12.137
युधिष्ठिर उवाच॥
उक्तो मन्त्रो महाबाहो न विश्वासोऽस्ति शत्रुषु। कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत् ॥१२-१३७-१॥
विश्वासाद्धि परं राज्ञो राजन्नुत्पद्यते भयम्। कथं वै नाश्वसन्राजा शत्रूञ्जयति पार्थिव ॥१२-१३७-२॥
एतन्मे संशयं छिन्धि मनो मे सम्प्रमुह्यति। अविश्वासकथामेतामुपश्रुत्य पितामह ॥१२-१३७-३॥
भीष्म उवाच॥
शृणु कौन्तेय यो वृत्तो ब्रह्मदत्तनिवेशने। पूजन्या सह संवादो ब्रह्मदत्तस्य पार्थिव ॥१२-१३७-४॥
काम्पिल्ये ब्रह्मदत्तस्य अन्तःपुरनिवासिनी। पूजनी नाम शकुनी दीर्घकालं सहोषिता ॥१२-१३७-५॥
रुतज्ञा सर्वभूतानां यथा वै जीवजीवकः। सर्वज्ञा सर्वधर्मज्ञा तिर्यग्योनिगतापि सा ॥१२-१३७-६॥
अभिप्रजाता सा तत्र पुत्रमेकं सुवर्चसम्। समकालं च राज्ञोऽपि देव्याः पुत्रो व्यजायत ॥१२-१३७-७॥
समुद्रतीरं गत्वा सा त्वाजहार फलद्वयम्। पुष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह ॥१२-१३७-८॥
फलमेकं सुतायादाद्राजपुत्राय चापरम्। अमृतास्वादसदृशं बलतेजोविवर्धनम् ॥ तत्रागच्छत्परां वृद्धिं राजपुत्रः फलाशनात् ॥१२-१३७-९॥
धात्र्या हस्तगतश्चापि तेनाक्रीडत पक्षिणा। शून्ये तु तमुपादाय पक्षिणं समजातकम् ॥ हत्वा ततः स राजेन्द्र धात्र्या हस्तमुपागमत् ॥१२-१३७-१०॥
अथ सा शकुनी राजन्नागमत्फलहारिका। अपश्यन्निहतं पुत्रं तेन बालेन भूतले ॥१२-१३७-११॥
बाष्पपूर्णमुखी दीना दृष्ट्वा सा तु हतं सुतम्। पूजनी दुःखसन्तप्ता रुदती वाक्यमब्रवीत् ॥१२-१३७-१२॥
क्षत्रिये सङ्गतं नास्ति न प्रीतिर्न च सौहृदम्। कारणे सम्भजन्तीह कृतार्थाः सन्त्यजन्ति च ॥१२-१३७-१३॥
क्षत्रियेषु न विश्वासः कार्यः सर्वोपघातिषु। अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम् ॥१२-१३७-१४॥
अहमस्य करोम्यद्य सदृशीं वैरयातनाम्। कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः ॥१२-१३७-१५॥
सहसञ्जातवृद्धस्य तथैव सहभोजिनः। शरणागतस्य च वधस्त्रिविधं ह्यस्य किल्बिषम् ॥१२-१३७-१६॥
इत्युक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा। भित्त्वा स्वस्था तत इदं पूजनी वाक्यमब्रवीत् ॥१२-१३७-१७॥
इच्छयैव कृतं पापं सद्य एवोपसर्पति। कृतप्रतिक्रियं तेषां न नश्यति शुभाशुभम् ॥१२-१३७-१८॥
पापं कर्म कृतं किञ्चिन्न तस्मिन्यदि विद्यते। निपात्यतेऽस्य पुत्रेषु न चेत्पौत्रेषु नप्तृषु ॥१२-१३७-१९॥
ब्रह्मदत्त उवाच॥
अस्ति वै कृतमस्माभिरस्ति प्रतिकृतं त्वया। उभयं तत्समीभूतं वस पूजनि मा गमः ॥१२-१३७-२०॥
पूजन्युवाच॥
सकृत्कृतापराधस्य तत्रैव परिलम्बतः। न तद्बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम् ॥१२-१३७-२१॥
