12.114
युधिष्ठिर उवाच॥
राजा राज्यमनुप्राप्य दुर्बलो भरतर्षभ। अमित्रस्यातिवृद्धस्य कथं तिष्ठेदसाधनः ॥१२-११४-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। सरितां चैव संवादं सागरस्य च भारत ॥१२-११४-२॥
सुरारिनिलयः शश्वत्सागरः सरितां पतिः। पप्रच्छ सरितः सर्वाः संशयं जातमात्मनः ॥१२-११४-३॥
समूलशाखान्पश्यामि निहतांश्छायिनो द्रुमान्। युष्माभिरिह पूर्णाभिरन्यांस्तत्र न वेतसम् ॥१२-११४-४॥
अकायश्चाल्पसारश्च वेतसः कूलजश्च वः। अवज्ञाय नशक्यो वा किञ्चिद्वा तेन वः कृतम् ॥१२-११४-५॥
तदहं श्रोतुमिच्छामि सर्वासामेव वो मतम्। यथा कूलानि चेमानि भित्त्वा नानीयते वशम् ॥१२-११४-६॥
ततः प्राह नदी गङ्गा वाक्यमुत्तरमर्थवत्। हेतुमद्ग्राहकं चैव सागरं सरितां पतिम् ॥१२-११४-७॥
तिष्ठन्त्येते यथास्थानं नगा ह्येकनिकेतनाः। ततस्त्यजन्ति तत्स्थानं प्रातिलोम्यादचेतसः ॥१२-११४-८॥
वेतसो वेगमायान्तं दृष्ट्वा नमति नेतरः। स च वेगेऽभ्यतिक्रान्ते स्थानमासाद्य तिष्ठति ॥१२-११४-९॥
कालज्ञः समयज्ञश्च सदा वश्यश्च नोद्रुमः। अनुलोमस्तथास्तब्धस्तेन नाभ्येति वेतसः ॥१२-११४-१०॥
मारुतोदकवेगेन ये नमन्त्युन्नमन्ति च। ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम् ॥१२-११४-११॥
यो हि शत्रोर्विवृद्धस्य प्रभोर्वधविनाशने। पूर्वं न सहते वेगं क्षिप्रमेव स नश्यति ॥१२-११४-१२॥
सारासारं बलं वीर्यमात्मनो द्विषतश्च यः। जानन्विचरति प्राज्ञो न स याति पराभवम् ॥१२-११४-१३॥
एवमेव यदा विद्वान्मन्येतातिबलं रिपुम्। संश्रयेद्वैतसीं वृत्तिमेवं प्रज्ञानलक्षणम् ॥१२-११४-१४॥