12.138
युधिष्ठिर उवाच॥
युगक्षयात्परिक्षीणे धर्मे लोके च भारत। दस्युभिः पीड्यमाने च कथं स्थेयं पितामह ॥१२-१३८-१॥
भीष्म उवाच॥
हन्त ते कथयिष्यामि नीतिमापत्सु भारत। उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः ॥१२-१३८-२॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। भरद्वाजस्य संवादं राज्ञः शत्रुन्तपस्य च ॥१२-१३८-३॥
राजा शत्रुन्तपो नाम सौवीराणां महारथः। कणिङ्कमुपसङ्गम्य पप्रच्छार्थविनिश्चयम् ॥१२-१३८-४॥
अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते। वर्धितं पालयेत्केन पालितं प्रणयेत्कथम् ॥१२-१३८-५॥
तस्मै विनिश्चयार्थं स परिपृष्टार्थनिश्चयः। उवाच ब्राह्मणो वाक्यमिदं हेतुमदुत्तरम् ॥१२-१३८-६॥
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः। अच्छिद्रश्छिद्रदर्शी च परेषां विवरानुगः ॥१२-१३८-७॥
नित्यमुद्यतदण्डस्य भृशमुद्विजते जनः। तस्मात्सर्वाणि भूतानि दण्डेनैव प्ररोधयेत् ॥१२-१३८-८॥
एवमेव प्रशंसन्ति पण्डितास्तत्त्वदर्शिनः। तस्माच्चतुष्टये तस्मिन्प्रधानो दण्ड उच्यते ॥१२-१३८-९॥
छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः। कथं हि शाखास्तिष्ठेयुश्छिन्नमूले वनस्पतौ ॥१२-१३८-१०॥
मूलमेवादितश्छिन्द्यात्परपक्षस्य पण्डितः। ततः सहायान्पक्षं च सर्वमेवानुसारयेत् ॥१२-१३८-११॥
सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम्। आपदां पदकालेषु कुर्वीत न विचारयेत् ॥१२-१३८-१२॥
वाङ्मात्रेण विनीतः स्याद्धृदयेन यथा क्षुरः। श्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ विवर्जयेत् ॥१२-१३८-१३॥
सपत्नसहिते कार्ये कृत्वा सन्धिं न विश्वसेत्। अपक्रामेत्ततः क्षिप्रं कृतकार्यो विचक्षणः ॥१२-१३८-१४॥
शत्रुं च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत्। नित्यशश्चोद्विजेत्तस्मात्सर्पाद्वेश्मगतादिव ॥१२-१३८-१५॥
यस्य बुद्धिं परिभवेत्तमतीतेन सान्त्वयेत्। अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम् ॥१२-१३८-१६॥
अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत्। अश्रुप्रपातनं चैव कर्तव्यं भूतिमिच्छता ॥१२-१३८-१७॥
वहेदमित्रं स्कन्धेन यावत्कालविपर्ययः। अथैनमागते काले भिन्द्याद्घटमिवाश्मनि ॥१२-१३८-१८॥
मुहूर्तमपि राजेन्द्र तिन्दुकालातवज्ज्वलेत्। न तुषाग्निरिवानर्चिर्धूमायेत नरश्चिरम् ॥१२-१३८-१९॥
नानर्थकेनार्थवत्त्वं कृतघ्नेन समाचरेत्। अर्थे तु शक्यते भोक्तुं कृतकार्योऽवमन्यते ॥ तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥१२-१३८-२०॥
कोकिलस्य वराहस्य मेरोः शून्यस्य वेश्मनः। व्याडस्य भक्तिचित्रस्य यच्छ्रेष्ठं तत्समाचरेत् ॥१२-१३८-२१॥
उत्थायोत्थाय गच्छेच्च नित्ययुक्तो रिपोर्गृहान्। कुशलं चापि पृच्छेत यद्यप्यकुशलं भवेत् ॥१२-१३८-२२॥
नालसाः प्राप्नुवन्त्यर्थान्न क्लीबा न च मानिनः। न च लोकरवाद्भीता न च शश्वत्प्रतीक्षिणः ॥१२-१३८-२३॥
नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु। गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥१२-१३८-२४॥
बकवच्चिन्तयेदर्थान्सिंहवच्च पराक्रमेत्। वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ॥१२-१३८-२५॥
पानमक्षास्तथा नार्यो मृगया गीतवादितम्। एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान् ॥१२-१३८-२६॥
कुर्यात्तृणमयं चापं शयीत मृगशायिकाम्। अन्धः स्यादन्धवेलायां बाधिर्यमपि संश्रयेत् ॥१२-१३८-२७॥
देशं कालं समासाद्य विक्रमेत विचक्षणः। देशकालाभ्यतीतो हि विक्रमो निष्फलो भवेत् ॥१२-१३८-२८॥
कालाकालौ सम्प्रधार्य बलाबलमथात्मनः। परस्परबलं ज्ञात्वा तथात्मानं नियोजयेत् ॥१२-१३८-२९॥
दण्डेनोपनतं शत्रुं यो राजा न नियच्छति। स मृत्युमुपगूह्यास्ते गर्भमश्वतरी यथा ॥१२-१३८-३०॥
सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः। आमः स्यात्पक्वसङ्काशो न च शीर्येत कस्यचित् ॥१२-१३८-३१॥
आशां कालवतीं कुर्यात्तां च विघ्नेन योजयेत्। विघ्नं निमित्ततो ब्रूयान्निमित्तं चापि हेतुतः ॥१२-१३८-३२॥
भीतवत्संविधातव्यं यावद्भयमनागतम्। आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ॥१२-१३८-३३॥
न संशयमनारुह्य नरो भद्राणि पश्यति। संशयं पुनरारुह्य यदि जीवति पश्यति ॥१२-१३८-३४॥
अनागतं विजानीयाद्यच्छेद्भयमुपस्थितम्। पुनर्वृद्धिक्षयात्किञ्चिदभिवृत्तं निशामयेत् ॥१२-१३८-३५॥
प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम्। अनागतसुखाशा च नैष बुद्धिमतां नयः ॥१२-१३८-३६॥
योऽरिणा सह सन्धाय सुखं स्वपिति विश्वसन्। स वृक्षाग्रप्रसुप्तो वा पतितः प्रतिबुध्यते ॥१२-१३८-३७॥
कर्मणा येन तेनेह मृदुना दारुणेन वा। उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥१२-१३८-३८॥
ये सपत्नाः सपत्नानां सर्वांस्तानपवत्सयेत्। आत्मनश्चापि बोद्धव्याश्चाराः प्रणिहिताः परैः ॥१२-१३८-३९॥
चारः सुविहितः कार्य आत्मनोऽथ परस्य च। पाषण्डांस्तापसादींश्च परराष्ट्रं प्रवेशयेत् ॥१२-१३८-४०॥
उद्यानेषु विहारेषु प्रपास्वावसथेषु च। पानागारेषु वेशेषु तीर्थेषु च सभासु च ॥१२-१३८-४१॥
धर्माभिचारिणः पापाश्चारा लोकस्य कण्टकाः। समागच्छन्ति तान्बुद्ध्वा नियच्छेच्छमयेदपि ॥१२-१३८-४२॥
न विश्वसेदविश्वस्ते विश्वस्ते नापि विश्वसेत्। विश्वस्तं भयमन्वेति नापरीक्ष्य च विश्वसेत् ॥१२-१३८-४३॥
विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना। अथास्य प्रहरेत्काले किञ्चिद्विचलिते पदे ॥१२-१३८-४४॥
अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितात्। भयं हि शङ्किताज्जातं समूलमपि कृन्तति ॥१२-१३८-४५॥
अवधानेन मौनेन काषायेण जटाजिनैः। विश्वासयित्वा द्वेष्टारमवलुम्पेद्यथा वृकः ॥१२-१३८-४६॥
पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृत्। अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिवर्धनाः ॥१२-१३८-४७॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथप्रतिपन्नस्य दण्डो भवति शासनम् ॥१२-१३८-४८॥
