12.136
युधिष्ठिर उवाच॥
सर्वत्र बुद्धिः कथिता श्रेष्ठा ते भरतर्षभ। अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी ॥१२-१३६-१॥
तदिच्छामि परां बुद्धिं श्रोतुं भरतसत्तम। यथा राजन्न मुह्येत शत्रुभिः परिवारितः ॥१२-१३६-२॥
धर्मार्थकुशल प्राज्ञ सर्वशास्त्रविशारद। पृच्छामि त्वा कुरुश्रेष्ठ तन्मे व्याख्यातुमर्हसि ॥१२-१३६-३॥
शत्रुभिर्बहुभिर्ग्रस्तो यथा वर्तेत पार्थिवः। एतदिच्छाम्यहं श्रोतुं सर्वमेव यथाविधि ॥१२-१३६-४॥
विषमस्थं हि राजानं शत्रवः परिपन्थिनः। बहवोऽप्येकमुद्धर्तुं यतन्ते पूर्वतापिताः ॥१२-१३६-५॥
सर्वतः प्रार्थ्यमानेन दुर्बलेन महाबलैः। एकेनैवासहायेन शक्यं स्थातुं कथं भवेत् ॥१२-१३६-६॥
कथं मित्रमरिं चैव विन्देत भरतर्षभ। चेष्टितव्यं कथं चात्र शत्रोर्मित्रस्य चान्तरे ॥१२-१३६-७॥
प्रज्ञातलक्षणे राजन्नमित्रे मित्रतां गते। कथं नु पुरुषः कुर्यात्किं वा कृत्वा सुखी भवेत् ॥१२-१३६-८॥
विग्रहं केन वा कुर्यात्सन्धिं वा केन योजयेत्। कथं वा शत्रुमध्यस्थो वर्तेताबलवानिति ॥१२-१३६-९॥
एतद्वै सर्वकृत्यानां परं कृत्यं परन्तप। नैतस्य कश्चिद्वक्तास्ति श्रोता चापि सुदुर्लभः ॥१२-१३६-१०॥
ऋते शान्तनवाद्भीष्मात्सत्यसन्धाज्जितेन्द्रियात्। तदन्विष्य महाबाहो सर्वमेतद्वदस्व मे ॥१२-१३६-११॥
भीष्म उवाच॥
त्वद्युक्तोऽयमनुप्रश्नो युधिष्ठिर गुणोदयः। शृणु मे पुत्र कार्त्स्न्येन गुह्यमापत्सु भारत ॥१२-१३६-१२॥
अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति। सामर्थ्ययोगात्कार्याणां तद्गत्या हि सदा गतिः ॥१२-१३६-१३॥
तस्माद्विश्वसितव्यं च विग्रहं च समाचरेत्। देशं कालं च विज्ञाय कार्याकार्यविनिश्चये ॥१२-१३६-१४॥
सन्धातव्यं बुधैर्नित्यं व्यवस्यं च हितार्थिभिः। अमित्रैरपि सन्धेयं प्राणा रक्ष्याश्च भारत ॥१२-१३६-१५॥
यो ह्यमित्रैर्नरो नित्यं न संदध्यादपण्डितः। न सोऽर्थमाप्नुयात्किञ्चित्फलान्यपि च भारत ॥१२-१३६-१६॥
यस्त्वमित्रेण सन्धत्ते मित्रेण च विरुध्यते। अर्थयुक्तिं समालोक्य सुमहद्विन्दते फलम् ॥१२-१३६-१७॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। मार्जारस्य च संवादं न्यग्रोधे मूषकस्य च ॥१२-१३६-१८॥
वने महति कस्मिंश्चिन्न्यग्रोधः सुमहानभूत्। लताजालपरिच्छन्नो नानाद्विजगणायुतः ॥१२-१३६-१९॥
स्कन्धवान्मेघसङ्काशः शीतच्छायो मनोरमः। वैरन्त्यमभितो जातस्तरुर्व्यालमृगाकुलः ॥१२-१३६-२०॥
तस्य मूलं समाश्रित्य कृत्वा शतमुखं बिलम्। वसति स्म महाप्राज्ञः पलितो नाम मूषकः ॥१२-१३६-२१॥
शाखाश्च तस्य संश्रित्य वसति स्म सुखं पुरः। लोमशो नाम मार्जारः पक्षिसत्त्वावसादकः ॥१२-१३६-२२॥
तत्र चागत्य चण्डालो वैरन्त्यकृतकेतनः। अयोजयत्तमुन्माथं नित्यमस्तं गते रवौ ॥१२-१३६-२३॥
तत्र स्नायुमयान्पाशान्यथावत्संनिधाय सः। गृहं गत्वा सुखं शेते प्रभातामेति शर्वरीम् ॥१२-१३६-२४॥
तत्र स्म नित्यं बध्यन्ते नक्तं बहुविधा मृगाः। कदाचित्तत्र मार्जारस्त्वप्रमत्तोऽप्यबध्यत ॥१२-१३६-२५॥
तस्मिन्बद्धे महाप्राज्ञः शत्रौ नित्याततायिनि। तं कालं पलितो ज्ञात्वा विचचार सुनिर्भयः ॥१२-१३६-२६॥
तेनानुचरता तस्मिन्वने विश्वस्तचारिणा। भक्षं विचरमाणेन नचिराद्दृष्टमामिषम् ॥१२-१३६-२७॥
