12.123
युधिष्ठिर उवाच॥
तात धर्मार्थकामानां श्रोतुमिच्छामि निश्चयम्। लोकयात्रा हि कार्त्स्न्येन त्रिष्वेतेषु प्रतिष्ठिता ॥१२-१२३-१॥
धर्मार्थकामाः किंमूलास्त्रयाणां प्रभवश्च कः। अन्योन्यं चानुषज्जन्ते वर्तन्ते च पृथक्पृथक् ॥१२-१२३-२॥
भीष्म उवाच॥
यदा ते स्युः सुमनसो लोकसंस्थार्थनिश्चये। कालप्रभवसंस्थासु सज्जन्ते च त्रयस्तदा ॥१२-१२३-३॥
धर्ममूलस्तु देहोऽर्थः कामोऽर्थफलमुच्यते। सङ्कल्पमूलास्ते सर्वे सङ्कल्पो विषयात्मकः ॥१२-१२३-४॥
विषयाश्चैव कार्त्स्न्येन सर्व आहारसिद्धये। मूलमेतत्त्रिवर्गस्य निवृत्तिर्मोक्ष उच्यते ॥१२-१२३-५॥
धर्मः शरीरसङ्गुप्तिर्धर्मार्थं चार्थ इष्यते। कामो रतिफलश्चात्र सर्वे चैते रजस्वलाः ॥१२-१२३-६॥
सन्निकृष्टांश्चरेदेनान्न चैनान्मनसा त्यजेत्। विमुक्तस्तमसा सर्वान्धर्मादीन्कामनैष्ठिकान् ॥१२-१२३-७॥
श्रेष्ठबुद्धिस्त्रिवर्गस्य यदयं प्राप्नुयात्क्षणात्। बुद्ध्या बुध्येदिहार्थे न तदह्ना तु निकृष्टया ॥१२-१२३-८॥
अपध्यानमलो धर्मो मलोऽर्थस्य निगूहनम्। सम्प्रमोदमलः कामो भूयः स्वगुणवर्तितः ॥१२-१२३-९॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। कामन्दस्य च संवादमङ्गारिष्ठस्य चोभयोः ॥१२-१२३-१०॥
कामन्दमृषिमासीनमभिवाद्य नराधिपः। अङ्गारिष्ठोऽथ पप्रच्छ कृत्वा समयपर्ययम् ॥१२-१२३-११॥
यः पापं कुरुते राजा काममोहबलात्कृतः। प्रत्यासन्नस्य तस्यर्षे किं स्यात्पापप्रणाशनम् ॥१२-१२३-१२॥
अधर्मो धर्म इति ह योऽज्ञानादाचरेदिह। तं चापि प्रथितं लोके कथं राजा निवर्तयेत् ॥१२-१२३-१३॥
कामन्द उवाच॥
यो धर्मार्थौ समुत्सृज्य काममेवानुवर्तते। स धर्मार्थपरित्यागात्प्रज्ञानाशमिहार्छति ॥१२-१२३-१४॥
प्रज्ञाप्रणाशको मोहस्तथा धर्मार्थनाशकः। तस्मान्नास्तिकता चैव दुराचारश्च जायते ॥१२-१२३-१५॥
दुराचारान्यदा राजा प्रदुष्टान्न नियच्छति। तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ॥१२-१२३-१६॥
तं प्रजा नानुवर्तन्ते ब्राह्मणा न च साधवः। ततः सङ्क्षयमाप्नोति तथा वध्यत्वमेति च ॥१२-१२३-१७॥
अपध्वस्तस्त्ववमतो दुःखं जीवति जीवितम्। जीवेच्च यदपध्वस्तस्तच्छुद्धं मरणं भवेत् ॥१२-१२३-१८॥
अत्रैतदाहुराचार्याः पापस्य च निबर्हणम्। सेवितव्या त्रयी विद्या सत्कारो ब्राह्मणेषु च ॥१२-१२३-१९॥
महामना भवेद्धर्मे विवहेच्च महाकुले। ब्राह्मणांश्चापि सेवेत क्षमायुक्तान्मनस्विनः ॥१२-१२३-२०॥
जपेदुदकशीलः स्यात्सुमुखो नान्यदास्थितः। धर्मान्वितान्सम्प्रविशेद्बहिः कृत्वैव दुष्कृतीन् ॥१२-१२३-२१॥
प्रसादयेन्मधुरय वाचाप्यथ च कर्मणा। इत्यस्मीति वदेन्नित्यं परेषां कीर्तयन्गुणान् ॥१२-१२३-२२॥
अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत्। पापान्यपि च कृच्छ्राणि शमयेन्नात्र संशयः ॥१२-१२३-२३॥
गुरवोऽपि परं धर्मं यद्ब्रूयुस्तत्तथा कुरु। गुरूणां हि प्रसादाद्धि श्रेयः परमवाप्स्यसि ॥१२-१२३-२४॥