Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.139
युधिष्ठिर उवाच॥
हीने परमके धर्मे सर्वलोकातिलङ्घिनि। अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते ॥१२-१३९-१॥
मर्यादासु प्रभिन्नासु क्षुभिते धर्मनिश्चये। राजभिः पीडिते लोके चोरैर्वापि विशां पते ॥१२-१३९-२॥
सर्वाश्रमेषु मूढेषु कर्मसूपहतेषु च। कामान्मोहाच्च लोभाच्च भयं पश्यत्सु भारत ॥१२-१३९-३॥
अविश्वस्तेषु सर्वेषु नित्यभीतेषु पार्थिव। निकृत्या हन्यमानेषु वञ्चयत्सु परस्परम् ॥१२-१३९-४॥
सम्प्रदीप्तेषु देशेषु ब्राह्मण्ये चाभिपीडिते। अवर्षति च पर्जन्ये मिथो भेदे समुत्थिते ॥१२-१३९-५॥
सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने। केन स्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते ॥१२-१३९-६॥
अतित्यक्षुः पुत्रपौत्राननुक्रोशान्नराधिप। कथमापत्सु वर्तेत तन्मे ब्रूहि पितामह ॥१२-१३९-७॥
कथं च राजा वर्तेत लोके कलुषतां गते। कथमर्थाच्च धर्माच्च न हीयेत परन्तप ॥१२-१३९-८॥
भीष्म उवाच॥
राजमूला महाराज योगक्षेमसुवृष्टयः। प्रजासु व्याधयश्चैव मरणं च भयानि च ॥१२-१३९-९॥
कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ। राजमूलानि सर्वाणि मम नास्त्यत्र संशयः ॥१२-१३९-१०॥
तस्मिंस्त्वभ्यागते काले प्रजानां दोषकारके। विज्ञानबलमास्थाय जीवितव्यं तदा भवेत् ॥१२-१३९-११॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। विश्वामित्रस्य संवादं चण्डालस्य च पक्कणे ॥१२-१३९-१२॥
त्रेताद्वापरयोः सन्धौ पुरा दैवविधिक्रमात्। अनावृष्टिरभूद्घोरा राजन्द्वादशवार्षिकी ॥१२-१३९-१३॥
प्रजानामभिवृद्धानां युगान्ते पर्युपस्थिते। त्रेतानिर्मोक्षसमये द्वापरप्रतिपादने ॥१२-१३९-१४॥
न ववर्ष सहस्राक्षः प्रतिलोमोऽभवद्गुरुः। जगाम दक्षिणं मार्गं सोमो व्यावृत्तलक्षणः ॥१२-१३९-१५॥
नावश्यायोऽपि रात्र्यन्ते कुत एवाभ्रराजयः। नद्यः सङ्क्षिप्ततोयौघाः क्वचिदन्तर्गताभवन् ॥१२-१३९-१६॥
सरांसि सरितश्चैव कूपाः प्रस्रवणानि च। हतत्विट्कान्यलक्ष्यन्त निसर्गाद्दैवकारितात् ॥१२-१३९-१७॥
उपशुष्कजलस्थाया विनिवृत्तसभाप्रपा। निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गला ॥१२-१३९-१८॥
उत्सन्नकृषिगोरक्ष्या निवृत्तविपणापणा। निवृत्तपूगसमया सम्प्रनष्टमहोत्सवा ॥१२-१३९-१९॥
अस्थिकङ्कालसङ्कीर्णा हाहाभूतजनाकुला। शून्यभूयिष्ठनगरा दग्धग्रामनिवेशना ॥१२-१३९-२०॥
