Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.145
भीष्म उवाच॥
विमानस्थौ तु तौ राजँल्लुब्धको वै ददर्श ह। दृष्ट्वा तौ दम्पती दुःखादचिन्तयत सद्गतिम् ॥१२-१४५-१॥
कीदृशेनेह तपसा गच्छेयं परमां गतिम्। इति बुद्ध्या विनिश्चित्य गमनायोपचक्रमे ॥१२-१४५-२॥
महाप्रस्थानमाश्रित्य लुब्धकः पक्षिजीवनः। निश्चेष्टो मारुताहारो निर्ममः स्वर्गकाङ्क्षया ॥१२-१४५-३॥
ततोऽपश्यत्सुविस्तीर्णं हृद्यं पद्मविभूषितम्। नानाद्विजगणाकीर्णं सरः शीतजलं शुभम् ॥ पिपासार्तोऽपि तद्दृष्ट्वा तृप्तः स्यान्नात्र संशयः ॥१२-१४५-४॥
उपवासकृशोऽत्यर्थं स तु पार्थिव लुब्धकः। उपसर्पत संहृष्टः श्वापदाध्युषितं वनम् ॥१२-१४५-५॥
महान्तं निश्चयं कृत्वा लुब्धकः प्रविवेश ह। प्रविशन्नेव च वनं निगृहीतः स कण्टकैः ॥१२-१४५-६॥
स कण्टकविभुग्नाङ्गो लोहितार्द्रीकृतच्छविः। बभ्राम तस्मिन्विजने नानामृगसमाकुले ॥१२-१४५-७॥
ततो द्रुमाणां महतां पवनेन वने तदा। उदतिष्ठत सङ्घर्षात्सुमहान्हव्यवाहनः ॥१२-१४५-८॥
तद्वनं वृक्षसङ्कीर्णं लताविटपसङ्कुलम्। ददाह पावकः क्रुद्धो युगान्ताग्निसमप्रभः ॥१२-१४५-९॥
सज्वालैः पवनोद्धूतैर्विस्फुलिङ्गैः समन्वितः। ददाह तद्वनं घोरं मृगपक्षिसमाकुलम् ॥१२-१४५-१०॥
ततः स देहमोक्षार्थं सम्प्रहृष्टेन चेतसा। अभ्यधावत संवृद्धं पावकं लुब्धकस्तदा ॥१२-१४५-११॥
ततस्तेनाग्निना दग्धो लुब्धको नष्टकिल्बिषः। जगाम परमां सिद्धिं तदा भरतसत्तम ॥१२-१४५-१२॥
ततः स्वर्गस्थमात्मानं सोऽपश्यद्विगतज्वरः। यक्षगन्धर्वसिद्धानां मध्ये भ्राजन्तमिन्द्रवत् ॥१२-१४५-१३॥
एवं खलु कपोतश्च कपोती च पतिव्रता। लुब्धकेन सह स्वर्गं गताः पुण्येन कर्मणा ॥१२-१४५-१४॥
यापि चैवंविधा नारी भर्तारमनुवर्तते। विराजते हि सा क्षिप्रं कपोतीव दिवि स्थिता ॥१२-१४५-१५॥
एवमेतत्पुरा वृत्तं लुब्धकस्य महात्मनः। कपोतस्य च धर्मिष्ठा गतिः पुण्येन कर्मणा ॥१२-१४५-१६॥
यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत्। नाशुभं विद्यते तस्य मनसापि प्रमाद्यतः ॥१२-१४५-१७॥
युधिष्ठिर महानेष धर्मो धर्मभृतां वर। गोघ्नेष्वपि भवेदस्मिन्निष्कृतिः पापकर्मणः ॥ निष्कृतिर्न भवेत्तस्मिन्यो हन्याच्छरणागतम् ॥१२-१४५-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.