स तमुन्माथमारुह्य तदामिषमभक्षयत्। तस्योपरि सपत्नस्य बद्धस्य मनसा हसन् ॥१२-१३६-२८॥
आमिषे तु प्रसक्तः स कदाचिदवलोकयन्। अपश्यदपरं घोरमात्मनः शत्रुमागतम् ॥१२-१३६-२९॥
शरप्रसूनसङ्काशं महीविवरशायिनम्। नकुलं हरिकं नाम चपलं ताम्रलोचनम् ॥१२-१३६-३०॥
तेन मूषकगन्धेन त्वरमाणमुपागतम्। भक्षार्थं लेलिहद्वक्त्रं भूमावूर्ध्वमुखं स्थितम् ॥१२-१३६-३१॥
शाखागतमरिं चान्यदपश्यत्कोटरालयम्। उलूकं चन्द्रकं नाम तीक्ष्णतुण्डं क्षपाचरम् ॥१२-१३६-३२॥
गतस्य विषयं तस्य नकुलोलूकयोस्तदा। अथास्यासीदियं चिन्ता तत्प्राप्य सुमहद्भयम् ॥१२-१३६-३३॥
आपद्यस्यां सुकष्टायां मरणे समुपस्थिते। समन्ताद्भय उत्पन्ने कथं कार्यं हितैषिणा ॥१२-१३६-३४॥
स तथा सर्वतो रुद्धः सर्वत्र समदर्शनः। अभवद्भयसन्तप्तश्चक्रे चेमां परां गतिम् ॥१२-१३६-३५॥
आपद्विनाशभूयिष्ठा शतैकीयं च जीवितम्। समन्तसंशया चेयमस्मानापदुपस्थिता ॥१२-१३६-३६॥
गतं हि सहसा भूमिं नकुलो मां समाप्नुयात्। उलूकश्चेह तिष्ठन्तं मार्जारः पाशसङ्क्षयात् ॥१२-१३६-३७॥
न त्वेवास्मद्विधः प्राज्ञः संमोहं गन्तुमर्हति। करिष्ये जीविते यत्नं यावदुच्छ्वासनिग्रहम् ॥१२-१३६-३८॥
न हि बुद्ध्यान्विताः प्राज्ञा नीतिशास्त्रविशारदाः। सम्भ्रमन्त्यापदं प्राप्य महतोऽर्थानवाप्य च ॥१२-१३६-३९॥
न त्वन्यामिह मार्जाराद्गतिं पश्यामि साम्प्रतम्। विषमस्थो ह्ययं जन्तुः कृत्यं चास्य महन्मया ॥१२-१३६-४०॥
जीवितार्थी कथं त्वद्य प्रार्थितः शत्रुभिस्त्रिभिः। तस्मादिममहं शत्रुं मार्जारं संश्रयामि वै ॥१२-१३६-४१॥
क्षत्रविद्यां समाश्रित्य हितमस्योपधारये। येनेमं शत्रुसङ्घातं मतिपूर्वेण वञ्चये ॥१२-१३६-४२॥
अयमत्यन्तशत्रुर्मे वैषम्यं परमं गतः। मूढो ग्राहयितुं स्वार्थं सङ्गत्या यदि शक्यते ॥१२-१३६-४३॥
कदाचिद्व्यसनं प्राप्य सन्धिं कुर्यान्मया सह। बलिना संनिविष्टस्य शत्रोरपि परिग्रहः ॥ कार्य इत्याहुराचार्या विषमे जीवितार्थिना ॥१२-१३६-४४॥
श्रेयान्हि पण्डितः शत्रुर्न च मित्रमपण्डितम्। मम ह्यमित्रे मार्जारे जीवितं सम्प्रतिष्ठितम् ॥१२-१३६-४५॥
हन्तैनं सम्प्रवक्ष्यामि हेतुमात्माभिरक्षणे। अपीदानीमयं शत्रुः सङ्गत्या पण्डितो भवेत् ॥१२-१३६-४६॥
ततोऽर्थगतितत्त्वज्ञः सन्धिविग्रहकालवित्। सान्त्वपूर्वमिदं वाक्यं मार्जारं मूषकोऽब्रवीत् ॥१२-१३६-४७॥
सौहृदेनाभिभाषे त्वा कच्चिन्मार्जार जीवसि। जीवितं हि तवेच्छामि श्रेयः साधारणं हि नौ ॥१२-१३६-४८॥
न ते सौम्य विषत्तव्यं जीविष्यसि यथा पुरा। अहं त्वामुद्धरिष्यामि प्राणाञ्जह्यां हि ते कृते ॥१२-१३६-४९॥
अस्ति कश्चिदुपायोऽत्र पुष्कलः प्रतिभाति माम्। येन शक्यस्त्वया मोक्षः प्राप्तुं श्रेयो यथा मया ॥१२-१३६-५०॥
मया ह्युपायो दृष्टोऽयं विचार्य मतिमात्मनः। आत्मार्थं च त्वदर्थं च श्रेयः साधारणं हि नौ ॥१२-१३६-५१॥
इदं हि नकुलोलूकं पापबुद्ध्यभितः स्थितम्। न धर्षयति मार्जार तेन मे स्वस्ति साम्प्रतम् ॥१२-१३६-५२॥
कूजंश्चपलनेत्रोऽयं कौशिको मां निरीक्षते। नगशाखाग्रहस्तिष्ठंस्तस्याहं भृशमुद्विजे ॥१२-१३६-५३॥
सतां साप्तपदं सख्यं सवासो मेऽसि पण्डितः। सांवास्यकं करिष्यामि नास्ति ते मृत्युतो भयम् ॥१२-१३६-५४॥