क्वचिच्चोरैः क्वचिच्छस्त्रैः क्वचिद्राजभिरातुरैः। परस्परभयाच्चैव शून्यभूयिष्ठनिर्जना ॥१२-१३९-२१॥
गतदैवतसङ्कल्पा वृद्धबालविनाकृता। गोजाविमहिषैर्हीना परस्परहराहरा ॥१२-१३९-२२॥
हतविप्रा हतारक्षा प्रनष्टौषधिसञ्चया। श्यावभूतनरप्राया बभूव वसुधा तदा ॥१२-१३९-२३॥
तस्मिन्प्रतिभये काले क्षीणे धर्मे युधिष्ठिर। बभ्रमुः क्षुधिता मर्त्याः खादन्तः स्म परस्परम् ॥१२-१३९-२४॥
ऋषयो नियमांस्त्यक्त्वा परित्यक्ताग्निदैवताः। आश्रमान्सम्परित्यज्य पर्यधावन्नितस्ततः ॥१२-१३९-२५॥
विश्वामित्रोऽथ भगवान्महर्षिरनिकेतनः। क्षुधा परिगतो धीमान्समन्तात्पर्यधावत ॥१२-१३९-२६॥
स कदाचित्परिपतञ्श्वपचानां निवेशनम्। हिंस्राणां प्राणिहन्तॄणामाससाद वने क्वचित् ॥१२-१३९-२७॥
विभिन्नकलशाकीर्णं श्वचर्माच्छादनायुतम्। वराहखरभग्नास्थिकपालघटसङ्कुलम् ॥१२-१३९-२८॥
मृतचेलपरिस्तीर्णं निर्माल्यकृतभूषणम्। सर्पनिर्मोकमालाभिः कृतचिह्नकुटीमठम् ॥१२-१३९-२९॥
उलूकपक्षध्वजिभिर्देवतायतनैर्वृतम्। लोहघण्टापरिष्कारं श्वयूथपरिवारितम् ॥१२-१३९-३०॥
तत्प्रविश्य क्षुधाविष्टो गाधेः पुत्रो महानृषिः। आहारान्वेषणे युक्तः परं यत्नं समास्थितः ॥१२-१३९-३१॥
न च क्वचिदविन्दत्स भिक्षमाणोऽपि कौशिकः। मांसमन्नं मूलफलमन्यद्वा तत्र किञ्चन ॥१२-१३९-३२॥
अहो कृच्छ्रं मया प्राप्तमिति निश्चित्य कौशिकः। पपात भूमौ दौर्बल्यात्तस्मिंश्चण्डालपक्कणे ॥१२-१३९-३३॥
चिन्तयामास स मुनिः किं नु मे सुकृतं भवेत्। कथं वृथा न मृत्युः स्यादिति पार्थिवसत्तम ॥१२-१३९-३४॥
स ददर्श श्वमांसस्य कुतन्तीं विततां मुनिः। चण्डालस्य गृहे राजन्सद्यः शस्त्रहतस्य च ॥१२-१३९-३५॥
स चिन्तयामास तदा स्तेयं कार्यमितो मया। न हीदानीमुपायोऽन्यो विद्यते प्राणधारणे ॥१२-१३९-३६॥
आपत्सु विहितं स्तेयं विशिष्टसमहीनतः। परं परं भवेत्पूर्वमस्तेयमिति निश्चयः ॥१२-१३९-३७॥
हीनादादेयमादौ स्यात्समानात्तदनन्तरम्। असम्भवादाददीत विशिष्टादपि धार्मिकात् ॥१२-१३९-३८॥
सोऽहमन्तावसानानां हरमाणः परिग्रहात्। न स्तेयदोषं पश्यामि हरिष्याम्येतदामिषम् ॥१२-१३९-३९॥
एतां बुद्धिं समास्थाय विश्वामित्रो महामुनिः। तस्मिन्देशे प्रसुष्वाप पतितो यत्र भारत ॥१२-१३९-४०॥
स विगाढां निशां दृष्ट्वा सुप्ते चण्डालपक्कणे। शनैरुत्थाय भगवान्प्रविवेश कुटीमठम् ॥१२-१३९-४१॥
स सुप्त एव चण्डालः श्लेष्मापिहितलोचनः। परिभिन्नस्वरो रूक्ष उवाचाप्रियदर्शनः ॥१२-१३९-४२॥