सान्त्वे प्रयुक्ते नृपते कृतवैरे न विश्वसेत्। क्षिप्रं प्रबध्यते मूढो न हि वैरं प्रशाम्यति ॥१२-१३७-२२॥
अन्योन्यं कृतवैराणां पुत्रपौत्रं निगच्छति। पुत्रपौत्रे विनष्टे तु परलोकं निगच्छति ॥१२-१३७-२३॥
सर्वेषां कृतवैराणामविश्वासः सुखावहः। एकान्ततो न विश्वासः कार्यो विश्वासघातकः ॥१२-१३७-२४॥
न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत्। कामं विश्वासयेदन्यान्परेषां तु न विश्वसेत् ॥१२-१३७-२५॥
माता पिता बान्धवानां वरिष्ठौ; भार्या जरा बीजमात्रं तु पुत्रः। भ्राता शत्रुः क्लिन्नपाणिर्वयस्य; आत्मा ह्येकः सुखदुःखस्य वेत्ता ॥१२-१३७-२६॥
अन्योन्यकृतवैराणां न सन्धिरुपपद्यते। स च हेतुरतिक्रान्तो यदर्थमहमावसम् ॥१२-१३७-२७॥
पूजितस्यार्थमानाभ्यां जन्तोः पूर्वापकारिणः। चेतो भवत्यविश्वस्तं पूर्वं त्रासयते बलात् ॥१२-१३७-२८॥
पूर्वं संमानना यत्र पश्चाच्चैव विमानना। जह्यात्तं सत्त्ववान्वासं संमानितविमानितः ॥१२-१३७-२९॥
उषितास्मि तवागारे दीर्घकालमहिंसिता। तदिदं वैरमुत्पन्नं सुखमास्स्व व्रजाम्यहम् ॥१२-१३७-३०॥
ब्रह्मदत्त उवाच॥
यत्कृते प्रतिकुर्याद्वै न स तत्रापराध्नुयात्। अनृणस्तेन भवति वस पूजनि मा गमः ॥१२-१३७-३१॥
पूजन्युवाच॥
न कृतस्य न कर्तुश्च सख्यं सन्धीयते पुनः। हृदयं तत्र जानाति कर्तुश्चैव कृतस्य च ॥१२-१३७-३२॥
ब्रह्मदत्त उवाच॥
कृतस्य चैव कर्तुश्च सख्यं सन्धीयते पुनः। वैरस्योपशमो दृष्टः पापं नोपाश्नुते पुनः ॥१२-१३७-३३॥
पूजन्युवाच॥
नास्ति वैरमुपक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत्। विश्वासाद्बध्यते बालस्तस्माच्छ्रेयो ह्यदर्शनम् ॥१२-१३७-३४॥
तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैरपि। साम्ना ते विनिगृह्यन्ते गजा इव करेणुभिः ॥१२-१३७-३५॥
ब्रह्मदत्त उवाच॥
संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि। अन्योन्यस्य च विश्वासः श्वपचेन शुनो यथा ॥१२-१३७-३६॥
अन्योन्यकृतवैराणां संवासान्मृदुतां गतम्। नैव तिष्ठति तद्वैरं पुष्करस्थमिवोदकम् ॥१२-१३७-३७॥
पूजन्युवाच॥
वैरं पञ्चसमुत्थानं तच्च बुध्यन्ति पण्डिताः। स्त्रीकृतं वास्तुजं वाग्जं ससपत्नापराधजम् ॥१२-१३७-३८॥
तत्र दाता निहन्तव्यः क्षत्रियेण विशेषतः। प्रकाशं वाप्रकाशं वा बुद्ध्वा देशबलादिकम् ॥१२-१३७-३९॥
कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि। छन्नं सन्तिष्ठते वैरं गूढोऽग्निरिव दारुषु ॥१२-१३७-४०॥
न वित्तेन न पारुष्यैर्न सान्त्वेन न च श्रुतैः। वैराग्निः शाम्यते राजन्नौर्वाग्निरिव सागरे ॥१२-१३७-४१॥
न हि वैराग्निरुद्भूतः कर्म वाप्यपराधजम्। शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षयात् ॥१२-१३७-४२॥