न हि शक्नोषि मार्जार पाशं छेत्तुं विना मया। अहं छेत्स्यामि ते पाशं यदि मां त्वं न हिंससि ॥१२-१३६-५५॥
त्वमाश्रितो नगस्याग्रं मूलं त्वहमुपाश्रितः। चिरोषिताविहावां वै वृक्षेऽस्मिन्विदितं हि ते ॥१२-१३६-५६॥
यस्मिन्नाश्वसते कश्चिद्यश्च नाश्वसते क्वचित्। न तौ धीराः प्रशंसन्ति नित्यमुद्विग्नचेतसौ ॥१२-१३६-५७॥
तस्माद्विवर्धतां प्रीतिः सत्या सङ्गतिरस्तु नौ। कालातीतमपार्थं हि न प्रशंसन्ति पण्डिताः ॥१२-१३६-५८॥
अर्थयुक्तिमिमां तावद्यथाभूतां निशामय। तव जीवितमिच्छामि त्वं ममेच्छसि जीवितम् ॥१२-१३६-५९॥
कश्चित्तरति काष्ठेन सुगम्भीरां महानदीम्। स तारयति तत्काष्ठं स च काष्ठेन तार्यते ॥१२-१३६-६०॥
ईदृशो नौ समायोगो भविष्यति सुनिस्तरः। अहं त्वां तारयिष्यामि त्वं च मां तारयिष्यसि ॥१२-१३६-६१॥
एवमुक्त्वा तु पलितस्तदर्थमुभयोर्हितम्। हेतुमद्ग्रहणीयं च कालाकाङ्क्षी व्यपैक्षत ॥१२-१३६-६२॥
अथ सुव्याहृतं तस्य श्रुत्वा शत्रुर्विचक्षणः। हेतुमद्ग्रहणीयार्थं मार्जारो वाक्यमब्रवीत् ॥१२-१३६-६३॥
बुद्धिमान्वाक्यसम्पन्नस्तद्वाक्यमनुवर्णयन्। तामवस्थामवेक्ष्यान्त्यां साम्नैव प्रत्यपूजयत् ॥१२-१३६-६४॥
ततस्तीक्ष्णाग्रदशनो वैडूर्यमणिलोचनः। मूषकं मन्दमुद्वीक्ष्य मार्जारो लोमशोऽब्रवीत् ॥१२-१३६-६५॥
नन्दामि सौम्य भद्रं ते यो मां जीवन्तमिच्छसि। श्रेयश्च यदि जानीषे क्रियतां मा विचारय ॥१२-१३६-६६॥
अहं हि दृढमापन्नस्त्वमापन्नतरो मया। द्वयोरापन्नयोः सन्धिः क्रियतां मा विचारय ॥१२-१३६-६७॥
विधत्स्व प्राप्तकालं यत्कार्यं सिध्यतु चावयोः। मयि कृच्छ्राद्विनिर्मुक्ते न विनङ्क्ष्यति ते कृतम् ॥१२-१३६-६८॥
न्यस्तमानोऽस्मि भक्तोऽस्मि शिष्यस्त्वद्धितकृत्तथा। निदेशवशवर्ती च भवन्तं शरणं गतः ॥१२-१३६-६९॥
इत्येवमुक्तः पलितो मार्जारं वशमागतम्। वाक्यं हितमुवाचेदमभिनीतार्थमर्थवत् ॥१२-१३६-७०॥
उदारं यद्भवानाह नैतच्चित्रं भवद्विधे। विदितो यस्तु मार्गो मे हितार्थं शृणु तं मम ॥१२-१३६-७१॥
अहं त्वानुप्रवेक्ष्यामि नकुलान्मे महद्भयम्। त्रायस्व मां मा वधीश्च शक्तोऽस्मि तव मोक्षणे ॥१२-१३६-७२॥
उलूकाच्चैव मां रक्ष क्षुद्रः प्रार्थयते हि माम्। अहं छेत्स्यामि ते पाशान्सखे सत्येन ते शपे ॥१२-१३६-७३॥
तद्वचः सङ्गतं श्रुत्वा लोमशो युक्तमर्थवत्। हर्षादुद्वीक्ष्य पलितं स्वागतेनाभ्यपूजयत् ॥१२-१३६-७४॥
स तं सम्पूज्य पलितं मार्जारः सौहृदे स्थितः। सुविचिन्त्याब्रवीद्धीरः प्रीतस्त्वरित एव हि ॥१२-१३६-७५॥
क्षिप्रमागच्छ भद्रं ते त्वं मे प्राणसमः सखा। तव प्राज्ञ प्रसादाद्धि क्षिप्रं प्राप्स्यामि जीवितम् ॥१२-१३६-७६॥
यद्यदेवङ्गतेनाद्य शक्यं कर्तुं मया तव। तदाज्ञापय कर्ताहं सन्धिरेवास्तु नौ सखे ॥१२-१३६-७७॥
अस्मात्ते संशयान्मुक्तः समित्रगणबान्धवः। सर्वकार्याणि कर्ताहं प्रियाणि च हितानि च ॥१२-१३६-७८॥
मुक्तश्च व्यसनादस्मात्सौम्याहमपि नाम ते। प्रीतिमुत्पादयेयं च प्रतिकर्तुं च शक्नुयाम् ॥१२-१३६-७९॥
ग्राहयित्वा तु तं स्वार्थं मार्जारं मूषकस्तदा। प्रविवेश सुविस्रब्धः सम्यगर्थांश्चचार ह ॥१२-१३६-८०॥
