12.135
भीष्म उवाच॥
अत्रैव चेदमव्यग्रः शृण्वाख्यानमनुत्तमम्। दीर्घसूत्रं समाश्रित्य कार्याकार्यविनिश्चये ॥१२-१३५-१॥
नातिगाधे जलस्थाये सुहृदः शकुलास्त्रयः। प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः ॥१२-१३५-२॥
अत्रैकः प्राप्तकालज्ञो दीर्घदर्शी तथापरः। दीर्घसूत्रश्च तत्रैकस्त्रयाणां जलचारिणाम् ॥१२-१३५-३॥
कदाचित्तज्जलस्थायं मत्स्यबन्धाः समन्ततः। निःस्रावयामासुरथो निम्नेषु विविधैर्मुखैः ॥१२-१३५-४॥
प्रक्षीयमाणं तं बुद्ध्वा जलस्थायं भयागमे। अब्रवीद्दीर्घदर्शी तु तावुभौ सुहृदौ तदा ॥१२-१३५-५॥
इयमापत्समुत्पन्ना सर्वेषां सलिलौकसाम्। शीघ्रमन्यत्र गच्छामः पन्था यावन्न दुष्यति ॥१२-१३५-६॥
अनागतमनर्थं हि सुनयैर्यः प्रबाधते। न स संशयमाप्नोति रोचतां वां व्रजामहे ॥१२-१३५-७॥
दीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत्सम्यगुच्यते। न तु कार्या त्वरा यावदिति मे निश्चिता मतिः ॥१२-१३५-८॥
अथ सम्प्रतिपत्तिज्ञः प्राब्रवीद्दीर्घदर्शिनम्। प्राप्ते काले न मे किञ्चिन्न्यायतः परिहास्यते ॥१२-१३५-९॥
एवमुक्तो निराक्रामद्दीर्घदर्शी महामतिः। जगाम स्रोतसैकेन गम्भीरसलिलाशयम् ॥१२-१३५-१०॥
ततः प्रस्रुततोयं तं समीक्ष्य सलिलाशयम्। बबन्धुर्विविधैर्योगैर्मत्स्यान्मत्स्योपजीविनः ॥१२-१३५-११॥
विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये। अगच्छद्ग्रहणं तत्र दीर्घसूत्रः सहापरैः ॥१२-१३५-१२॥
उद्दानं क्रियमाणं च मत्स्यानां वीक्ष्य रज्जुभिः। प्रविश्यान्तरमन्येषामग्रसत्प्रतिपत्तिमान् ॥१२-१३५-१३॥
ग्रस्तमेव तदुद्दानं गृहीत्वास्त तथैव सः। सर्वानेव तु तांस्तत्र ते विदुर्ग्रथिता इति ॥१२-१३५-१४॥
ततः प्रक्षाल्यमानेषु मत्स्येषु विमले जले। त्यक्त्वा रज्जुं विमुक्तोऽभूच्छीघ्रं सम्प्रतिपत्तिमान् ॥१२-१३५-१५॥
दीर्घसूत्रस्तु मन्दात्मा हीनबुद्धिरचेतनः। मरणं प्राप्तवान्मूढो यथैवोपहतेन्द्रियः ॥१२-१३५-१६॥
एवं प्राप्ततमं कालं यो मोहान्नावबुध्यते। स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः ॥१२-१३५-१७॥
आदौ न कुरुते श्रेयः कुशलोऽस्मीति यः पुमान्। स संशयमवाप्नोति यथा सम्प्रतिपत्तिमान् ॥१२-१३५-१८॥
अनागतविधानं तु यो नरः कुरुते क्षमम्। श्रेयः प्राप्नोति सोऽत्यर्थं दीर्घदर्शी यथा ह्यसौ ॥१२-१३५-१९॥
कलाः काष्ठा मुहूर्ताश्च दिना नाड्यः क्षणा लवाः। पक्षा मासाश्च ऋतवस्तुल्याः संवत्सराणि च ॥१२-१३५-२०॥
पृथिवी देश इत्युक्तः कालः स च न दृश्यते। अभिप्रेतार्थसिद्ध्यर्थं न्यायतो यच्च तत्तथा ॥१२-१३५-२१॥
एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः। प्रधानाविति निर्दिष्टौ कामेशाभिमतौ नृणाम् ॥१२-१३५-२२॥
परीक्ष्यकारी युक्तस्तु सम्यक्समुपपादयेत्। देशकालावभिप्रेतौ ताभ्यां फलमवाप्नुयात् ॥१२-१३५-२३॥