Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.133
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। यथा दस्युः समर्यादः प्रेत्यभावे न नश्यति ॥१२-१३३-१॥
प्रहर्ता मतिमाञ्शूरः श्रुतवाननृशंसवान्। रक्षन्नक्षयिणं धर्मं ब्रह्मण्यो गुरुपूजकः ॥१२-१३३-२॥
निषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः। कापव्यो नाम नैषादिर्दस्युत्वात्सिद्धिमाप्तवान् ॥१२-१३३-३॥
अरण्ये सायपूर्वाह्णे मृगयूथप्रकोपिता। विधिज्ञो मृगजातीनां निपानानां च कोविदः ॥१२-१३३-४॥
सर्वकाननदेशज्ञः पारियात्रचरः सदा। धर्मज्ञः सर्वभूतानाममोघेषुर्दृढायुधः ॥१२-१३३-५॥
अप्यनेकशताः सेना एक एव जिगाय सः। स वृद्धावन्धपितरौ महारण्येऽभ्यपूजयत् ॥१२-१३३-६॥
मधुमांसैर्मूलफलैरन्नैरुच्चावचैरपि। सत्कृत्य भोजयामास सम्यक्परिचचार च ॥१२-१३३-७॥
आरण्यकान्प्रव्रजितान्ब्राह्मणान्परिपालयन्। अपि तेभ्यो मृगान्हत्वा निनाय च महावने ॥१२-१३३-८॥
ये स्म न प्रतिगृह्णन्ति दस्युभोजनशङ्कया। तेषामासज्य गेहेषु काल्य एव स गच्छति ॥१२-१३३-९॥
तं बहूनि सहस्राणि ग्रामणित्वेऽभिवव्रिरे। निर्मर्यादानि दस्यूनां निरनुक्रोशकारिणाम् ॥१२-१३३-१०॥
दस्यव ऊचुः॥
मुहूर्तदेशकालज्ञ प्राज्ञ शीलदृढायुध। ग्रामणीर्भव नो मुख्यः सर्वेषामेव संमतः ॥१२-१३३-११॥
यथा यथा वक्ष्यसि नः करिष्यामस्तथा तथा। पालयास्मान्यथान्यायं यथा माता यथा पिता ॥१२-१३३-१२॥
कापव्य उवाच॥
मा वधीस्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम्। नायुध्यमानो हन्तव्यो न च ग्राह्या बलात्स्त्रियः ॥१२-१३३-१३॥
सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु युध्यता। नित्यं गोब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः ॥१२-१३३-१४॥
सस्यं च नापहन्तव्यं सीरविघ्नं च मा कृथाः। पूज्यन्ते यत्र देवाश्च पितरोऽतिथयस्तथा ॥१२-१३३-१५॥
सर्वभूतेष्वपि च वै ब्राह्मणो मोक्षमर्हति। कार्या चापचितिस्तेषां सर्वस्वेनापि या भवेत् ॥१२-१३३-१६॥
यस्य ह्येते सम्प्ररुष्टा मन्त्रयन्ति पराभवम्। न तस्य त्रिषु लोकेषु त्राता भवति कश्चन ॥१२-१३३-१७॥
यो ब्राह्मणान्परिभवेद्विनाशं वापि रोचयेत्। सूर्योदय इवावश्यं ध्रुवं तस्य पराभवः ॥१२-१३३-१८॥
इहैव फलमासीनः प्रत्याकाङ्क्षति शक्तितः। ये ये नो न प्रदास्यन्ति तांस्तान्सेनाभियास्यति ॥१२-१३३-१९॥
शिष्ट्यर्थं विहितो दण्डो न वधार्थं विनिश्चयः। ये च शिष्टान्प्रबाधन्ते धर्मस्तेषां वधः स्मृतः ॥१२-१३३-२०॥
ये हि राष्ट्रोपरोधेन वृत्तिं कुर्वन्ति केचन। तदेव तेऽनु मीयन्ते कुणपं कृमयो यथा ॥१२-१३३-२१॥
ये पुनर्धर्मशास्त्रेण वर्तेरन्निह दस्यवः। अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः ॥१२-१३३-२२॥
भीष्म उवाच॥
तत्सर्वमुपचक्रुस्ते कापव्यस्यानुशासनम्। वृत्तिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन् ॥१२-१३३-२३॥
कापव्यः कर्मणा तेन महतीं सिद्धिमाप्तवान्। साधूनामाचरन्क्षेमं दस्यून्पापान्निवर्तयन् ॥१२-१३३-२४॥
इदं कापव्यचरितं यो नित्यमनुकीर्तयेत्। नारण्येभ्यः स भूतेभ्यो भयमार्छेत्कदाचन ॥१२-१३३-२५॥
भयं तस्य न मर्त्येभ्यो नामर्त्येभ्यः कथञ्चन। न सतो नासतो राजन्स ह्यरण्येषु गोपतिः ॥१२-१३३-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.