एवमाश्वासितो विद्वान्मार्जारेण स मूषकः। मार्जारोरसि विस्रब्धः सुष्वाप पितृमातृवत् ॥१२-१३६-८१॥
लीनं तु तस्य गात्रेषु मार्जारस्याथ मूषकम्। तौ दृष्ट्वा नकुलोलूकौ निराशौ जग्मतुर्गृहान् ॥१२-१३६-८२॥
लीनस्तु तस्य गात्रेषु पलितो देशकालवित्। चिच्छेद पाशान्नृपते कालाकाङ्क्षी शनैः शनैः ॥१२-१३६-८३॥
अथ बन्धपरिक्लिष्टो मार्जारो वीक्ष्य मूषकम्। छिन्दन्तं वै तदा पाशानत्वरन्तं त्वरान्वितः ॥१२-१३६-८४॥
तमत्वरन्तं पलितं पाशानां छेदने तदा। सञ्चोदयितुमारेभे मार्जारो मूषकं तदा ॥१२-१३६-८५॥
किं सौम्य नाभित्वरसे किं कृतार्थोऽवमन्यसे। छिन्धि पाशानमित्रघ्न पुरा श्वपच एति सः ॥१२-१३६-८६॥
इत्युक्तस्त्वरता तेन मतिमान्पलितोऽब्रवीत्। मार्जारमकृतप्रज्ञं वश्यमात्महितं वचः ॥१२-१३६-८७॥
तूष्णीं भव न ते सौम्य त्वरा कार्या न सम्भ्रमः। वयमेवात्र कालज्ञा न कालः परिहास्यते ॥१२-१३६-८८॥
अकाले कृत्यमारब्धं कर्तुं नार्थाय कल्पते। तदेव काल आरब्धं महतेऽर्थाय कल्पते ॥१२-१३६-८९॥
अकालविप्रमुक्तान्मे त्वत्त एव भयं भवेत्। तस्मात्कालं प्रतीक्षस्व किमिति त्वरसे सखे ॥१२-१३६-९०॥
यावत्पश्यामि चण्डालमायान्तं शस्त्रपाणिनम्। ततश्छेत्स्यामि ते पाशं प्राप्ते साधारणे भये ॥१२-१३६-९१॥
तस्मिन्काले प्रमुक्तस्त्वं तरुमेवाधिरोहसि। न हि ते जीवितादन्यत्किञ्चित्कृत्यं भविष्यति ॥१२-१३६-९२॥
ततो भवत्यतिक्रान्ते त्रस्ते भीते च लोमश। अहं बिलं प्रवेक्ष्यामि भवाञ्शाखां गमिष्यति ॥१२-१३६-९३॥
एवमुक्तस्तु मार्जारो मूषकेणात्मनो हितम्। वचनं वाक्यतत्त्वज्ञो जीवितार्थी महामतिः ॥१२-१३६-९४॥
अथात्मकृत्यत्वरितः सम्यक्प्रश्रयमाचरन्। उवाच लोमशो वाक्यं मूषकं चिरकारिणम् ॥१२-१३६-९५॥
न ह्येवं मित्रकार्याणि प्रीत्या कुर्वन्ति साधवः। यथा त्वं मोक्षितः कृच्छ्रात्त्वरमाणेन वै मया ॥१२-१३६-९६॥
तथैव त्वरमाणेन त्वया कार्यं हितं मम। यत्नं कुरु महाप्राज्ञ यथा स्वस्त्यावयोर्भवेत् ॥१२-१३६-९७॥
अथ वा पूर्ववैरं त्वं स्मरन्कालं विकर्षसि। पश्य दुष्कृतकर्मत्वं व्यक्तमायुःक्षयो मम ॥१२-१३६-९८॥
यच्च किञ्चिन्मयाज्ञानात्पुरस्ताद्विप्रियं कृतम्। न तन्मनसि कर्तव्यं क्षमये त्वां प्रसीद मे ॥१२-१३६-९९॥
तमेवंवादिनं प्राज्ञः शास्त्रविद्बुद्धिसंमतः। उवाचेदं वचः श्रेष्ठं मार्जारं मूषकस्तदा ॥१२-१३६-१००॥
श्रुतं मे तव मार्जार स्वमर्थं परिगृह्णतः। ममापि त्वं विजानीहि स्वमर्थं परिगृह्णतः ॥१२-१३६-१०१॥
यन्मित्रं भीतवत्साध्यं यन्मित्रं भयसंहितम्। सुरक्षितं ततः कार्यं पाणिः सर्पमुखादिव ॥१२-१३६-१०२॥
कृत्वा बलवता सन्धिमात्मानं यो न रक्षति। अपथ्यमिव तद्भुक्तं तस्यानर्थाय कल्पते ॥१२-१३६-१०३॥
न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचित्सुहृत्। अर्थैरर्था निबध्यन्ते गजैर्वनगजा इव ॥१२-१३६-१०४॥
न हि कश्चित्कृते कार्ये कर्तारं समवेक्षते। तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥१२-१३६-१०५॥
तस्मिन्कालेऽपि च भवान्दिवाकीर्तिभयान्वितः। मम न ग्रहणे शक्तः पलायनपरायणः ॥१२-१३६-१०६॥
छिन्नं तु तन्तुबाहुल्यं तन्तुरेकोऽवशेषितः। छेत्स्याम्यहं तदप्याशु निर्वृतो भव लोमश ॥१२-१३६-१०७॥
