12.140
युधिष्ठिर उवाच॥
यदिदं घोरमुद्दिष्टमश्रद्धेयमिवानृतम्। अस्ति स्विद्दस्युमर्यादा यामहं परिवर्जये ॥१२-१४०-१॥
संमुह्यामि विषीदामि धर्मो मे शिथिलीकृतः। उद्यमं नाधिगच्छामि कुतश्चित्परिचिन्तयन् ॥१२-१४०-२॥
भीष्म उवाच॥
नैतच्छुद्धागमादेव तव धर्मानुशासनम्। प्रज्ञासमवतारोऽयं कविभिः सम्भृतं मधु ॥१२-१४०-३॥
बह्व्यः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस्ततः। नैकशाखेन धर्मेण यात्रैषा सम्प्रवर्तते ॥१२-१४०-४॥
बुद्धिसञ्जननं राज्ञां धर्ममाचरतां सदा। जयो भवति कौरव्य तदा तद्विद्धि मे वचः ॥१२-१४०-५॥
बुद्धिश्रेष्ठा हि राजानो जयन्ति विजयैषिणः। धर्मः प्रतिविधातव्यो बुद्ध्या राज्ञा ततस्ततः ॥१२-१४०-६॥
नैकशाखेन धर्मेण राज्ञां धर्मो विधीयते। दुर्बलस्य कुतः प्रज्ञा पुरस्तादनुदाहृता ॥१२-१४०-७॥
अद्वैधज्ञः पथि द्वैधे संशयं प्राप्तुमर्हति। बुद्धिद्वैधं वेदितव्यं पुरस्तादेव भारत ॥१२-१४०-८॥
पार्श्वतःकरणं प्रज्ञा विषूची त्वापगा इव। जनस्तूच्चारितं धर्मं विजानात्यन्यथान्यथा ॥१२-१४०-९॥
सम्यग्विज्ञानिनः केचिन्मिथ्याविज्ञानिनोऽपरे। तद्वै यथातथं बुद्ध्वा ज्ञानमाददते सताम् ॥१२-१४०-१०॥
परिमुष्णन्ति शास्त्राणि धर्मस्य परिपन्थिनः। वैषम्यमर्थविद्यानां नैरर्थ्यात्ख्यापयन्ति ते ॥१२-१४०-११॥
आजिजीविषवो विद्यां यशस्कामाः समन्ततः। ते सर्वे नरपापिष्ठा धर्मस्य परिपन्थिनः ॥१२-१४०-१२॥
अपक्वमतयो मन्दा न जानन्ति यथातथम्। सदा ह्यशास्त्रकुशलाः सर्वत्रापरिनिष्ठिताः ॥१२-१४०-१३॥
परिमुष्णन्ति शास्त्राणि शास्त्रदोषानुदर्शिनः। विज्ञानमथ विद्यानां न सम्यगिति वर्तते ॥१२-१४०-१४॥
निन्दया परविद्यानां स्वां विद्यां ख्यापयन्ति ये। वागस्त्रा वाक्छुरीमत्त्वा दुग्धविद्याफला इव ॥ तान्विद्यावणिजो विद्धि राक्षसानिव भारत ॥१२-१४०-१५॥
व्याजेन कृत्स्नो विदितो धर्मस्ते परिहास्यते। न धर्मवचनं वाचा न बुद्ध्या चेति नः श्रुतम् ॥१२-१४०-१६॥
इति बार्हस्पतं ज्ञानं प्रोवाच मघवा स्वयम्। न त्वेव वचनं किञ्चिदनिमित्तादिहोच्यते ॥१२-१४०-१७॥
स्वविनीतेन शास्त्रेण व्यवस्यन्ति तथापरे। लोकयात्रामिहैके तु धर्ममाहुर्मनीषिणः ॥१२-१४०-१८॥
समुद्धिष्टं सतां धर्मं स्वयमूहेन्न पण्डितः। अमर्षाच्छास्त्रसंमोहादविज्ञानाच्च भारत ॥१२-१४०-१९॥