प्रत्युत्थानाभिवादाभ्यां सम्प्रदानेन कस्यचित्। प्रतिपुष्कलघाती स्यात्तीक्ष्णतुण्ड इव द्विजः ॥१२-१३८-४९॥
नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम्। नाहत्वा मत्स्यघातीव प्राप्नोति परमां श्रियम् ॥१२-१३८-५०॥
नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते। सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥१२-१३८-५१॥
अमित्रं नैव मुञ्चेत ब्रुवन्तं करुणान्यपि। दुःखं तत्र न कुर्वीत हन्यात्पूर्वापकारिणम् ॥१२-१३८-५२॥
सङ्ग्रहानुग्रहे यत्नः सदा कार्योऽनसूयता। निग्रहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता ॥१२-१३८-५३॥
प्रहरिष्यन्प्रियं ब्रूयात्प्रहृत्यापि प्रियोत्तरम्। अपि चास्य शिरश्छित्त्वा रुद्याच्छोचेदथापि वा ॥१२-१३८-५४॥
निमन्त्रयेत सान्त्वेन संमानेन तितिक्षया। आशाकारणमित्येतत्कर्तव्यं भूतिमिच्छता ॥१२-१३८-५५॥
न शुष्कवैरं कुर्वीत न बाहुभ्यां नदीं तरेत्। अपार्थकमनायुष्यं गोविषाणस्य भक्षणम् ॥ दन्ताश्च परिघृष्यन्ते रसश्चापि न लभ्यते ॥१२-१३८-५६॥
त्रिवर्गे त्रिविधा पीडानुबन्धास्त्रय एव च। अनुबन्धवधौ ज्ञात्वा पीडां हि परिवर्जयेत् ॥१२-१३८-५७॥
ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च। पुनः पुनर्विवर्धेत स्वल्पोऽप्यनिवारितः ॥१२-१३८-५८॥
वर्धमानमृणं तिष्ठत्परिभूताश्च शत्रवः। आवहन्त्यनयं तीव्रं व्याधयश्चाप्युपेक्षिताः ॥१२-१३८-५९॥
नासम्यक्कृतकारी स्यादप्रमत्तः सदा भवेत्। कण्टकोऽपि हि दुश्छिन्नो विकारं कुरुते चिरम् ॥१२-१३८-६०॥
वधेन च मनुष्याणां मार्गाणां दूषणेन च। आकराणां विनाशैश्च परराष्ट्रं विनाशयेत् ॥१२-१३८-६१॥
गृध्रदृष्टिर्बकालीनः श्वचेष्टः सिंहविक्रमः। अनुद्विग्नः काकशङ्की भुजङ्गचरितं चरेत् ॥१२-१३८-६२॥
श्रेणिमुख्योपजापेषु वल्लभानुनयेषु च। अमात्यान्परिरक्षेत भेदसङ्घातयोरपि ॥१२-१३८-६३॥
मृदुरित्यवमन्यन्ते तीक्ष्ण इत्युद्विजन्ति च। तीक्ष्णकाले च तीक्ष्णः स्यान्मृदुकाले मृदुर्भवेत् ॥१२-१३८-६४॥
मृदुना सुमृदुं हन्ति मृदुना हन्ति दारुणम्। नासाध्यं मृदुना किञ्चित्तस्मात्तीक्ष्णतरं मृदु ॥१२-१३८-६५॥
काले मृदुर्यो भवति काले भवति दारुणः। स साधयति कृत्यानि शत्रूंश्चैवाधितिष्ठति ॥१२-१३८-६६॥
पण्डितेन विरुद्धः सन्दूरेऽस्मीति न विश्वसेत्। दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥१२-१३८-६७॥
न तत्तरेद्यस्य न पारमुत्तरे; न्न तद्धरेद्यत्पुनराहरेत्परः। न तत्खनेद्यस्य न मूलमुत्खने; न्न तं हन्याद्यस्य शिरो न पातयेत् ॥१२-१३८-६८॥
इतीदमुक्तं वृजिनाभिसंहितं; न चैतदेवं पुरुषः समाचरेत्। परप्रयुक्तं तु कथं निशामये; दतो मयोक्तं भवतो हितार्थिना ॥१२-१३८-६९॥
यथावदुक्तं वचनं हितं तदा; निशम्य विप्रेण सुवीरराष्ट्रियः। तथाकरोद्वाक्यमदीनचेतनः; श्रियं च दीप्तां बुभुजे सबान्धवः ॥१२-१३८-७०॥