12.113
युधिष्ठिर उवाच॥
किं पार्थिवेन कर्तव्यं किं च कृत्वा सुखी भवेत्। तन्ममाचक्ष्व तत्त्वेन सर्वं धर्मभृतां वर ॥१२-११३-१॥
भीष्म उवाच॥
हन्त तेऽहं प्रवक्ष्यामि शृणु कार्यैकनिश्चयम्। यथा राज्ञेह कर्तव्यं यच्च कृत्वा सुखी भवेत् ॥१२-११३-२॥
न त्वेवं वर्तितव्यं स्म यथेदमनुशुश्रुमः। उष्ट्रस्य सुमहद्वृत्तं तन्निबोध युधिष्ठिर ॥१२-११३-३॥
जातिस्मरो महानुष्ट्रः प्राजापत्ययुगोद्भवः। तपः सुमहदातिष्ठदरण्ये संशितव्रतः ॥१२-११३-४॥
तपसस्तस्य चान्ते वै प्रीतिमानभवत्प्रभुः। वरेण छन्दयामास ततश्चैनं पितामहः ॥१२-११३-५॥
उष्ट्र उवाच॥
भगवंस्त्वत्प्रसादान्मे दीर्घा ग्रीवा भवेदियम्। योजनानां शतं साग्रं या गच्छेच्चरितुं विभो ॥१२-११३-६॥
भीष्म उवाच॥
एवमस्त्विति चोक्तः स वरदेन महात्मना। प्रतिलभ्य वरं श्रेष्ठं ययावुष्ट्रः स्वकं वनम् ॥१२-११३-७॥
स चकार तदालस्यं वरदानात्स दुर्मतिः। न चैच्छच्चरितुं गन्तुं दुरात्मा कालमोहितः ॥१२-११३-८॥
स कदाचित्प्रसार्यैवं तां ग्रीवां शतयोजनाम्। चचाराश्रान्तहृदयो वातश्चागात्ततो महान् ॥१२-११३-९॥
स गुहायां शिरोग्रीवं निधाय पशुरात्मनः। आस्ताथ वर्षमभ्यागात्सुमहत्प्लावयज्जगत् ॥१२-११३-१०॥
अथ शीतपरीताङ्गो जम्बुकः क्षुच्छ्रमान्वितः। सदारस्तां गुहामाशु प्रविवेश जलार्दितः ॥१२-११३-११॥
स दृष्ट्वा मांसजीवी तु सुभृशं क्षुच्छ्रमान्वितः। अभक्षयत्ततो ग्रीवामुष्ट्रस्य भरतर्षभ ॥१२-११३-१२॥
यदा त्वबुध्यतात्मानं भक्ष्यमाणं स वै पशुः। तदा सङ्कोचने यत्नमकरोद्भृशदुःखितः ॥१२-११३-१३॥
यावदूर्ध्वमधश्चैव ग्रीवां सङ्क्षिपते पशुः। तावत्तेन सदारेण जम्बुकेन स भक्षितः ॥१२-११३-१४॥
स हत्वा भक्षयित्वा च जम्बुकोष्ट्रं ततस्तदा। विगते वातवर्षे च निश्चक्राम गुहामुखात् ॥१२-११३-१५॥
एवं दुर्बुद्धिना प्राप्तमुष्ट्रेण निधनं तदा। आलस्यस्य क्रमात्पश्य महद्दोषमुपागतम् ॥१२-११३-१६॥
त्वमप्येतं विधिं त्यक्त्वा योगेन नियतेन्द्रियः। वर्तस्व बुद्धिमूलं हि विजयं मनुरब्रवीत् ॥१२-११३-१७॥
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत। तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ॥१२-११३-१८॥
राज्यं तिष्ठति दक्षस्य सङ्गृहीतेन्द्रियस्य च। गुप्तमन्त्रश्रुतवतः सुसहायस्य चानघ ॥१२-११३-१९॥
परीक्ष्यकारिणोऽर्थाश्च तिष्ठन्तीह युधिष्ठिर। सहाययुक्तेन मही कृत्स्ना शक्या प्रशासितुम् ॥१२-११३-२०॥
इदं हि सद्भिः कथितं विधिज्ञैः; पुरा महेन्द्रप्रतिमप्रभाव। मयापि चोक्तं तव शास्त्रदृष्ट्या; त्वमत्र युक्तः प्रचरस्व राजन् ॥१२-११३-२१॥