12.134
भीष्म उवाच॥
अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः। येन मार्गेण राजानः कोशं सञ्जनयन्ति च ॥१२-१३४-१॥
न धनं यज्ञशीलानां हार्यं देवस्वमेव तत्। दस्यूनां निष्क्रियाणां च क्षत्रियो हर्तुमर्हति ॥१२-१३४-२॥
इमाः प्रजाः क्षत्रियाणां रक्ष्याश्चाद्याश्च भारत। धनं हि क्षत्रियस्येह द्वितीयस्य न विद्यते ॥१२-१३४-३॥
तदस्य स्याद्बलार्थं वा धनं यज्ञार्थमेव वा। अभोग्या ह्योषधीश्छित्त्वा भोग्या एव पचन्त्युत ॥१२-१३४-४॥
यो वै न देवान्न पितॄन्न मर्त्यान्हविषार्चति। आनन्तिकां तां धनितामाहुर्वेदविदो जनाः ॥१२-१३४-५॥
हरेत्तद्द्रविणं राजन्धार्मिकः पृथिवीपतिः। न हि तत्प्रीणयेल्लोकान्न कोशं तद्विधं नृपः ॥१२-१३४-६॥
असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति। आत्मानं सङ्क्रमं कृत्वा मन्ये धर्मविदेव सः ॥१२-१३४-७॥
औद्भिज्जा जन्तवः केचिद्युक्तवाचो यथा तथा। अनिष्टतः सम्भवन्ति तथायज्ञः प्रतायते ॥१२-१३४-८॥
यथैव दंशमशकं यथा चाण्डपिपीलिकम्। सैव वृत्तिरयज्ञेषु तथा धर्मो विधीयते ॥१२-१३४-९॥
यथा ह्यकस्माद्भवति भूमौ पांसुतृणोलपम्। तथैवेह भवेद्धर्मः सूक्ष्मः सूक्ष्मतरोऽपि च ॥१२-१३४-१०॥