कः कुतन्तीं घट्टयति सुप्ते चण्डालपक्कणे। जागर्मि नावसुप्तोऽस्मि हतोऽसीति च दारुणः ॥१२-१३९-४३॥
विश्वामित्रोऽहमित्येव सहसा तमुवाच सः। सहसाभ्यागतभयः सोद्वेगस्तेन कर्मणा ॥१२-१३९-४४॥
चण्डालस्तद्वचः श्रुत्वा महर्षेर्भावितात्मनः। शयनादुपसम्भ्रान्त इयेषोत्पतितुं ततः ॥१२-१३९-४५॥
स विसृज्याश्रु नेत्राभ्यां बहुमानात्कृताञ्जलिः। उवाच कौशिकं रात्रौ ब्रह्मन्किं ते चिकीर्षितम् ॥१२-१३९-४६॥
विश्वामित्रस्तु मातङ्गमुवाच परिसान्त्वयन्। क्षुधितोऽहं गतप्राणो हरिष्यामि श्वजाघनीम् ॥१२-१३९-४७॥
अवसीदन्ति मे प्राणाः स्मृतिर्मे नश्यति क्षुधा। स्वधर्मं बुध्यमानोऽपि हरिष्यामि श्वजाघनीम् ॥१२-१३९-४८॥
अटन्भैक्षं न विन्दामि यदा युष्माकमालये। तदा बुद्धिः कृता पापे हरिष्यामि श्वजाघनीम् ॥१२-१३९-४९॥
तृषितः कलुषं पाता नास्ति ह्रीरशनार्थिनः। क्षुद्धर्मं दूषयत्यत्र हरिष्यामि श्वजाघनीम् ॥१२-१३९-५०॥
अग्निर्मुखं पुरोधाश्च देवानां शुचिपाद्विभुः। यथा स सर्वभुग्ब्रह्मा तथा मां विद्धि धर्मतः ॥१२-१३९-५१॥
तमुवाच स चण्डालो महर्षे शृणु मे वचः। श्रुत्वा तथा समातिष्ठ यथा धर्मान्न हीयसे ॥१२-१३९-५२॥
मृगाणामधमं श्वानं प्रवदन्ति मनीषिणः। तस्याप्यधम उद्देशः शरीरस्योरुजाघनी ॥१२-१३९-५३॥
नेदं सम्यग्व्यवसितं महर्षे कर्म वैकृतम्। चण्डालस्वस्य हरणमभक्ष्यस्य विशेषतः ॥१२-१३९-५४॥
साध्वन्यमनुपश्य त्वमुपायं प्राणधारणे। न मांसलोभात्तपसो नाशस्ते स्यान्महामुने ॥१२-१३९-५५॥
जानतोऽविहितो मार्गो न कार्यो धर्मसङ्करः। मा स्म धर्मं परित्याक्षीस्त्वं हि धर्मविदुत्तमः ॥१२-१३९-५६॥
विश्वामित्रस्ततो राजन्नित्युक्तो भरतर्षभ। क्षुधार्तः प्रत्युवाचेदं पुनरेव महामुनिः ॥१२-१३९-५७॥
निराहारस्य सुमहान्मम कालोऽभिधावतः। न विद्यतेऽभ्युपायश्च कश्चिन्मे प्राणधारणे ॥१२-१३९-५८॥
येन तेन विशेषेण कर्मणा येन केनचित्। अभ्युज्जीवेत्सीदमानः समर्थो धर्ममाचरेत् ॥१२-१३९-५९॥
ऐन्द्रो धर्मः क्षत्रियाणां ब्राह्मणानामथाग्निकः। ब्रह्मवह्निर्मम बलं भक्ष्यामि समयं क्षुधा ॥१२-१३९-६०॥
यथा यथा वै जीवेद्धि तत्कर्तव्यमपीडया। जीवितं मरणाच्छ्रेयो जीवन्धर्ममवाप्नुयात् ॥१२-१३९-६१॥
सोऽहं जीवितमाकाङ्क्षन्नभक्षस्यापि भक्षणम्। व्यवस्ये बुद्धिपूर्वं वै तद्भवाननुमन्यताम् ॥१२-१३९-६२॥
