12.115
युधिष्ठिर उवाच॥
विद्वान्मूर्खप्रगल्भेन मृदुस्तीक्ष्णेन भारत। आक्रुश्यमानः सदसि कथं कुर्यादरिंदम ॥१२-११५-१॥
भीष्म उवाच॥
श्रूयतां पृथिवीपाल यथैषोऽर्थोऽनुगीयते। सदा सुचेताः सहते नरस्येहाल्पचेतसः ॥१२-११५-२॥
अरुष्यन्क्रुश्यमानस्य सुकृतं नाम विन्दति। दुष्कृतं चात्मनो मर्षी रुष्यत्येवापमार्ष्टि वै ॥१२-११५-३॥
टिट्टिभं तमुपेक्षेत वाशमानमिवातुरम्। लोकविद्वेषमापन्नो निष्फलं प्रतिपद्यते ॥१२-११५-४॥
इति स श्लाघते नित्यं तेन पापेन कर्मणा। इदमुक्तो मया कश्चित्संमतो जनसंसदि ॥ स तत्र व्रीडितः शुष्को मृतकल्पोऽवतिष्ठति ॥१२-११५-५॥
श्लाघन्नश्लाघनीयेन कर्मणा निरपत्रपः। उपेक्षितव्यो दान्तेन तादृशः पुरुषाधमः ॥१२-११५-६॥
यद्यद्ब्रूयादल्पमतिस्तत्तदस्य सहेत्सदा। प्राकृतो हि प्रशंसन्वा निन्दन्वा किं करिष्यति ॥ वने काक इवाबुद्धिर्वाशमानो निरर्थकम् ॥१२-११५-७॥
यदि वाग्भिः प्रयोगः स्यात्प्रयोगे पापकर्मणः। वागेवार्थो भवेत्तस्य न ह्येवार्थो जिघांसतः ॥१२-११५-८॥
निषेकं विपरीतं स आचष्टे वृत्तचेष्टया। मयूर इव कौपीनं नृत्यन्संदर्शयन्निव ॥१२-११५-९॥
यस्यावाच्यं न लोकेऽस्ति नाकार्यं वापि किञ्चन। वाचं तेन न संदध्याच्छुचिः सङ्क्लिष्टकर्मणा ॥१२-११५-१०॥
प्रत्यक्षं गुणवादी यः परोक्षं तु विनिन्दकः। स मानवः श्ववल्लोके नष्टलोकपरायणः ॥१२-११५-११॥
तादृग्जनशतस्यापि यद्ददाति जुहोति च। परोक्षेणापवादेन तन्नाशयति स क्षणात् ॥१२-११५-१२॥
तस्मात्प्राज्ञो नरः सद्यस्तादृशं पापचेतसम्। वर्जयेत्साधुभिर्वर्ज्यं सारमेयामिषं यथा ॥१२-११५-१३॥
परिवादं ब्रुवाणो हि दुरात्मा वै महात्मने। प्रकाशयति दोषान्स्वान्सर्पः फणमिवोच्छ्रितम् ॥१२-११५-१४॥
तं स्वकर्माणि कुर्वाणं प्रतिकर्तुं य इच्छति। भस्मकूट इवाबुद्धिः खरो रजसि मज्जति ॥१२-११५-१५॥
मनुष्यशालावृकमप्रशान्तं; जनापवादे सततं निविष्टम्। मातङ्गमुन्मत्तमिवोन्नदन्तं; त्यजेत तं श्वानमिवातिरौद्रम् ॥१२-११५-१६॥
अधीरजुष्टे पथि वर्तमानं; दमादपेतं विनयाच्च पापम्। अरिव्रतं नित्यमभूतिकामं; धिगस्तु तं पापमतिं मनुष्यम् ॥१२-११५-१७॥
प्रत्युच्यमानस्तु हि भूय एभिर्निशाम्य मा भूस्त्वमथार्तरूपः। उच्चस्य नीचेन हि सम्प्रयोगं विगर्हयन्ति स्थिरबुद्धयो ये ॥१२-११५-१८॥
क्रुद्धो दशार्धेन हि ताडयेद्वा; स पांसुभिर्वापकिरेत्तुषैर्वा। विवृत्य दन्तांश्च विभीषयेद्वा; सिद्धं हि मूर्खे कुपिते नृशंसे ॥१२-११५-१९॥
विगर्हणां परमदुरात्मना कृतां; सहेत यः संसदि दुर्जनान्नरः। पठेदिदं चापि निदर्शनं सदा; न वाङ्मयं स लभति किञ्चिदप्रियम् ॥१२-११५-२०॥