शास्त्रं प्राज्ञस्य वदतः समूहे यात्यदर्शनम्। आगतागमया बुद्ध्या वचनेन प्रशस्यते ॥१२-१४०-२०॥
अज्ञानाज्ज्ञानहेतुत्वाद्वचनं साधु मन्यते। अनपाहतमेवेदं नेदं शास्त्रमपार्थकम् ॥१२-१४०-२१॥
दैतेयानुशनाः प्राह संशयच्छेदने पुरा। ज्ञानमव्यपदेश्यं हि यथा नास्ति तथैव तत् ॥१२-१४०-२२॥
तेन त्वं छिन्नमूलेन कं तोषयितुमर्हसि। अतथ्यविहितं यो वा नेदं वाक्यमुपाश्नुयात् ॥१२-१४०-२३॥
उग्रायैव हि सृष्टोऽसि कर्मणे न त्ववेक्षसे। अङ्गेमामन्ववेक्षस्व राजनीतिं बुभूषितुम् ॥ यया प्रमुच्यते त्वन्यो यदर्थं च प्रमोदते ॥१२-१४०-२४॥
अजोऽश्वः क्षत्रमित्येतत्सदृशं ब्रह्मणा कृतम्। तस्मान्नतीक्ष्णभूतानां यात्रा काचित्प्रसिध्यति ॥१२-१४०-२५॥
यस्त्ववध्यवधे दोषः स वध्यस्यावधे स्मृतः। एषैव खलु मर्यादा यामयं परिवर्जयेत् ॥१२-१४०-२६॥
तस्मात्तीक्ष्णः प्रजा राजा स्वधर्मे स्थापयेदुत। अन्योन्यं भक्षयन्तो हि प्रचरेयुर्वृका इव ॥१२-१४०-२७॥
यस्य दस्युगणा राष्ट्रे ध्वाङ्क्षा मत्स्याञ्जलादिव। विहरन्ति परस्वानि स वै क्षत्रियपांसनः ॥१२-१४०-२८॥
कुलीनान्सचिवान्कृत्वा वेदविद्यासमन्वितान्। प्रशाधि पृथिवीं राजन्प्रजा धर्मेण पालयन् ॥१२-१४०-२९॥
विहीनजमकर्माणं यः प्रगृह्णाति भूमिपः। उभयस्याविशेषज्ञस्तद्वै क्षत्रं नपुंसकम् ॥१२-१४०-३०॥
नैवोग्रं नैव चानुग्रं धर्मेणेह प्रशस्यते। उभयं न व्यतिक्रामेदुग्रो भूत्वा मृदुर्भव ॥१२-१४०-३१॥
कष्टः क्षत्रियधर्मोऽयं सौहृदं त्वयि यत्स्थितम्। उग्रे कर्मणि सृष्टोऽसि तस्माद्राज्यं प्रशाधि वै ॥१२-१४०-३२॥
अशिष्टनिग्रहो नित्यं शिष्टस्य परिपालनम्। इति शक्रोऽब्रवीद्धीमानापत्सु भरतर्षभ ॥१२-१४०-३३॥
युधिष्ठिर उवाच॥
अस्ति स्विद्दस्युमर्यादा यामन्यो नातिलङ्घयेत्। पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥१२-१४०-३४॥
भीष्म उवाच॥
ब्राह्मणानेव सेवेत विद्यावृद्धांस्तपस्विनः। श्रुतचारित्रवृत्ताढ्यान्पवित्रं ह्येतदुत्तमम् ॥१२-१४०-३५॥
या देवतासु वृत्तिस्ते सास्तु विप्रेषु सर्वदा। क्रुद्धैर्हि विप्रैः कर्माणि कृतानि बहुधा नृप ॥१२-१४०-३६॥
तेषां प्रीत्या यशो मुख्यमप्रीत्या तु विपर्ययः। प्रीत्या ह्यमृतवद्विप्राः क्रुद्धाश्चैव यथा विषम् ॥१२-१४०-३७॥