जीवन्धर्मं चरिष्यामि प्रणोत्स्याम्यशुभानि च। तपोभिर्विद्यया चैव ज्योतींषीव महत्तमः ॥१२-१३९-६३॥
श्वपच उवाच॥
नैतत्खादन्प्राप्स्यसे प्राणमन्यं; नायुर्दीर्घं नामृतस्येव तृप्तिम्। भिक्षामन्यां भिक्ष मा ते मनोऽस्तु; श्वभक्षणे श्वा ह्यभक्षो द्विजानाम् ॥१२-१३९-६४॥
विश्वामित्र उवाच॥
न दुर्भिक्षे सुलभं मांसमन्य; च्छ्वपाक नान्नं न च मेऽस्ति वित्तम्। क्षुधार्तश्चाहमगतिर्निराशः; श्वमांसे चास्मिन्षड्रसान्साधु मन्ये ॥१२-१३९-६५॥
श्वपच उवाच॥
पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रस्य वै द्विज। यदि शास्त्रं प्रमाणं ते माभक्ष्ये मानसं कृथाः ॥१२-१३९-६६॥
विश्वामित्र उवाच॥
अगस्त्येनासुरो जग्धो वातापिः क्षुधितेन वै। अहमापद्गतः क्षुब्धो भक्षयिष्ये श्वजाघनीम् ॥१२-१३९-६७॥
श्वपच उवाच॥
भिक्षामन्यामाहरेति न चैतत्कर्तुमर्हसि। न नूनं कार्यमेतद्वै हर कामं श्वजाघनीम् ॥१२-१३९-६८॥
विश्वामित्र उवाच॥
शिष्टा वै कारणं धर्मे तद्वृत्तमनुवर्तये। परां मेध्याशनादेतां भक्ष्यां मन्ये श्वजाघनीम् ॥१२-१३९-६९॥
श्वपच उवाच॥
असता यत्समाचीर्णं न स धर्मः सनातनः। नावृत्तमनुकार्यं वै मा छलेनानृतं कृथाः ॥१२-१३९-७०॥
विश्वामित्र उवाच॥
न पातकं नावमतमृषिः सन्कर्तुमर्हसि। समौ च श्वमृगौ मन्ये तस्माद्भक्ष्या श्वजाघनी ॥१२-१३९-७१॥
श्वपच उवाच॥
यद्ब्राह्मणार्थे कृतमर्थितेन; तेनर्षिणा तच्च भक्ष्याधिकारम्। स वै धर्मो यत्र न पापमस्ति; सर्वैरुपायैर्हि स रक्षितव्यः ॥१२-१३९-७२॥
विश्वामित्र उवाच॥
मित्रं च मे ब्राह्मणश्चायमात्मा; प्रियश्च मे पूज्यतमश्च लोके। तं भर्तुकामोऽहमिमां हरिष्ये; नृशंसानामीदृशानां न बिभ्ये ॥१२-१३९-७३॥
श्वपच उवाच॥
कामं नरा जीवितं सन्त्यजन्ति; न चाभक्ष्यैः प्रतिकुर्वन्ति तत्र। सर्वान्कामान्प्राप्नुवन्तीह विद्व; न्प्रियस्व कामं सहितः क्षुधा वै ॥१२-१३९-७४॥
विश्वामित्र उवाच॥
स्थाने तावत्संशयः प्रेत्यभावे; निःसंशयं कर्मणां वा विनाशः। अहं पुनर्वर्त इत्याशयात्मा; मूलं रक्षन्भक्षयिष्याम्यभक्ष्यम् ॥१२-१३९-७५॥
बुद्ध्यात्मके व्यस्तमस्तीति तुष्टो; मोहादेकत्वं यथा चर्म चक्षुः। यद्यप्येनः संशयादाचरामि; नाहं भविष्यामि यथा त्वमेव ॥१२-१३९-७६॥
श्वपच उवाच॥
पतनीयमिदं दुःखमिति मे वर्तते मतिः। दुष्कृती ब्राह्मणं सन्तं यस्त्वामहमुपालभे ॥१२-१३९-७७॥
विश्वामित्र उवाच॥
पिबन्त्येवोदकं गावो मण्डूकेषु रुवत्स्वपि। न तेऽधिकारो धर्मेऽस्ति मा भूरात्मप्रशंसकः ॥१२-१३९-७८॥
