Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.124
युधिष्ठिर उवाच॥
इमे जना नरश्रेष्ठ प्रशंसन्ति सदा भुवि। धर्मस्य शीलमेवादौ ततो मे संशयो महान् ॥१२-१२४-१॥
यदि तच्छक्यमस्माभिर्ज्ञातुं धर्मभृतां वर। श्रोतुमिच्छामि तत्सर्वं यथैतदुपलभ्यते ॥१२-१२४-२॥
कथं नु प्राप्यते शीलं श्रोतुमिच्छामि भारत। किंलक्षणं च तत्प्रोक्तं ब्रूहि मे वदतां वर ॥१२-१२४-३॥
भीष्म उवाच॥
पुरा दुर्योधनेनेह धृतराष्ट्राय मानद। आख्यातं तप्यमानेन श्रियं दृष्ट्वा तथागताम् ॥१२-१२४-४॥
इन्द्रप्रस्थे महाराज तव सभ्रातृकस्य ह। सभायां चावहसनं तत्सर्वं शृणु भारत ॥१२-१२४-५॥
भवतस्तां सभां दृष्ट्वा समृद्धिं चाप्यनुत्तमाम्। दुर्योधनस्तदासीनः सर्वं पित्रे न्यवेदयत् ॥१२-१२४-६॥
श्रुत्वा च धृतराष्ट्रोऽपि दुर्योधनवचस्तदा। अब्रवीत्कर्णसहितं दुर्योधनमिदं वचः ॥१२-१२४-७॥
किमर्थं तप्यसे पुत्र श्रोतुमिच्छामि तत्त्वतः। श्रुत्वा त्वामनुनेष्यामि यदि सम्यग्भविष्यसि ॥१२-१२४-८॥
यथा त्वं महदैश्वर्यं प्राप्तः परपुरञ्जय। किङ्करा भ्रातरः सर्वे मित्राः सम्बन्धिनस्तथा ॥१२-१२४-९॥
आच्छादयसि प्रावारानश्नासि पिशितोदनम्। आजानेया वहन्ति त्वां कस्माच्छोचसि पुत्रक ॥१२-१२४-१०॥
दुर्योधन उवाच॥
दश तानि सहस्राणि स्नातकानां महात्मनाम्। भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ॥१२-१२४-११॥
दृष्ट्वा च तां सभां दिव्यां दिव्यपुष्पफलान्विताम्। अश्वांस्तित्तिरकल्माषान्रत्नानि विविधानि च ॥१२-१२४-१२॥
दृष्ट्वा तां पाण्डवेयानामृद्धिमिन्द्रोपमां शुभाम्। अमित्राणां सुमहतीमनुशोचामि मानद ॥१२-१२४-१३॥
धृतराष्ट्र उवाच॥
यदीच्छसि श्रियं तात यादृशीं तां युधिष्ठिरे। विशिष्टां वा नरव्याघ्र शीलवान्भव पुत्रक ॥१२-१२४-१४॥
शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः। न हि किञ्चिदसाध्यं वै लोके शीलवतां भवेत् ॥१२-१२४-१५॥
एकरात्रेण मान्धाता त्र्यहेण जनमेजयः। सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिवान् ॥१२-१२४-१६॥
एते हि पार्थिवाः सर्वे शीलवन्तो दमान्विताः। अतस्तेषां गुणक्रीता वसुधा स्वयमागमत् ॥१२-१२४-१७॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। नारदेन पुरा प्रोक्तं शीलमाश्रित्य भारत ॥१२-१२४-१८॥
प्रह्रादेन हृतं राज्यं महेन्द्रस्य महात्मनः। शीलमाश्रित्य दैत्येन त्रैलोक्यं च वशीकृतम् ॥१२-१२४-१९॥
ततो बृहस्पतिं शक्रः प्राञ्जलिः समुपस्थितः। उवाच च महाप्राज्ञः श्रेय इच्छामि वेदितुम् ॥१२-१२४-२०॥
ततो बृहस्पतिस्तस्मै ज्ञानं नैःश्रेयसं परम्। कथयामास भगवान्देवेन्द्राय कुरूद्वह ॥१२-१२४-२१॥
एतावच्छ्रेय इत्येव बृहस्पतिरभाषत। इन्द्रस्तु भूयः पप्रच्छ क्व विशेषो भवेदिति ॥१२-१२४-२२॥
बृहस्पतिरुवाच॥
विशेषोऽस्ति महांस्तात भार्गवस्य महात्मनः। तत्रागमय भद्रं ते भूय एव पुरंदर ॥१२-१२४-२३॥
धृतराष्ट्र उवाच॥
आत्मनस्तु ततः श्रेयो भार्गवात्सुमहायशाः। ज्ञानमागमयत्प्रीत्या पुनः स परमद्युतिः ॥१२-१२४-२४॥