सत्कृतस्यार्थमानाभ्यां स्यात्तु पूर्वापकारिणः। नैव शान्तिर्न विश्वासः कर्म त्रासयते बलात् ॥१२-१३७-४३॥
नैवापकारे कस्मिंश्चिदहं त्वयि तथा भवान्। विश्वासादुषिता पूर्वं नेदानीं विश्वसाम्यहम् ॥१२-१३७-४४॥
ब्रह्मदत्त उवाच॥
कालेन क्रियते कार्यं तथैव विविधाः क्रियाः। कालेनैव प्रवर्तन्ते कः कस्येहापराध्यति ॥१२-१३७-४५॥
तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव ह। कार्यते चैव कालेन तन्निमित्तं हि जीवति ॥१२-१३७-४६॥
बध्यन्ते युगपत्केचिदेकैकस्य न चापरे। कालो दहति भूतानि सम्प्राप्याग्निरिवेन्धनम् ॥१२-१३७-४७॥
नाहं प्रमाणं नैव त्वमन्योन्यकरणे शुभे। कालो नित्यमुपाधत्ते सुखं दुःखं च देहिनाम् ॥१२-१३७-४८॥
एवं वसेह सस्नेहा यथाकालमहिंसिता। यत्कृतं तच्च मे क्षान्तं त्वं चैव क्षम पूजनि ॥१२-१३७-४९॥
पूजन्युवाच॥
यदि कालः प्रमाणं ते न वैरं कस्यचिद्भवेत्। कस्मात्त्वपचितिं यान्ति बान्धवा बान्धवे हते ॥१२-१३७-५०॥
कस्माद्देवासुराः पूर्वमन्योन्यमभिजघ्निरे। यदि कालेन निर्याणं सुखदुःखे भवाभवौ ॥१२-१३७-५१॥
भिषजो भेषजं कर्तुं कस्मादिच्छन्ति रोगिणे। यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ॥१२-१३७-५२॥
प्रलापः क्रियते कस्मात्सुमहाञ्शोकमूर्छितैः। यदि कालः प्रमाणं ते कस्माद्धर्मोऽस्ति कर्तृषु ॥१२-१३७-५३॥
तव पुत्रो ममापत्यं हतवान्हिंसितो मया। अनन्तरं त्वया चाहं बन्धनीया महीपते ॥१२-१३७-५४॥
अहं हि पुत्रशोकेन कृतपापा तवात्मजे। तथा त्वया प्रहर्तव्यं मयि तत्त्वं च मे शृणु ॥१२-१३७-५५॥
भक्षार्थं क्रीडनार्थं वा नरा वाञ्छन्ति पक्षिणः। तृतीयो नास्ति संयोगो वधबन्धादृते क्षमः ॥१२-१३७-५६॥
वधबन्धभयादेके मोक्षतन्त्रमुपागताः। मरणोत्पातजं दुःखमाहुर्धर्मविदो जनाः ॥१२-१३७-५७॥
सर्वस्य दयिताः प्राणाः सर्वस्य दयिताः सुताः। दुःखादुद्विजते सर्वः सर्वस्य सुखमीप्सितम् ॥१२-१३७-५८॥
दुःखं जरा ब्रह्मदत्त दुःखमर्थविपर्ययः। दुःखं चानिष्टसंवासो दुःखमिष्टवियोगजम् ॥१२-१३७-५९॥
वैरबन्धकृतं दुःखं हिंसाजं स्त्रीकृतं तथा। दुःखं सुखेन सततं जनाद्विपरिवर्तते ॥१२-१३७-६०॥
न दुःखं परदुःखे वै केचिदाहुरबुद्धयः। यो दुःखं नाभिजानाति स जल्पति महाजने ॥१२-१३७-६१॥
यस्तु शोचति दुःखार्तः स कथं वक्तुमुत्सहेत्। रसज्ञः सर्वदुःखस्य यथात्मनि तथा परे ॥१२-१३७-६२॥
यत्कृतं ते मया राजंस्त्वया च मम यत्कृतम्। न तद्वर्षशतैः शक्यं व्यपोहितुमरिंदम ॥१२-१३७-६३॥
आवयोः कृतमन्योन्यं तत्र सन्धिर्न विद्यते। स्मृत्वा स्मृत्वा हि ते पुत्रं नवं वैरं भविष्यति ॥१२-१३७-६४॥
वैरमन्तिकमासज्य यः प्रीतिं कर्तुमिच्छति। मृन्मयस्येव भग्नस्य तस्य सन्धिर्न विद्यते ॥१२-१३७-६५॥
