12.125
युधिष्ठिर उवाच॥
शीलं प्रधानं पुरुषे कथितं ते पितामह। कथमाशा समुत्पन्ना या च सा तद्वदस्व मे ॥१२-१२५-१॥
संशयो मे महानेष समुत्पन्नः पितामह। छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरञ्जय ॥१२-१२५-२॥
पितामहाशा महती ममासीद्धि सुयोधने। प्राप्ते युद्धे तु यद्युक्तं तत्कर्तायमिति प्रभो ॥१२-१२५-३॥
सर्वस्याशा सुमहती पुरुषस्योपजायते। तस्यां विहन्यमानायां दुःखो मृत्युरसंशयम् ॥१२-१२५-४॥
सोऽहं हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना। धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम ॥१२-१२५-५॥
आशां महत्तरां मन्ये पर्वतादपि सद्रुमात्। आकाशादपि वा राजन्नप्रमेयैव वा पुनः ॥१२-१२५-६॥
एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा। दुर्लभत्वाच्च पश्यामि किमन्यद्दुर्लभं ततः ॥१२-१२५-७॥
भीष्म उवाच॥
अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध तत्। इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च ॥१२-१२५-८॥
सुमित्रो नाम राजर्षिर्हैहयो मृगयां गतः। ससार स मृगं विद्ध्वा बाणेन नतपर्वणा ॥१२-१२५-९॥
स मृगो बाणमादाय ययावमितविक्रमः। स च राजा बली तूर्णं ससार मृगमन्तिकात् ॥१२-१२५-१०॥
ततो निम्नं स्थलं चैव स मृगोऽद्रवदाशुगः। मुहूर्तमेव राजेन्द्र समेन स पथागमत् ॥१२-१२५-११॥
ततः स राजा तारुण्यादौरसेन बलेन च। ससार बाणासनभृत्सखड्गो हंसवत्तदा ॥१२-१२५-१२॥
तीर्त्वा नदान्नदीश्चैव पल्वलानि वनानि च। अतिक्रम्याभ्यतिक्रम्य ससारैव वने चरन् ॥१२-१२५-१३॥
स तु कामान्मृगो राजन्नासाद्यासाद्य तं नृपम्। पुनरभ्येति जवनो जवेन महता ततः ॥१२-१२५-१४॥
स तस्य बाणैर्बहुभिः समभ्यस्तो वनेचरः। प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम् ॥१२-१२५-१५॥
पुनश्च जवमास्थाय जवनो मृगयूथपः। अतीत्यातीत्य राजेन्द्र पुनरभ्येति चान्तिकम् ॥१२-१२५-१६॥
तस्य मर्मच्छिदं घोरं सुमित्रोऽमित्रकर्शनः। समादाय शरश्रेष्ठं कार्मुकान्निरवासृजत् ॥१२-१२५-१७॥
ततो गव्यूतिमात्रेण मृगयूथपयूथपः। तस्य बाणपथं त्यक्त्वा तस्थिवान्प्रहसन्निव ॥१२-१२५-१८॥
तस्मिन्निपतिते बाणे भूमौ प्रज्वलिते ततः। प्रविवेश महारण्यं मृगो राजाप्यथाद्रवत् ॥१२-१२५-१९॥
प्रविश्य तु महारण्यं तापसानामथाश्रमम्। आससाद ततो राजा श्रान्तश्चोपाविशत्पुनः ॥१२-१२५-२०॥
तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा। समेत्य ऋषयस्तस्मिन्पूजां चक्रुर्यथाविधि ॥१२-१२५-२१॥
ऋषयो राजशार्दूलमपृच्छन्स्वं प्रयोजनम्। केन भद्रमुखार्थेन सम्प्राप्तोऽसि तपोवनम् ॥१२-१२५-२२॥
पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर। एतदिच्छाम विज्ञातुं कुतः प्राप्तोऽसि मानद ॥ कस्मिन्कुले हि जातस्त्वं किंनामासि ब्रवीहि नः ॥१२-१२५-२३॥
ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ। आचख्यौ तद्यथान्यायं परिचर्यां च भारत ॥१२-१२५-२४॥
हैहयानां कुले जातः सुमित्रो मित्रनन्दनः। चरामि मृगयूथानि निघ्नन्बाणैः सहस्रशः ॥ बलेन महता गुप्तः सामात्यः सावरोधनः ॥१२-१२५-२५॥
मृगस्तु विद्धो बाणेन मया सरति शल्यवान्। तं द्रवन्तमनु प्राप्तो वनमेतद्यदृच्छया ॥ भवत्सकाशे नष्टश्रीर्हताशः श्रमकर्शितः ॥१२-१२५-२६॥
किं नु दुःखमतोऽन्यद्वै यदहं श्रमकर्शितः। भवतामाश्रमं प्राप्तो हताशो नष्टलक्षणः ॥१२-१२५-२७॥
न राजलक्षणत्यागो न पुरस्य तपोधनाः। दुःखं करोति तत्तीव्रं यथाशा विहता मम ॥१२-१२५-२८॥
हिमवान्वा महाशैलः समुद्रो वा महोदधिः। महत्त्वान्नान्वपद्येतां रोदस्योरन्तरं यथा ॥ आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः ॥१२-१२५-२९॥
भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः। भवन्तः सुमहाभागास्तस्मात्प्रक्ष्यामि संशयम् ॥१२-१२५-३०॥
आशावान्पुरुषो यः स्यादन्तरिक्षमथापि वा। किं नु ज्यायस्तरं लोके महत्त्वात्प्रतिभाति वः ॥ एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम् ॥१२-१२५-३१॥
यदि गुह्यं तपोनित्या न वो ब्रूतेह माचिरम्। न हि गुह्यमतः श्रोतुमिच्छामि द्विजपुङ्गवाः ॥१२-१२५-३२॥
भवत्तपोविघातो वा येन स्याद्विरमे ततः। यदि वास्ति कथायोगो योऽयं प्रश्नो मयेरितः ॥१२-१२५-३३॥
एतत्कारणसामग्र्यं श्रोतुमिच्छामि तत्त्वतः। भवन्तो हि तपोनित्या ब्रूयुरेतत्समाहिताः ॥१२-१२५-३४॥