तयोः संवदतोरेवं तथैवापन्नयोर्द्वयोः। क्षयं जगाम सा रात्रिर्लोमशं चाविशद्भयम् ॥१२-१३६-१०८॥
ततः प्रभातसमये विकृतः कृष्णपिङ्गलः। स्थूलस्फिग्विकचो रूक्षः श्वचक्रपरिवारितः ॥१२-१३६-१०९॥
शङ्कुकर्णो महावक्त्रः पलितो घोरदर्शनः। परिघो नाम चण्डालः शस्त्रपाणिरदृश्यत ॥१२-१३६-११०॥
तं दृष्ट्वा यमदूताभं मार्जारस्त्रस्तचेतनः। उवाच पलितं भीतः किमिदानीं करिष्यसि ॥१२-१३६-१११॥
अथ चापि सुसन्त्रस्तौ तं दृष्ट्वा घोरदर्शनम्। क्षणेन नकुलोलूकौ नैराश्यं जग्मतुस्तदा ॥१२-१३६-११२॥
बलिनौ मतिमन्तौ च सङ्घातं चाप्युपागतौ। अशक्यौ सुनयात्तस्मात्सम्प्रधर्षयितुं बलात् ॥१२-१३६-११३॥
कार्यार्थं कृतसन्धी तौ दृष्ट्वा मार्जारमूषकौ। उलूकनकुलौ तूर्णं जग्मतुः स्वं स्वमालयम् ॥१२-१३६-११४॥
ततश्चिच्छेद तं तन्तुं मार्जारस्य स मूषकः। विप्रमुक्तोऽथ मार्जारस्तमेवाभ्यपतद्द्रुमम् ॥१२-१३६-११५॥
स च तस्माद्भयान्मुक्तो मुक्तो घोरेण शत्रुणा। बिलं विवेश पलितः शाखां भेजे च लोमशः ॥१२-१३६-११६॥
उन्माथमप्यथादाय चण्डालो वीक्ष्य सर्वशः। विहताशः क्षणेनाथ तस्माद्देशादपाक्रमत् ॥ जगाम च स्वभवनं चण्डालो भरतर्षभ ॥१२-१३६-११७॥
ततस्तस्माद्भयान्मुक्तो दुर्लभं प्राप्य जीवितम्। बिलस्थं पादपाग्रस्थः पलितं लोमशोऽब्रवीत् ॥१२-१३६-११८॥
अकृत्वा संविदं काञ्चित्सहसाहमुपप्लुतः। कृतज्ञं कृतकल्याणं कच्चिन्मां नाभिशङ्कसे ॥१२-१३६-११९॥
गत्वा च मम विश्वासं दत्त्वा च मम जीवितम्। मित्रोपभोगसमये किं त्वं नैवोपसर्पसि ॥१२-१३६-१२०॥
कृत्वा हि पूर्वं मित्राणि यः पश्चान्नानुतिष्ठति। न स मित्राणि लभते कृच्छ्रास्वापत्सु दुर्मतिः ॥१२-१३६-१२१॥
तत्कृतोऽहं त्वया मित्रं सामर्थ्यादात्मनः सखे। स मां मित्रत्वमापन्नमुपभोक्तुं त्वमर्हसि ॥१२-१३६-१२२॥
यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः। सर्वे त्वां पूजयिष्यन्ति शिष्या गुरुमिव प्रियम् ॥१२-१३६-१२३॥
अहं च पूजयिष्ये त्वां समित्रगणबान्धवम्। जीवितस्य प्रदातारं कृतज्ञः को न पूजयेत् ॥१२-१३६-१२४॥
ईश्वरो मे भवानस्तु शरीरस्य गृहस्य च। अर्थानां चैव सर्वेषामनुशास्ता च मे भव ॥१२-१३६-१२५॥
अमात्यो मे भव प्राज्ञ पितेव हि प्रशाधि माम्। न तेऽस्ति भयमस्मत्तो जीवितेनात्मनः शपे ॥१२-१३६-१२६॥
बुद्ध्या त्वमुशनाः साक्षाद्बले त्वधिकृता वयम्। त्वन्मन्त्रबलयुक्तो हि विन्देत जयमेव ह ॥१२-१३६-१२७॥
एवमुक्तः परं सान्त्वं मार्जारेण स मूषकः। उवाच परमार्थज्ञः श्लक्ष्णमात्महितं वचः ॥१२-१३६-१२८॥
यद्भवानाह तत्सर्वं मया ते लोमश श्रुतम्। ममापि तावद्ब्रुवतः शृणु यत्प्रतिभाति माम् ॥१२-१३६-१२९॥
वेदितव्यानि मित्राणि बोद्धव्याश्चापि शत्रवः। एतत्सुसूक्ष्मं लोकेऽस्मिन्दृश्यते प्राज्ञसंमतम् ॥१२-१३६-१३०॥
शत्रुरूपाश्च सुहृदो मित्ररूपाश्च शत्रवः। सान्त्वितास्ते न बुध्यन्ते रागलोभवशं गताः ॥१२-१३६-१३१॥
नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते। सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥१२-१३६-१३२॥
यो यस्मिञ्जीवति स्वार्थं पश्येत्तावत्स जीवति। स तस्य तावन्मित्रं स्याद्यावन्न स्याद्विपर्ययः ॥१२-१३६-१३३॥
नास्ति मैत्री स्थिरा नाम न च ध्रुवमसौहृदम्। अर्थयुक्त्या हि जायन्ते मित्राणि रिपवस्तथा ॥१२-१३६-१३४॥