निश्चितश्चार्थशास्त्रज्ञैरविश्वासः सुखोदयः। उशनाश्चाथ गाथे द्वे प्रह्रादायाब्रवीत्पुरा ॥१२-१३७-६६॥
ये वैरिणः श्रद्दधते सत्ये सत्येतरेऽपि वा। ते श्रद्दधाना वध्यन्ते मधु शुष्कतृणैर्यथा ॥१२-१३७-६७॥
न हि वैराणि शाम्यन्ति कुलेष्वा दशमाद्युगात्। आख्यातारश्च विद्यन्ते कुले चेद्विद्यते पुमान् ॥१२-१३७-६८॥
उपगुह्य हि वैराणि सान्त्वयन्ति नराधिपाः। अथैनं प्रतिपिंषन्ति पूर्णं घटमिवाश्मनि ॥१२-१३७-६९॥
सदा न विश्वसेद्राजन्पापं कृत्वेह कस्यचित्। अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते ॥१२-१३७-७०॥
ब्रह्मदत्त उवाच॥
नाविश्वासाच्चिन्वतेऽर्थान्नेहन्ते चापि किञ्चन। भयादेकतरान्नित्यं मृतकल्पा भवन्ति च ॥१२-१३७-७१॥
पूजन्युवाच॥
यस्येह व्रणिनौ पादौ पद्भ्यां च परिसर्पति। क्षण्येते तस्य तौ पादौ सुगुप्तमभिधावतः ॥१२-१३७-७२॥
नेत्राभ्यां सरुजाभ्यां यः प्रतिवातमुदीक्षते। तस्य वायुरुजात्यर्थं नेत्रयोर्भवति ध्रुवम् ॥१२-१३७-७३॥
दुष्टं पन्थानमाश्रित्य यो मोहादभिपद्यते। आत्मनो बलमज्ञात्वा तदन्तं तस्य जीवितम् ॥१२-१३७-७४॥
यस्तु वर्षमविज्ञाय क्षेत्रं कृषति मानवः। हीनं पुरुषकारेण सस्यं नैवाप्नुते पुनः ॥१२-१३७-७५॥
यश्च तिक्तं कषायं वाप्यास्वादविधुरं हितम्। आहारं कुरुते नित्यं सोऽमृतत्वाय कल्पते ॥१२-१३७-७६॥
पथ्यं भुक्त्वा नरो लोभाद्योऽन्यदश्नाति भोजनम्। परिणाममविज्ञाय तदन्तं तस्य जीवितम् ॥१२-१३७-७७॥
दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात्। उदात्तानां कर्म तन्त्रं दैवं क्लीबा उपासते ॥१२-१३७-७८॥
कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु। ग्रस्यतेऽकर्मशीलस्तु सदानर्थैरकिञ्चनः ॥१२-१३७-७९॥
तस्मात्संशयितेऽप्यर्थे कार्य एव पराक्रमः। सर्वस्वमपि सन्त्यज्य कार्यमात्महितं नरैः ॥१२-१३७-८०॥
विद्या शौर्यं च दाक्ष्यं च बलं धैर्यं च पञ्चमम्। मित्राणि सहजान्याहुर्वर्तयन्तीह यैर्बुधाः ॥१२-१३७-८१॥
निवेशनं च कुप्यं च क्षेत्रं भार्या सुहृज्जनः। एतान्युपचितान्याहुः सर्वत्र लभते पुमान् ॥१२-१३७-८२॥
सर्वत्र रमते प्राज्ञः सर्वत्र च विरोचते। न विभीषयते कञ्चिद्भीषितो न बिभेति च ॥१२-१३७-८३॥
नित्यं बुद्धिमतो ह्यर्थः स्वल्पकोऽपि विवर्धते। दाक्ष्येण कुरुते कर्म संयमात्प्रतितिष्ठति ॥१२-१३७-८४॥
गृहस्नेहावबद्धानां नराणामल्पमेधसाम्। कुस्त्री खादति मांसानि माघमा सेगवामिव ॥१२-१३७-८५॥
गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे। इत्येवमवसीदन्ति नरा बुद्धिविपर्यये ॥१२-१३७-८६॥
उत्पतेत्सरुजाद्देशाद्व्याधिदुर्भिक्षपीडितात्। अन्यत्र वस्तुं गच्छेद्वा वसेद्वा नित्यमानितः ॥१२-१३७-८७॥
