12.130
युधिष्ठिर उवाच॥
हीने परमके धर्मे सर्वलोकातिलङ्घिनि। सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने ॥१२-१३०-१॥
केनास्मिन्ब्राह्मणो जीवेज्जघन्ये काल आगते। असन्त्यजन्पुत्रपौत्राननुक्रोशात्पितामह ॥१२-१३०-२॥
भीष्म उवाच॥
विज्ञानबलमास्थाय जीवितव्यं तथागते। सर्वं साध्वर्थमेवेदमसाध्वर्थं न किञ्चन ॥१२-१३०-३॥
असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति। आत्मानं सङ्क्रमं कृत्वा कृत्स्नधर्मविदेव सः ॥१२-१३०-४॥
सुरोषेणात्मनो राजन्राज्ये स्थितिमकोपयन्। अदत्तमप्याददीत दातुर्वित्तं ममेति वा ॥१२-१३०-५॥
विज्ञानबलपूतो यो वर्तते निन्दितेष्वपि। वृत्तविज्ञानवान्धीरः कस्तं किं वक्तुमर्हति ॥१२-१३०-६॥
येषां बलकृता वृत्तिर्नैषामन्याभिरोचते। तेजसाभिप्रवर्धन्ते बलवन्तो युधिष्ठिर ॥१२-१३०-७॥
यदेव प्रकृतं शास्त्रमविशेषेण विन्दति। तदेव मध्याः सेवन्ते मेधावी चाप्यथोत्तरम् ॥१२-१३०-८॥
ऋत्विक्पुरोहिताचार्यान्सत्कृतैरभिपूजितान्। न ब्राह्मणान्यातयेत दोषान्प्राप्नोति यातयन् ॥१२-१३०-९॥
एतत्प्रमाणं लोकस्य चक्षुरेतत्सनातनम्। तत्प्रमाणोऽवगाहेत तेन तत्साध्वसाधु वा ॥१२-१३०-१०॥
बहूनि ग्रामवास्तव्या रोषाद्ब्रूयुः परस्परम्। न तेषां वचनाद्राजा सत्कुर्याद्यातयेत वा ॥१२-१३०-११॥
न वाच्यः परिवादो वै न श्रोतव्यः कथञ्चन। कर्णावेव पिधातव्यौ प्रस्थेयं वा ततोऽन्यतः ॥१२-१३०-१२॥
न वै सतां वृत्तमेतत्परिवादो न पैशुनम्। गुणानामेव वक्तारः सन्तः सत्सु युधिष्ठिर ॥१२-१३०-१३॥
यथा समधुरौ दम्यौ सुदान्तौ साधुवाहिनौ। धुरमुद्यम्य वहतस्तथा वर्तेत वै नृपः ॥ यथा यथास्य वहतः सहायाः स्युस्तथापरे ॥१२-१३०-१४॥
आचारमेव मन्यन्ते गरीयो धर्मलक्षणम्। अपरे नैवमिच्छन्ति ये शङ्खलिखितप्रियाः ॥ मार्दवादथ लोभाद्वा ते ब्रूयुर्वाक्यमीदृशम् ॥१२-१३०-१५॥
आर्षमप्यत्र पश्यन्ति विकर्मस्थस्य यापनम्। न चार्षात्सदृशं किञ्चित्प्रमाणं विद्यते क्वचित् ॥१२-१३०-१६॥
देवा अपि विकर्मस्थं यातयन्ति नराधमम्। व्याजेन विन्दन्वित्तं हि धर्मात्तु परिहीयते ॥१२-१३०-१७॥
सर्वतः सत्कृतः सद्भिर्भूतिप्रभवकारणैः। हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यति ॥१२-१३०-१८॥
यश्चतुर्गुणसम्पन्नं धर्मं वेद स धर्मवित्। अहेरिव हि धर्मस्य पदं दुःखं गवेषितुम् ॥१२-१३०-१९॥
यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत्। कक्षे रुधिरपातेन तथा धर्मपदं नयेत् ॥१२-१३०-२०॥
एवं सद्भिर्विनीतेन पथा गन्तव्यमच्युत। राजर्षीणां वृत्तमेतदवगच्छ युधिष्ठिर ॥१२-१३०-२१॥