मित्रं च शत्रुतामेति कस्मिंश्चित्कालपर्यये। शत्रुश्च मित्रतामेति स्वार्थो हि बलवत्तरः ॥१२-१३६-१३५॥
यो विश्वसति मित्रेषु न चाश्वसति शत्रुषु। अर्थयुक्तिमविज्ञाय चलितं तस्य जीवितम् ॥१२-१३६-१३६॥
अर्थयुक्तिमविज्ञाय यः शुभे कुरुते मतिम्। मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः ॥१२-१३६-१३७॥
न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत्। विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥१२-१३६-१३८॥
अर्थयुक्त्या हि दृश्यन्ते पिता माता सुतास्तथा। मातुला भागिनेयाश्च तथा सम्बन्धिबान्धवाः ॥१२-१३६-१३९॥
पुत्रं हि मातापितरु त्यजतः पतितं प्रियम्। लोको रक्षति चात्मानं पश्य स्वार्थस्य सारताम् ॥१२-१३६-१४०॥
तं मन्ये निकृतिप्रज्ञं यो मोक्षं प्रत्यनन्तरम्। कृत्यं मृगयसे कर्तुं सुखोपायमसंशयम् ॥१२-१३६-१४१॥
अस्मिन्निलय एव त्वं न्यग्रोधादवतारितः। पूर्वं निविष्टमुन्माथं चपलत्वान्न बुद्धवान् ॥१२-१३६-१४२॥
आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति। तस्मात्सर्वाणि कार्याणि चपलो हन्त्यसंशयम् ॥१२-१३६-१४३॥
ब्रवीति मधुरं कञ्चित्प्रियो मे ह भवानिति। तन्मिथ्याकरणं सर्वं विस्तरेणापि मे शृणु ॥१२-१३६-१४४॥
कारणात्प्रियतामेति द्वेष्यो भवति कारणात्। अर्थार्थी जीवलोकोऽयं न कश्चित्कस्यचित्प्रियः ॥१२-१३६-१४५॥
सख्यं सोदरयोर्भ्रात्रोर्दम्पत्योर्वा परस्परम्। कस्यचिन्नाभिजानामि प्रीतिं निष्कारणामिह ॥१२-१३६-१४६॥
यद्यपि भ्रातरः क्रुद्धा भार्या वा कारणान्तरे। स्वभावतस्ते प्रीयन्ते नेतरः प्रीयते जनः ॥१२-१३६-१४७॥
प्रियो भवति दानेन प्रियवादेन चापरः। मन्त्रहोमजपैरन्यः कार्यार्थं प्रीयते जनः ॥१२-१३६-१४८॥
उत्पन्ने कारणे प्रीतिर्नास्ति नौ कारणान्तरे। प्रध्वस्ते कारणस्थाने सा प्रीतिर्विनिवर्तते ॥१२-१३६-१४९॥
किं नु तत्कारणं मन्ये येनाहं भवतः प्रियः। अन्यत्राभ्यवहारार्थात्तत्रापि च बुधा वयम् ॥१२-१३६-१५०॥
कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते। स्वार्थं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते ॥१२-१३६-१५१॥
न त्वीदृशं त्वया वाच्यं विदुषि स्वार्थपण्डिते। अकालेऽविषमस्थस्य स्वार्थहेतुरयं तव ॥१२-१३६-१५२॥
तस्मान्नाहं चले स्वार्थात्सुस्थितः सन्धिविग्रहे। अभ्राणामिव रूपाणि विकुर्वन्ति क्षणे क्षणे ॥१२-१३६-१५३॥
अद्यैव हि रिपुर्भूत्वा पुनरद्यैव सौहृदम्। पुनश्च रिपुरद्यैव युक्तीनां पश्य चापलम् ॥१२-१३६-१५४॥
आसीत्तावत्तु मैत्री नौ यावद्धेतुरभूत्पुरा। सा गता सह तेनैव कालयुक्तेन हेतुना ॥१२-१३६-१५५॥
त्वं हि मेऽत्यन्ततः शत्रुः सामर्थ्यान्मित्रतां गतः। तत्कृत्यमभिनिर्वृत्तं प्रकृतिः शत्रुतां गता ॥१२-१३६-१५६॥
सोऽहमेवं प्रणीतानि ज्ञात्वा शास्त्राणि तत्त्वतः। प्रविशेयं कथं पाशं त्वत्कृतं तद्वदस्व मे ॥१२-१३६-१५७॥
त्वद्वीर्येण विमुक्तोऽहं मद्वीर्येण तथा भवान्। अन्योन्यानुग्रहे वृत्ते नास्ति भूयः समागमः ॥१२-१३६-१५८॥
त्वं हि सौम्य कृतार्थोऽद्य निर्वृत्तार्थास्तथा वयम्। न तेऽस्त्यन्यन्मया कृत्यं किञ्चिदन्यत्र भक्षणात् ॥१२-१३६-१५९॥