श्वपच उवाच॥
सुहृद्भूत्वानुशास्मि त्वा कृपा हि त्वयि मे द्विज। तदेवं श्रेय आधत्स्व मा लोभाच्छ्वानमादिथाः ॥१२-१३९-७९॥
विश्वामित्र उवाच॥
सुहृन्मे त्वं सुखेप्सुश्चेदापदो मां समुद्धर। जानेऽहं धर्मतोऽऽत्मानं श्वानीमुत्सृज जाघनीम् ॥१२-१३९-८०॥
श्वपच उवाच॥
नैवोत्सहे भवते दातुमेतां; नोपेक्षितुं ह्रियमाणं स्वमन्नम्। उभौ स्यावः स्वमलेनावलिप्तौ; दाताहं च त्वं च विप्र प्रतीच्छन् ॥१२-१३९-८१॥
विश्वामित्र उवाच॥
अद्याहमेतद्वृजिनं कर्म कृत्वा; जीवंश्चरिष्यामि महापवित्रम्। प्रपूतात्मा धर्ममेवाभिपत्स्ये; यदेतयोर्गुरु तद्वै ब्रवीहि ॥१२-१३९-८२॥
श्वपच उवाच॥
आत्मैव साक्षी किल लोककृत्ये; त्वमेव जानासि यदत्र दुष्टम्। यो ह्याद्रियेद्भक्ष्यमिति श्वमांसं; मन्ये न तस्यास्ति विवर्जनीयम् ॥१२-१३९-८३॥
विश्वामित्र उवाच॥
उपादाने खादने वास्य दोषः; कार्यो न्यायैर्नित्यमत्रापवादः। यस्मिन्न हिंसा नानृते वाक्यलेशो; भक्ष्यक्रिया तत्र न तद्गरीयः ॥१२-१३९-८४॥
श्वपच उवाच॥
यद्येष हेतुस्तव खादनस्य; न ते वेदः कारणं नान्यधर्मः। तस्मादभक्ष्ये भक्षणाद्वा द्विजेन्द्र; दोषं न पश्यामि यथेदमात्थ ॥१२-१३९-८५॥
विश्वामित्र उवाच॥
न पातकं भक्षणमस्य दृष्टं; सुरां पीत्वा पततीतीह शब्दः। अन्योन्यकर्माणि तथा तथैव; न लेशमात्रेण कृत्यं हिनस्ति ॥१२-१३९-८६॥
श्वपच उवाच॥
अस्थानतो हीनतः कुत्सिताद्वा; तं विद्वांसं बाधते साधुवृत्तम्। स्थानं पुनर्यो लभते निषङ्गा; त्तेनापि दण्डः सहितव्य एव ॥१२-१३९-८७॥
भीष्म उवाच॥
एवमुक्त्वा निववृते मातङ्गः कौशिकं तदा। विश्वामित्रो जहारैव कृतबुद्धिः श्वजाघनीम् ॥१२-१३९-८८॥
ततो जग्राह पञ्चाङ्गीं जीवितार्थी महामुनिः। सदारस्तामुपाकृत्य वने यातो महामुनिः ॥१२-१३९-८९॥
एतस्मिन्नेव काले तु प्रववर्षाथ वासवः। सञ्जीवयन्प्रजाः सर्वा जनयामास चौषधीः ॥१२-१३९-९०॥
विश्वामित्रोऽपि भगवांस्तपसा दग्धकिल्बिषः। कालेन महता सिद्धिमवाप परमाद्भुताम् ॥१२-१३९-९१॥
एवं विद्वानदीनात्मा व्यसनस्थो जिजीविषुः। सर्वोपायैरुपायज्ञो दीनमात्मानमुद्धरेत् ॥१२-१३९-९२॥
एतां बुद्धिं समास्थाय जीवितव्यं सदा भवेत्। जीवन्पुण्यमवाप्नोति नरो भद्राणि पश्यति ॥१२-१३९-९३॥
तस्मात्कौन्तेय विदुषा धर्माधर्मविनिश्चये। बुद्धिमास्थाय लोकेऽस्मिन्वर्तितव्यं यतात्मना ॥१२-१३९-९४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.