तेनापि समनुज्ञातो भार्गवेण महात्मना। श्रेयोऽस्तीति पुनर्भूयः शुक्रमाह शतक्रतुः ॥१२-१२४-२५॥
भार्गवस्त्वाह धर्मज्ञः प्रह्रादस्य महात्मनः। ज्ञानमस्ति विशेषेण ततो हृष्टश्च सोऽभवत् ॥१२-१२४-२६॥
स ततो ब्राह्मणो भूत्वा प्रह्रादं पाकशासनः। सृत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम् ॥१२-१२४-२७॥
प्रह्रादस्त्वब्रवीद्विप्रं क्षणो नास्ति द्विजर्षभ। त्रैलोक्यराज्ये सक्तस्य ततो नोपदिशामि ते ॥१२-१२४-२८॥
ब्राह्मणस्त्वब्रवीद्वाक्यं कस्मिन्काले क्षणो भवेत्। ततोपदिष्टमिच्छामि यद्यत्कार्यान्तरं भवेत् ॥१२-१२४-२९॥
ततः प्रीतोऽभवद्राजा प्रह्रादो ब्रह्मवादिने। तथेत्युक्त्वा शुभे काले ज्ञानतत्त्वं ददौ तदा ॥१२-१२४-३०॥
ब्राह्मणोऽपि यथान्यायं गुरुवृत्तिमनुत्तमाम्। चकार सर्वभावेन यद्वत्स मनसेच्छति ॥१२-१२४-३१॥
पृष्टश्च तेन बहुशः प्राप्तं कथमरिंदम। त्रैलोक्यराज्यं धर्मज्ञ कारणं तद्ब्रवीहि मे ॥१२-१२४-३२॥
प्रह्राद उवाच॥
नासूयामि द्विजश्रेष्ठ राजास्मीति कदाचन। कव्यानि वदतां तात संयच्छामि वहामि च ॥१२-१२४-३३॥
ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा। ते मा कव्यपदे सक्तं शुश्रूषुमनसूयकम् ॥१२-१२४-३४॥
धर्मात्मानं जितक्रोधं संयतं संयतेन्द्रियम्। समाचिन्वन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः ॥१२-१२४-३५॥
सोऽहं वागग्रपिष्टानां रसानामवलेहिता। स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ॥१२-१२४-३६॥
एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम्। यद्ब्राह्मणमुखे कव्यमेतच्छ्रुत्वा प्रवर्तते ॥१२-१२४-३७॥
धृतराष्ट्र उवाच॥
एतावच्छ्रेय इत्याह प्रह्रादो ब्रह्मवादिनम्। शुश्रूषितस्तेन तदा दैत्येन्द्रो वाक्यमब्रवीत् ॥१२-१२४-३८॥
यथावद्गुरुवृत्त्या ते प्रीतोऽस्मि द्विजसत्तम। वरं वृणीष्व भद्रं ते प्रदातास्मि न संशयः ॥१२-१२४-३९॥
कृतमित्येव दैत्येन्द्रमुवाच स च वै द्विजः। प्रह्रादस्त्वब्रवीत्प्रीतो गृह्यतां वर इत्युत ॥१२-१२४-४०॥
ब्राह्मण उवाच॥
यदि राजन्प्रसन्नस्त्वं मम चेच्छसि चेद्धितम्। भवतः शीलमिच्छामि प्राप्तुमेष वरो मम ॥१२-१२४-४१॥
धृतराष्ट्र उवाच॥
ततः प्रीतश्च दैत्येन्द्रो भयं चास्याभवन्महत्। वरे प्रदिष्टे विप्रेण नाल्पतेजायमित्युत ॥१२-१२४-४२॥
एवमस्त्विति तं प्राह प्रह्रादो विस्मितस्तदा। उपाकृत्य तु विप्राय वरं दुःखान्वितोऽभवत् ॥१२-१२४-४३॥
दत्ते वरे गते विप्रे चिन्तासीन्महती ततः। प्रह्रादस्य महाराज निश्चयं न च जग्मिवान् ॥१२-१२४-४४॥
तस्य चिन्तयतस्तात छायाभूतं महाद्युते। तेजो विग्रहवत्तात शरीरमजहात्तदा ॥१२-१२४-४५॥
तमपृच्छन्महाकायं प्रह्रादः को भवानिति। प्रत्याह ननु शीलोऽस्मि त्यक्तो गच्छाम्यहं त्वया ॥१२-१२४-४६॥
तस्मिन्द्विजवरे राजन्वत्स्याम्यहमनिन्दितम्। योऽसौ शिष्यत्वमागम्य त्वयि नित्यं समाहितः ॥ इत्युक्त्वान्तर्हितं तद्वै शक्रं चान्वविशत्प्रभो ॥१२-१२४-४७॥