अहमन्नं भवान्भोक्ता दुर्बलोऽहं भवान्बली। नावयोर्विद्यते सन्धिर्नियुक्ते विषमे बले ॥१२-१३६-१६०॥
संमन्येऽहं तव प्रज्ञां यन्मोक्षात्प्रत्यनन्तरम्। भक्ष्यं मृगयसे नूनं सुखोपायमसंशयम् ॥१२-१३६-१६१॥
भक्ष्यार्थमेव बद्धस्त्वं स मुक्तः प्रसृतः क्षुधा। शास्त्रज्ञमभिसन्धाय नूनं भक्षयिताद्य माम् ॥१२-१३६-१६२॥
जानामि क्षुधितं हि त्वामाहारसमयश्च ते। स त्वं मामभिसन्धाय भक्ष्यं मृगयसे पुनः ॥१२-१३६-१६३॥
यच्चापि पुत्रदारं स्वं तत्संनिसृजसे मयि। शुश्रूषां नाम मे कर्तुं सखे मम न तत्क्षमम् ॥१२-१३६-१६४॥
त्वया मां सहितं दृष्ट्वा प्रिया भार्या सुताश्च ये। कस्मान्मां ते न खादेयुर्हृष्टाः प्रणयिनस्त्वयि ॥१२-१३६-१६५॥
नाहं त्वया समेष्यामि वृत्तो हेतुः समागमे। शिवं ध्यायस्व मेऽत्रस्थः सुकृतं स्मर्यते यदि ॥१२-१३६-१६६॥
शत्रोरन्नाद्यभूतः सन्क्लिष्टस्य क्षुधितस्य च। भक्ष्यं मृगयमाणस्य कः प्राज्ञो विषयं व्रजेत् ॥१२-१३६-१६७॥
स्वस्ति तेऽस्तु गमिष्यामि दूरादपि तवोद्विजे। नाहं त्वया समेष्यामि निर्वृतो भव लोमश ॥१२-१३६-१६८॥
बलवत्संनिकर्षो हि न कदाचित्प्रशस्यते। प्रशान्तादपि मे प्राज्ञ भेतव्यं बलिनः सदा ॥१२-१३६-१६९॥
यदि त्वर्थेन मे कार्यं ब्रूहि किं करवाणि ते। कामं सर्वं प्रदास्यामि न त्वात्मानं कदाचन ॥१२-१३६-१७०॥
आत्मार्थे सन्ततिस्त्याज्या राज्यं रत्नं धनं तथा। अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मना ॥१२-१३६-१७१॥
ऐश्वर्यधनरत्नानां प्रत्यमित्रेऽपि तिष्ठताम्। दृष्टा हि पुनरावृत्तिर्जीवतामिति नः श्रुतम् ॥१२-१३६-१७२॥
न त्वात्मनः सम्प्रदानं धनरत्नवदिष्यते। आत्मा तु सर्वतो रक्ष्यो दारैरपि धनैरपि ॥१२-१३६-१७३॥
आत्मरक्षिततन्त्राणां सुपरीक्षितकारिणाम्। आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः ॥१२-१३६-१७४॥
शत्रून्सम्यग्विजानन्ति दुर्बला ये बलीयसः। तेषां न चाल्यते बुद्धिरात्मार्थं कृतनिश्चया ॥१२-१३६-१७५॥
इत्यभिव्यक्तमेवासौ पलितेनावभर्त्सितः। मार्जारो व्रीडितो भूत्वा मूषकं वाक्यमब्रवीत् ॥१२-१३६-१७६॥
संमन्येऽहं तव प्रज्ञां यस्त्वं मम हिते रतः। उक्तवानर्थतत्त्वेन मया सम्भिन्नदर्शनः ॥१२-१३६-१७७॥
न तु मामन्यथा साधो त्वं विज्ञातुमिहार्हसि। प्राणप्रदानजं त्वत्तो मम सौहृदमागतम् ॥१२-१३६-१७८॥
धर्मज्ञोऽस्मि गुणज्ञोऽस्मि कृतज्ञोऽस्मि विशेषतः। मित्रेषु वत्सलश्चास्मि त्वद्विधेषु विशेषतः ॥१२-१३६-१७९॥
तन्मामेवङ्गते साधो न यावयितुमर्हसि। त्वया हि याव्यमानोऽहं प्राणाञ्जह्यां सबान्धवः ॥१२-१३६-१८०॥
धिक्षब्दो हि बुधैर्दृष्टो मद्विधेषु मनस्विषु। मरणं धर्मतत्त्वज्ञ न मां शङ्कितुमर्हसि ॥१२-१३६-१८१॥
इति संस्तूयमानो हि मार्जारेण स मूषकः। मनसा भावगम्भीरं मार्जारं वाक्यमब्रवीत् ॥१२-१३६-१८२॥
साधुर्भवाञ्श्रुतार्थोऽस्मि प्रीयते न च विश्वसे। संस्तवैर्वा धनौघैर्वा नाहं शक्यः पुनस्त्वया ॥१२-१३६-१८३॥
न ह्यमित्रवशं यान्ति प्राज्ञा निष्कारणं सखे। अस्मिन्नर्थे च गाथे द्वे निबोधोशनसा कृते ॥१२-१३६-१८४॥
शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा। समाहितश्चरेद्युक्त्या कृतार्थश्च न विश्वसेत् ॥१२-१३६-१८५॥
