Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.147
भीष्म उवाच॥
एवमुक्तः प्रत्युवाच तं मुनिं जनमेजयः। गर्ह्यं भवान्गर्हयति निन्द्यं निन्दति मा भवान् ॥१२-१४७-१॥
धिक्कार्यं मा धिक्कुरुते तस्मात्त्वाहं प्रसादये। सर्वं हीदं स्वकृतं मे ज्वलाम्यग्नाविवाहितः ॥१२-१४७-२॥
स्वकर्माण्यभिसन्धाय नाभिनन्दति मे मनः। प्राप्तं नूनं मया घोरं भयं वैवस्वतादपि ॥१२-१४७-३॥
तत्तु शल्यमनिर्हृत्य कथं शक्ष्यामि जीवितुम्। सर्वमन्यून्विनीय त्वमभि मा वद शौनक ॥१२-१४७-४॥
महानसं ब्राह्मणानां भविष्याम्यर्थवान्पुनः। अस्तु शेषं कुलस्यास्य मा पराभूदिदं कुलम् ॥१२-१४७-५॥
न हि नो ब्रह्मशप्तानां शेषो भवितुमर्हति। श्रुतीरलभमानानां संविदं वेदनिश्चयात् ॥१२-१४७-६॥
निर्विद्यमानः सुभृशं भूयो वक्ष्यामि साम्प्रतम्। भूयश्चैवाभिनङ्क्षन्ति निर्धर्मा निर्जपा इव ॥१२-१४७-७॥
अर्वाक्च प्रतितिष्ठन्ति पुलिन्दशबरा इव। न ह्ययज्ञा अमुं लोकं प्राप्नुवन्ति कथञ्चन ॥१२-१४७-८॥
अविज्ञायैव मे प्रज्ञां बालस्येव सुपण्डितः। ब्रह्मन्पितेव पुत्रेभ्यः प्रति मां वाञ्छ शौनक ॥१२-१४७-९॥
शौनक उवाच॥
किमाश्चर्यं यतः प्राज्ञो बहु कुर्याद्धि साम्प्रतम्। इति वै पण्डितो भूत्वा भूतानां नोपतप्यति ॥१२-१४७-१०॥
प्रज्ञाप्रासादमारुह्य अशोच्यः शोचते जनान्। जगतीस्थानिवाद्रिस्थः प्रज्ञया प्रतिपश्यति ॥१२-१४७-११॥
न चोपलभते तत्र न च कार्याणि पश्यति। निर्विण्णात्मा परोक्षो वा धिक्कृतः सर्वसाधुषु ॥१२-१४७-१२॥
विदित्वोभयतो वीर्यं माहात्म्यं वेद आगमे। कुरुष्वेह महाशान्तिं ब्रह्मा शरणमस्तु ते ॥१२-१४७-१३॥
तद्वै पारत्रिकं चारु ब्राह्मणानामकुप्यताम्। अथ चेत्तप्यसे पापैर्धर्मं चेदनुपश्यसि ॥१२-१४७-१४॥
जनमेजय उवाच॥
अनुतप्ये च पापेन न चाधर्मं चराम्यहम्। बुभूषुं भजमानं च प्रतिवाञ्छामि शौनक ॥१२-१४७-१५॥
शौनक उवाच॥
छित्त्वा स्तम्भं च मानं च प्रीतिमिच्छामि ते नृप। सर्वभूतहिते तिष्ठ धर्मं चैव प्रतिस्मर ॥१२-१४७-१६॥
न भयान्न च कार्पण्यान्न लोभात्त्वामुपाह्वये। तां मे देवा गिरं सत्यां शृण्वन्तु ब्राह्मणैः सह ॥१२-१४७-१७॥
सोऽहं न केनचिच्चार्थी त्वां च धर्ममुपाह्वये। क्रोशतां सर्वभूतानामहो धिगिति कुर्वताम् ॥१२-१४७-१८॥
वक्ष्यन्ति मामधर्मज्ञा वक्ष्यन्त्यसुहृदो जनाः। वाचस्ताः सुहृदः श्रुत्वा सञ्ज्वरिष्यन्ति मे भृशम् ॥१२-१४७-१९॥
केचिदेव महाप्राज्ञाः परिज्ञास्यन्ति कार्यताम्। जानीहि मे कृतं तात ब्राह्मणान्प्रति भारत ॥१२-१४७-२०॥
यथा ते मत्कृते क्षेमं लभेरंस्तत्तथा कुरु। प्रतिजानीहि चाद्रोहं ब्राह्मणानां नराधिप ॥१२-१४७-२१॥
जनमेजय उवाच॥
नैव वाचा न मनसा न पुनर्जातु कर्मणा। द्रोग्धास्मि ब्राह्मणान्विप्र चरणावेव ते स्पृशे ॥१२-१४७-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.