12.146
युधिष्ठिर उवाच॥
अबुद्धिपूर्वं यः पापं कुर्याद्भरतसत्तम। मुच्यते स कथं तस्मादेनसस्तद्वदस्व मे ॥१२-१४६-१॥
भीष्म उवाच॥
अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम्। इन्द्रोतः शौनको विप्रो यदाह जनमेजयम् ॥१२-१४६-२॥
आसीद्राजा महावीर्यः पारिक्षिज्जनमेजयः। अबुद्धिपूर्वं ब्रह्महत्या तमागच्छन्महीपतिम् ॥१२-१४६-३॥
तं ब्राह्मणाः सर्व एव तत्यजुः सपुरोहिताः। जगाम स वनं राजा दह्यमानो दिवानिशम् ॥१२-१४६-४॥
स प्रजाभिः परित्यक्तश्चकार कुशलं महत्। अतिवेलं तपस्तेपे दह्यमानः स मन्युना ॥१२-१४६-५॥
तत्रेतिहासं वक्ष्यामि धर्मस्यास्योपबृंहणम्। दह्यमानः पापकृत्या जगाम जनमेजयः ॥१२-१४६-६॥
वरिष्यमाण इन्द्रोतं शौनकं संशितव्रतम्। समासाद्योपजग्राह पादयोः परिपीडयन् ॥१२-१४६-७॥
ततो भीतो महाप्राज्ञो जगर्हे सुभृशं तदा। कर्ता पापस्य महतो भ्रूणहा किमिहागतः ॥१२-१४६-८॥
किं तवास्मासु कर्तव्यं मा मा स्प्राक्षीः कथञ्चन। गच्छ गच्छ न ते स्थानं प्रीणात्यस्मानिह ध्रुवम् ॥१२-१४६-९॥
रुधिरस्येव ते गन्धः शवस्येव च दर्शनम्। अशिवः शिवसङ्काशो मृतो जीवन्निवाटसि ॥१२-१४६-१०॥
अन्तर्मृत्युरशुद्धात्मा पापमेवानुचिन्तयन्। प्रबुध्यसे प्रस्वपिषि वर्तसे चरसे सुखी ॥१२-१४६-११॥
मोघं ते जीवितं राजन्परिक्लिष्टं च जीवसि। पापायेव च सृष्टोऽसि कर्मणे ह यवीयसे ॥१२-१४६-१२॥
बहु कल्याणमिच्छन्त ईहन्ते पितरः सुतान्। तपसा देवतेज्याभिर्वन्दनेन तितिक्षया ॥१२-१४६-१३॥
पितृवंशमिमं पश्य त्वत्कृते नरकं गतम्। निरर्थाः सर्व एवैषामाशाबन्धास्त्वदाश्रयाः ॥१२-१४६-१४॥
यान्पूजयन्तो विन्दन्ति स्वर्गमायुर्यशः सुखम्। तेषु ते सततं द्वेषो ब्राह्मणेषु निरर्थकः ॥१२-१४६-१५॥
इमं लोकं विमुच्य त्वमवाङ्मूर्धा पतिष्यसि। अशाश्वतीः शाश्वतीश्च समाः पापेन कर्मणा ॥१२-१४६-१६॥
अद्यमानो जन्तुगृध्रैः शितिकण्ठैरयोमुखैः। ततोऽपि पुनरावृत्तः पापयोनिं गमिष्यसि ॥१२-१४६-१७॥
यदिदं मन्यसे राजन्नायमस्ति परः कुतः। प्रतिस्मारयितारस्त्वां यमदूता यमक्षये ॥१२-१४६-१८॥