तस्मात्सर्वास्ववस्थासु रक्षेज्जीवितमात्मनः। द्रव्याणि सन्ततिश्चैव सर्वं भवति जीवतः ॥१२-१३६-१८६॥
सङ्क्षेपो नीतिशास्त्राणामविश्वासः परो मतः। नृषु तस्मादविश्वासः पुष्कलं हितमात्मनः ॥१२-१३६-१८७॥
वध्यन्ते न ह्यविश्वस्ताः शत्रुभिर्दुर्बला अपि। विश्वस्तास्त्वाशु वध्यन्ते बलवन्तोऽपि दुर्बलैः ॥१२-१३६-१८८॥
त्वद्विधेभ्यो मया ह्यात्मा रक्ष्यो मार्जार सर्वदा। रक्ष त्वमपि चात्मानं चण्डालाज्जातिकिल्बिषात् ॥१२-१३६-१८९॥
स तस्य ब्रुवतस्त्वेवं सन्त्रासाज्जातसाध्वसः। स्वबिलं हि जवेनाशु मार्जारः प्रययौ ततः ॥१२-१३६-१९०॥
ततः शास्त्रार्थतत्त्वज्ञो बुद्धिसामर्थ्यमात्मनः। विश्राव्य पलितः प्राज्ञो बिलमन्यज्जगाम ह ॥१२-१३६-१९१॥
एवं प्रज्ञावता बुद्ध्या दुर्बलेन महाबलाः। एकेन बहवोऽमित्राः पलितेनाभिसन्धिताः ॥१२-१३६-१९२॥
अरिणापि समर्थेन सन्धिं कुर्वीत पण्डितः। मूषकश्च बिडालश्च मुक्तावन्योन्यसंश्रयात् ॥१२-१३६-१९३॥
इत्येष क्षत्रधर्मस्य मया मार्गोऽनुदर्शितः। विस्तरेण महीपाल सङ्क्षेपेण पुनः शृणु ॥१२-१३६-१९४॥
अन्योन्यकृतवैरौ तु चक्रतुः प्रीतिमुत्तमाम्। अन्योन्यमभिसन्धातुमभूच्चैव तयोर्मतिः ॥१२-१३६-१९५॥
तत्र प्राज्ञोऽभिसन्धत्ते सम्यग्बुद्धिबलाश्रयात्। अभिसन्धीयते प्राज्ञः प्रमादादपि चाबुधैः ॥१२-१३६-१९६॥
तस्मादभीतवद्भीतो विश्वस्तवदविश्वसन्। न ह्यप्रमत्तश्चलति चलितो वा विनश्यति ॥१२-१३६-१९७॥
कालेन रिपुणा सन्धिः काले मित्रेण विग्रहः। कार्य इत्येव तत्त्वज्ञाः प्राहुर्नित्यं युधिष्ठिर ॥१२-१३६-१९८॥
एवं मत्वा महाराज शास्त्रार्थमभिगम्य च। अभियुक्तोऽप्रमत्तश्च प्राग्भयाद्भीतवच्चरेत् ॥१२-१३६-१९९॥
भीतवत्संविधिः कार्यः प्रतिसन्धिस्तथैव च। भयादुत्पद्यते बुद्धिरप्रमत्ताभियोगजा ॥१२-१३६-२००॥
न भयं विद्यते राजन्भीतस्यानागते भये। अभीतस्य तु विस्रम्भात्सुमहज्जायते भयम् ॥१२-१३६-२०१॥
न भीरुरिति चात्यन्तं मन्त्रोऽदेयः कथञ्चन। अविज्ञानाद्धि विज्ञाते गच्छेदास्पददर्शिषु ॥१२-१३६-२०२॥
तस्मादभीतवद्भीतो विश्वस्तवदविश्वसन्। कार्याणां गुरुतां बुद्ध्वा नानृतं किञ्चिदाचरेत् ॥१२-१३६-२०३॥
एवमेतन्मया प्रोक्तमितिहासं युधिष्ठिर। श्रुत्वा त्वं सुहृदां मध्ये यथावत्समुपाचर ॥१२-१३६-२०४॥
उपलभ्य मतिं चाग्र्यामरिमित्रान्तरं तथा। सन्धिविग्रहकालं च मोक्षोपायं तथापदि ॥१२-१३६-२०५॥
शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा। समागमं चरेद्युक्त्या कृतार्थो न च विश्वसेत् ॥१२-१३६-२०६॥
अविरुद्धां त्रिवर्गेण नीतिमेतां युधिष्ठिर। अभ्युत्तिष्ठ श्रुतादस्माद्भूयस्त्वं रञ्जयन्प्रजाः ॥१२-१३६-२०७॥
ब्राह्मणैश्चापि ते सार्धं यात्रा भवतु पाण्डव। ब्राह्मणा हि परं श्रेयो दिवि चेह च भारत ॥१२-१३६-२०८॥
एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो। पूजिताः शुभकर्माणः पूर्वजित्या नराधिप ॥१२-१३६-२०९॥
राज्यं श्रेयः परं राजन्यशः कीर्तिं च लप्स्यसे। कुलस्य सन्ततिं चैव यथान्यायं यथाक्रमम् ॥१२-१३६-२१०॥
द्वयोरिमं भारत सन्धिविग्रहं; सुभाषितं बुद्धिविशेषकारितम्। तथान्ववेक्ष्य क्षितिपेन सर्वदा; निषेवितव्यं नृप शत्रुमण्डले ॥१२-१३६-२११॥