12.132
भीष्म उवाच॥
अत्र कर्मान्तवचनं कीर्तयन्ति पुराविदः। प्रत्यक्षावेव धर्मार्थौ क्षत्रियस्य विजानतः ॥ तत्र न व्यवधातव्यं परोक्षा धर्मयापना ॥१२-१३२-१॥
अधर्मो धर्म इत्येतद्यथा वृकपदं तथा। धर्माधर्मफले जातु न ददर्शेह कश्चन ॥१२-१३२-२॥
बुभूषेद्बलवानेव सर्वं बलवतो वशे। श्रियं बलममात्यांश्च बलवानिह विन्दति ॥१२-१३२-३॥
यो ह्यनाढ्यः स पतितस्तदुच्छिष्टं यदल्पकम्। बह्वपथ्यं बलवति न किञ्चित्त्रायते भयात् ॥१२-१३२-४॥
उभौ सत्याधिकारौ तौ त्रायेते महतो भयात्। अति धर्माद्बलं मन्ये बलाद्धर्मः प्रवर्तते ॥१२-१३२-५॥
बले प्रतिष्ठितो धर्मो धरण्यामिव जङ्गमः। धूमो वायोरिव वशं बलं धर्मोऽनुवर्तते ॥१२-१३२-६॥
अनीश्वरे बलं धर्मो द्रुमं वल्लीव संश्रिता। वश्यो बलवतां धर्मः सुखं भोगवतामिव ॥ नास्त्यसाध्यं बलवतां सर्वं बलवतां शुचि ॥१२-१३२-७॥
दुराचारः क्षीणबलः परिमाणं नियच्छति। अथ तस्मादुद्विजते सर्वो लोको वृकादिव ॥१२-१३२-८॥
अपध्वस्तो ह्यवमतो दुःखं जीवति जीवितम्। जीवितं यदवक्षिप्तं यथैव मरणं तथा ॥१२-१३२-९॥
यदेनमाहुः पापेन चारित्रेण विनिक्षतम्। स भृशं तप्यतेऽनेन वाक्षल्येन परिक्षतः ॥१२-१३२-१०॥
अत्रैतदाहुराचार्याः पापस्य परिमोक्षणे। त्रयीं विद्यां निषेवेत तथोपासीत स द्विजान् ॥१२-१३२-११॥
प्रसादयेन्मधुरया वाचाप्यथ च कर्मणा। महामनाश्चैव भवेद्विवहेच्च महाकुले ॥१२-१३२-१२॥
इत्यस्मीति वदेदेवं परेषां कीर्तयन्गुणान्। जपेदुदकशीलः स्यात्पेशलो नातिजल्पनः ॥१२-१३२-१३॥
ब्रह्मक्षत्रं सम्प्रविशेद्बहु कृत्वा सुदुष्करम्। उच्यमानोऽपि लोकेन बहु तत्तदचिन्तयन् ॥१२-१३२-१४॥
अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत्। सुखं वित्तं च भुञ्जीत वृत्तेनैतेन गोपयेत् ॥ लोके च लभते पूजां परत्र च महत्फलम् ॥१२-१३२-१५॥