12.125
Library: The hope of every person is very great. When that is destroyed, sorrow and death, without doubt, follow. What is the secret behind hope?
युधिष्ठिर उवाच॥
शीलं प्रधानं पुरुषे कथितं ते पितामह। कथमाशा समुत्पन्ना या च सा तद्वदस्व मे ॥१२-१२५-१॥
संशयो मे महानेष समुत्पन्नः पितामह। छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरञ्जय ॥१२-१२५-२॥
पितामहाशा महती ममासीद्धि सुयोधने। प्राप्ते युद्धे तु यद्युक्तं तत्कर्तायमिति प्रभो ॥१२-१२५-३॥
सर्वस्याशा सुमहती पुरुषस्योपजायते। तस्यां विहन्यमानायां दुःखो मृत्युरसंशयम् ॥१२-१२५-४॥
सोऽहं हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना। धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम ॥१२-१२५-५॥
आशां महत्तरां मन्ये पर्वतादपि सद्रुमात्। आकाशादपि वा राजन्नप्रमेयैव वा पुनः ॥१२-१२५-६॥
एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा। दुर्लभत्वाच्च पश्यामि किमन्यद्दुर्लभं ततः ॥१२-१२५-७॥
भीष्म उवाच॥
अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध तत्। इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च ॥१२-१२५-८॥
सुमित्रो नाम राजर्षिर्हैहयो मृगयां गतः। ससार स मृगं विद्ध्वा बाणेन नतपर्वणा ॥१२-१२५-९॥
स मृगो बाणमादाय ययावमितविक्रमः। स च राजा बली तूर्णं ससार मृगमन्तिकात् ॥१२-१२५-१०॥
ततो निम्नं स्थलं चैव स मृगोऽद्रवदाशुगः। मुहूर्तमेव राजेन्द्र समेन स पथागमत् ॥१२-१२५-११॥
ततः स राजा तारुण्यादौरसेन बलेन च। ससार बाणासनभृत्सखड्गो हंसवत्तदा ॥१२-१२५-१२॥
तीर्त्वा नदान्नदीश्चैव पल्वलानि वनानि च। अतिक्रम्याभ्यतिक्रम्य ससारैव वने चरन् ॥१२-१२५-१३॥
स तु कामान्मृगो राजन्नासाद्यासाद्य तं नृपम्। पुनरभ्येति जवनो जवेन महता ततः ॥१२-१२५-१४॥
स तस्य बाणैर्बहुभिः समभ्यस्तो वनेचरः। प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम् ॥१२-१२५-१५॥
पुनश्च जवमास्थाय जवनो मृगयूथपः। अतीत्यातीत्य राजेन्द्र पुनरभ्येति चान्तिकम् ॥१२-१२५-१६॥
तस्य मर्मच्छिदं घोरं सुमित्रोऽमित्रकर्शनः। समादाय शरश्रेष्ठं कार्मुकान्निरवासृजत् ॥१२-१२५-१७॥
ततो गव्यूतिमात्रेण मृगयूथपयूथपः। तस्य बाणपथं त्यक्त्वा तस्थिवान्प्रहसन्निव ॥१२-१२५-१८॥
तस्मिन्निपतिते बाणे भूमौ प्रज्वलिते ततः। प्रविवेश महारण्यं मृगो राजाप्यथाद्रवत् ॥१२-१२५-१९॥
प्रविश्य तु महारण्यं तापसानामथाश्रमम्। आससाद ततो राजा श्रान्तश्चोपाविशत्पुनः ॥१२-१२५-२०॥
तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा। समेत्य ऋषयस्तस्मिन्पूजां चक्रुर्यथाविधि ॥१२-१२५-२१॥
ऋषयो राजशार्दूलमपृच्छन्स्वं प्रयोजनम्। केन भद्रमुखार्थेन सम्प्राप्तोऽसि तपोवनम् ॥१२-१२५-२२॥
पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर। एतदिच्छाम विज्ञातुं कुतः प्राप्तोऽसि मानद ॥ कस्मिन्कुले हि जातस्त्वं किंनामासि ब्रवीहि नः ॥१२-१२५-२३॥
ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ। आचख्यौ तद्यथान्यायं परिचर्यां च भारत ॥१२-१२५-२४॥
हैहयानां कुले जातः सुमित्रो मित्रनन्दनः। चरामि मृगयूथानि निघ्नन्बाणैः सहस्रशः ॥ बलेन महता गुप्तः सामात्यः सावरोधनः ॥१२-१२५-२५॥
मृगस्तु विद्धो बाणेन मया सरति शल्यवान्। तं द्रवन्तमनु प्राप्तो वनमेतद्यदृच्छया ॥ भवत्सकाशे नष्टश्रीर्हताशः श्रमकर्शितः ॥१२-१२५-२६॥
किं नु दुःखमतोऽन्यद्वै यदहं श्रमकर्शितः। भवतामाश्रमं प्राप्तो हताशो नष्टलक्षणः ॥१२-१२५-२७॥
न राजलक्षणत्यागो न पुरस्य तपोधनाः। दुःखं करोति तत्तीव्रं यथाशा विहता मम ॥१२-१२५-२८॥
हिमवान्वा महाशैलः समुद्रो वा महोदधिः। महत्त्वान्नान्वपद्येतां रोदस्योरन्तरं यथा ॥ आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः ॥१२-१२५-२९॥
भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः। भवन्तः सुमहाभागास्तस्मात्प्रक्ष्यामि संशयम् ॥१२-१२५-३०॥
आशावान्पुरुषो यः स्यादन्तरिक्षमथापि वा। किं नु ज्यायस्तरं लोके महत्त्वात्प्रतिभाति वः ॥ एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम् ॥१२-१२५-३१॥
यदि गुह्यं तपोनित्या न वो ब्रूतेह माचिरम्। न हि गुह्यमतः श्रोतुमिच्छामि द्विजपुङ्गवाः ॥१२-१२५-३२॥
भवत्तपोविघातो वा येन स्याद्विरमे ततः। यदि वास्ति कथायोगो योऽयं प्रश्नो मयेरितः ॥१२-१२५-३३॥
एतत्कारणसामग्र्यं श्रोतुमिच्छामि तत्त्वतः। भवन्तो हि तपोनित्या ब्रूयुरेतत्समाहिताः ॥१२-१२५-३४॥