तस्मिंस्तेजसि याते तु तादृग्रूपस्ततोऽपरः। शरीरान्निःसृतस्तस्य को भवानिति चाब्रवीत् ॥१२-१२४-४८॥
धर्मं प्रह्राद मां विद्धि यत्रासौ द्विजसत्तमः। तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्यहम् ॥१२-१२४-४९॥
ततोऽपरो महाराज प्रज्वलन्निव तेजसा। शरीरान्निःसृतस्तस्य प्रह्रादस्य महात्मनः ॥१२-१२४-५०॥
को भवानिति पृष्टश्च तमाह स महाद्युतिः। सत्यमस्म्यसुरेन्द्राग्र्य यास्येऽहं धर्ममन्विह ॥१२-१२४-५१॥
तस्मिन्ननुगते धर्मं पुरुषे पुरुषोऽपरः। निश्चक्राम ततस्तस्मात्पृष्टश्चाह महात्मना ॥ वृत्तं प्रह्राद मां विद्धि यतः सत्यं ततो ह्यहम् ॥१२-१२४-५२॥
तस्मिन्गते महाश्वेतः शरीरात्तस्य निर्ययौ। पृष्टश्चाह बलं विद्धि यतो वृत्तमहं ततः ॥ इत्युक्त्वा च ययौ तत्र यतो वृत्तं नराधिप ॥१२-१२४-५३॥
ततः प्रभामयी देवी शरीरात्तस्य निर्ययौ। तामपृच्छत्स दैत्येन्द्रः सा श्रीरित्येवमब्रवीत् ॥१२-१२४-५४॥
उषितास्मि सुखं वीर त्वयि सत्यपराक्रमे। त्वया त्यक्ता गमिष्यामि बलं यत्र ततो ह्यहम् ॥१२-१२४-५५॥
ततो भयं प्रादुरासीत्प्रह्रादस्य महात्मनः। अपृच्छत च तां भूयः क्व यासि कमलालये ॥१२-१२४-५६॥
त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी। कश्चासौ ब्राह्मणश्रेष्ठस्तत्त्वमिच्छामि वेदितुम् ॥१२-१२४-५७॥
श्रीरुवाच॥
स शक्रो ब्रह्मचारी च यस्त्वया चोपशिक्षितः। त्रैलोक्ये ते यदैश्वर्यं तत्तेनापहृतं प्रभो ॥१२-१२४-५८॥
शीलेन हि त्वया लोकाः सर्वे धर्मज्ञ निर्जिताः। तद्विज्ञाय महेन्द्रेण तव शीलं हृतं प्रभो ॥१२-१२४-५९॥
धर्मः सत्यं तथा वृत्तं बलं चैव तथा ह्यहम्। शीलमूला महाप्राज्ञ सदा नास्त्यत्र संशयः ॥१२-१२४-६०॥
भीष्म उवाच॥
एवमुक्त्वा गता तु श्रीस्ते च सर्वे युधिष्ठिर। दुर्योधनस्तु पितरं भूय एवाब्रवीदिदम् ॥१२-१२४-६१॥
शीलस्य तत्त्वमिच्छामि वेत्तुं कौरवनन्दन। प्राप्यते च यथा शीलं तमुपायं वदस्व मे ॥१२-१२४-६२॥
धृतराष्ट्र उवाच॥
सोपायं पूर्वमुद्दिष्टं प्रह्रादेन महात्मना। सङ्क्षेपतस्तु शीलस्य शृणु प्राप्तिं नराधिप ॥१२-१२४-६३॥
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा। अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते ॥१२-१२४-६४॥
यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम्। अपत्रपेत वा येन न तत्कुर्यात्कथञ्चन ॥१२-१२४-६५॥
तत्तु कर्म तथा कुर्याद्येन श्लाघेत संसदि। एतच्छीलं समासेन कथितं कुरुसत्तम ॥१२-१२४-६६॥
यद्यप्यशीला नृपते प्राप्नुवन्ति क्वचिच्छ्रियम्। न भुञ्जते चिरं तात समूलाश्च पतन्ति ते ॥१२-१२४-६७॥
एतद्विदित्वा तत्त्वेन शीलवान्भव पुत्रक। यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात् ॥१२-१२४-६८॥
भीष्म उवाच॥
एतत्कथितवान्पुत्रे धृतराष्ट्रो नराधिप। एतत्कुरुष्व कौन्तेय ततः प्राप्स्यसि तत्फलम् ॥१२-१२४-६९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.