12.141
युधिष्ठिर उवाच॥
पितामह महाप्राज्ञ सर्वशास्त्रविशारद। शरणं पालयानस्य यो धर्मस्तं वदस्व मे ॥१२-१४१-१॥
भीष्म उवाच॥
महान्धर्मो महाराज शरणागतपालने। अर्हः प्रष्टुं भवांश्चैव प्रश्नं भरतसत्तम ॥१२-१४१-२॥
नृगप्रभृतयो राजन्राजानः शरणागतान्। परिपाल्य महाराज संसिद्धिं परमां गताः ॥१२-१४१-३॥
श्रूयते हि कपोतेन शत्रुः शरणमागतः। पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ॥१२-१४१-४॥
युधिष्ठिर उवाच॥
कथं कपोतेन पुरा शत्रुः शरणमागतः। स्वमांसैर्भोजितः कां च गतिं लेभे स भारत ॥१२-१४१-५॥
भीष्म उवाच॥
शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम्। नृपतेर्मुचुकुन्दस्य कथितां भार्गवेण ह ॥१२-१४१-६॥
इममर्थं पुरा पार्थ मुचुकुन्दो नराधिपः। भार्गवं परिपप्रच्छ प्रणतो भरतर्षभ ॥१२-१४१-७॥
तस्मै शुश्रूषमाणाय भार्गवोऽकथयत्कथाम्। इयं यथा कपोतेन सिद्धिः प्राप्ता नराधिप ॥१२-१४१-८॥
धर्मनिश्चयसंयुक्तां कामार्थसहितां कथाम्। शृणुष्वावहितो राजन्गदतो मे महाभुज ॥१२-१४१-९॥
कश्चित्क्षुद्रसमाचारः पृथिव्यां कालसंमतः। चचार पृथिवीं पापो घोरः शकुनिलुब्धकः ॥१२-१४१-१०॥
काकोल इव कृष्णाङ्गो रूक्षः पापसमाहितः। यवमध्यः कृशग्रीवो ह्रस्वपादो महाहनुः ॥१२-१४१-११॥
नैव तस्य सुहृत्कश्चिन्न सम्बन्धी न बान्धवः। स हि तैः सम्परित्यक्तस्तेन घोरेण कर्मणा ॥१२-१४१-१२॥
स वै क्षारकमादाय द्विजान्हत्वा वने सदा। चकार विक्रयं तेषां पतङ्गानां नराधिप ॥१२-१४१-१३॥
एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः। अगमत्सुमहान्कालो न चाधर्ममबुध्यत ॥१२-१४१-१४॥
तस्य भार्यासहायस्य रममाणस्य शाश्वतम्। दैवयोगविमूढस्य नान्या वृत्तिररोचत ॥१२-१४१-१५॥
ततः कदाचित्तस्याथ वनस्थस्य समुद्गतः। पातयन्निव वृक्षांस्तान्सुमहान्वातसम्भ्रमः ॥१२-१४१-१६॥
मेघसङ्कुलमाकाशं विद्युन्मण्डलमण्डितम्। सञ्छन्नं सुमुहूर्तेन नौस्थानेनेव सागरः ॥१२-१४१-१७॥
वारिधारासमूहैश्च सम्प्रहृष्टः शतक्रतुः। क्षणेन पूरयामास सलिलेन वसुन्धराम् ॥१२-१४१-१८॥
ततो धाराकुले लोके सम्भ्रमन्नष्टचेतनः। शीतार्तस्तद्वनं सर्वमाकुलेनान्तरात्मना ॥१२-१४१-१९॥
नैव निम्नं स्थलं वापि सोऽविन्दत विहङ्गहा। पूरितो हि जलौघेन मार्गस्तस्य वनस्य वै ॥१२-१४१-२०॥
पक्षिणो वातवेगेन हता लीनास्तदाभवन्। मृगाः सिंहा वराहाश्च स्थलान्याश्रित्य तस्थिरे ॥१२-१४१-२१॥
महतावातवर्षेण त्रासितास्ते वनौकसः। भयार्ताश्च क्षुधार्ताश्च बभ्रमुः सहिता वने ॥१२-१४१-२२॥
स तु शीतहतैर्गात्रैर्जगामैव न तस्थिवान्। सोऽपश्यद्वनषण्डेषु मेघनीलं वनस्पतिम् ॥१२-१४१-२३॥
ताराढ्यं कुमुदाकारमाकाशं निर्मलं च ह। मेघैर्मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः ॥१२-१४१-२४॥
दिशोऽवलोकयामास वेलां चैव दुरात्मवान्। दूरे ग्रामनिवेशश्च तस्माद्देशादिति प्रभो ॥ कृतबुद्धिर्वने तस्मिन्वस्तुं तां रजनीं तदा ॥१२-१४१-२५॥
सोऽञ्जलिं प्रयतः कृत्वा वाक्यमाह वनस्पतिम्। शरणं यामि यान्यस्मिन्दैवतानीह भारत ॥१२-१४१-२६॥
स शिलायां शिरः कृत्वा पर्णान्यास्तीर्य भूतले। दुःखेन महताविष्टस्ततः सुष्वाप पक्षिहा ॥१२-१४१-२७॥