12.131
भीष्म उवाच॥
स्वराष्ट्रात्परराष्ट्राच्च कोशं सञ्जनयेन्नृपः। कोशाद्धि धर्मः कौन्तेय राज्यमूलः प्रवर्तते ॥१२-१३१-१॥
तस्मात्सञ्जनयेत्कोशं संहृत्य परिपालयेत्। परिपाल्यानुगृह्णीयादेष धर्मः सनातनः ॥१२-१३१-२॥
न कोशः शुद्धशौचेन न नृशंसेन जायते। पदं मध्यममास्थाय कोशसङ्ग्रहणं चरेत् ॥१२-१३१-३॥
अबलस्य कुतः कोशो ह्यकोशस्य कुतो बलम्। अबलस्य कुतो राज्यमराज्ञः श्रीः कुतो भवेत् ॥१२-१३१-४॥
उच्चैर्वृत्तेः श्रियो हानिर्यथैव मरणं तथा। तस्मात्कोशं बलं मित्राण्यथ राजा विवर्धयेत् ॥१२-१३१-५॥
हीनकोशं हि राजानमवजानन्ति मानवाः। न चास्याल्पेन तुष्यन्ति कार्यमभ्युत्सहन्ति च ॥१२-१३१-६॥
श्रियो हि कारणाद्राजा सत्क्रियां लभते पराम्। सास्य गूहति पापानि वासो गुह्यमिव स्त्रियाः ॥१२-१३१-७॥
ऋद्धिमस्यानुवर्तन्ते पुरा विप्रकृता जनाः। शालावृका इवाजस्रं जिघांसूनिव विन्दति ॥ ईदृशस्य कुतो राज्ञः सुखं भरतसत्तम ॥१२-१३१-८॥
उद्यच्छेदेव न ग्लायेदुद्यमो ह्येव पौरुषम्। अप्यपर्वणि भज्येत न नमेतेह कस्यचित् ॥१२-१३१-९॥
अप्यरण्यं समाश्रित्य चरेद्दस्युगणैः सह। न त्वेवोद्धृतमर्यादैर्दस्युभिः सहितश्चरेत् ॥ दस्यूनां सुलभा सेना रौद्रकर्मसु भारत ॥१२-१३१-१०॥
एकान्तेन ह्यमर्यादात्सर्वोऽप्युद्विजते जनः। दस्यवोऽप्युपशङ्कन्ते निरनुक्रोशकारिणः ॥१२-१३१-११॥
स्थापयेदेव मर्यादां जनचित्तप्रसादिनीम्। अल्पाप्यथेह मर्यादा लोके भवति पूजिता ॥१२-१३१-१२॥
नायं लोकोऽस्ति न पर इति व्यवसितो जनः। नालं गन्तुं च विश्वासं नास्तिके भयशङ्किनि ॥१२-१३१-१३॥
यथा सद्भिः परादानमहिंसा दस्युभिस्तथा। अनुरज्यन्ति भूतानि समर्यादेषु दस्युषु ॥१२-१३१-१४॥
अयुध्यमानस्य वधो दारामर्शः कृतघ्नता। ब्रह्मवित्तस्य चादानं निःशेषकरणं तथा ॥ स्त्रिया मोषः परिस्थानं दस्युष्वेतद्विगर्हितम् ॥१२-१३१-१५॥
स एष एव भवति दस्युरेतानि वर्जयन्। अभिसंदधते ये न विनाशायास्य भारत ॥ नशेषमेवोपालभ्य न कुर्वन्तीति निश्चयः ॥१२-१३१-१६॥
तस्मात्सशेषं कर्तव्यं स्वाधीनमपि दस्युभिः। न बलस्थोऽहमस्मीति नृशंसानि समाचरेत् ॥१२-१३१-१७॥
सशेषकारिणस्तात शेषं पश्यन्ति सर्वतः। निःशेषकारिणो नित्यमशेषकरणाद्भयम् ॥१२-१३१-१८॥