१०६-१८॥
उभयत्र प्रसक्तस्य धर्मे चाधर्म एव च। बलार्थमूलं व्युच्छिद्येत्तेन नन्दन्ति शत्रवः ॥१२-१०६-१९॥
निन्द्यास्य मानुषं कर्म दैवमस्योपवर्णय। असंशयं दैवपरः क्षिप्रमेव विनश्यति ॥१२-१०६-२०॥
याजयैनं विश्वजिता सर्वस्वेन वियुज्यताम्। ततो गच्छत्वसिद्धार्थः पीड्यमानो महाजनम् ॥१२-१०६-२१॥
त्यागधर्मविदं मुण्डं कञ्चिदस्योपवर्णय। अपि त्यागं बुभूषेत कच्चिद्गच्छेदनामयम् ॥१२-१०६-२२॥
सिद्धेनौषधयोगेन सर्वशत्रुविनाशिना। नागानश्वान्मनुष्यांश्च कृतकैरुपघातय ॥१२-१०६-२३॥
एते चान्ये च बहवो दम्भयोगाः सुनिश्चिताः। शक्या विषहता कर्तुं नक्लीबेन नृपात्मज ॥१२-१०६-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.