तस्मादन्यत्र यास्यामि वस्तुं नाहमिहोत्सहे। कृतमेतदनाहार्यं तव पुत्रेण पार्थिव ॥१२-१३७-८८॥
कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम्। कुसम्बन्धं कुदेशं च दूरतः परिवर्जयेत् ॥१२-१३७-८९॥
कुमित्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः। कुराज्ये निर्वृतिर्नास्ति कुदेशे न प्रजीव्यते ॥१२-१३७-९०॥
कुमित्रे सङ्गतं नास्ति नित्यमस्थिरसौहृदे। अवमानः कुसम्बन्धे भवत्यर्थविपर्यये ॥१२-१३७-९१॥
सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः। तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥१२-१३७-९२॥
यत्र नास्ति बलात्कारः स राजा तीव्रशासनः। न चैव ह्यभिसम्बन्धो दरिद्रं यो बुभूषति ॥१२-१३७-९३॥
भार्या देशोऽथ मित्राणि पुत्रसम्बन्धिबान्धवाः। एतत्सर्वं गुणवति धर्मनेत्रे महीपतौ ॥१२-१३७-९४॥
अधर्मज्ञस्य विलयं प्रजा गच्छन्त्यनिग्रहात्। राजा मूलं त्रिवर्गस्य अप्रमत्तोऽनुपालयन् ॥१२-१३७-९५॥
बलिषड्भागमुद्धृत्य बलिं तमुपयोजयेत्। न रक्षति प्रजाः सम्यग्यः स पार्थिवतस्करः ॥१२-१३७-९६॥
दत्त्वाभयं यः स्वयमेव राजा; न तत्प्रमाणं कुरुते यथावत्। स सर्वलोकादुपलभ्य पाप; मधर्मबुद्धिर्निरयं प्रयाति ॥१२-१३७-९७॥
दत्त्वाभयं यः स्म राजा प्रमाणं कुरुते सदा। स सर्वसुखकृज्ज्ञेयः प्रजा धर्मेण पालयन् ॥१२-१३७-९८॥
पिता माता गुरुर्गोप्ता वह्निर्वैश्रवणो यमः। सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः ॥१२-१३७-९९॥
पिता हि राजा राष्ट्रस्य प्रजानां योऽनुकम्पकः। तस्मिन्मिथ्याप्रणीते हि तिर्यग्गच्छति मानवः ॥१२-१३७-१००॥
सम्भावयति मातेव दीनमभ्यवपद्यते। दहत्यग्निरिवानिष्टान्यमयन्भवते यमः ॥१२-१३७-१०१॥
इष्टेषु विसृजत्यर्थान्कुबेर इव कामदः। गुरुर्धर्मोपदेशेन गोप्ता च परिपालनात् ॥१२-१३७-१०२॥
यस्तु रञ्जयते राजा पौरजानपदान्गुणैः। न तस्य भ्रश्यते राज्यं गुणधर्मानुपालनात् ॥१२-१३७-१०३॥
स्वयं समुपजानन्हि पौरजानपदक्रियाः। स सुखं मोदते भूप इह लोके परत्र च ॥१२-१३७-१०४॥
नित्योद्विग्नाः प्रजा यस्य करभारप्रपीडिताः। अनर्थैर्विप्रलुप्यन्ते स गच्छति पराभवम् ॥१२-१३७-१०५॥
प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम्। स सर्वयज्ञफलभाग्राजा लोके महीयते ॥१२-१३७-१०६॥
बलिना विग्रहो राजन्न कथञ्चित्प्रशस्यते। बलिना विगृहीतस्य कुतो राज्यं कुतः सुखम् ॥१२-१३७-१०७॥
भीष्म उवाच॥
सैवमुक्त्वा शकुनिका ब्रह्मदत्तं नराधिपम्। राजानं समनुज्ञाप्य जगामाथेप्सितां दिशम् ॥१२-१३७-१०८॥
एतत्ते ब्रह्मदत्तस्य पूजन्या सह भाषितम्। मयोक्तं भरतश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि ॥१२-१३७-१०९॥