12.148
शौनक उवाच॥
तस्मात्तेऽहं प्रवक्ष्यामि धर्ममावृत्तचेतसे। श्रीमान्महाबलस्तुष्टो यस्त्वं धर्ममवेक्षसे ॥ पुरस्ताद्दारुणो भूत्वा सुचित्रतरमेव तत् ॥१२-१४८-१॥
अनुगृह्णन्ति भूतानि स्वेन वृत्तेन पार्थिव। कृत्स्ने नूनं सदसती इति लोको व्यवस्यति ॥ यत्र त्वं तादृशो भूत्वा धर्ममद्यानुपश्यसि ॥१२-१४८-२॥
हित्वा सुरुचिरं भक्ष्यं भोगांश्च तप आस्थितः। इत्येतदपि भूतानामद्भुतं जनमेजय ॥१२-१४८-३॥
यो दुर्बलो भवेद्दाता कृपणो वा तपोधनः। अनाश्चर्यं तदित्याहुर्नातिदूरे हि वर्तते ॥१२-१४८-४॥
एतदेव हि कार्पण्यं समग्रमसमीक्षितम्। तस्मात्समीक्षयैव स्याद्भवेत्तस्मिंस्ततो गुणः ॥१२-१४८-५॥
यज्ञो दानं दया वेदाः सत्यं च पृथिवीपते। पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः ॥१२-१४८-६॥
तदेव राज्ञां परमं पवित्रं जनमेजय। तेन सम्यग्गृहीतेन श्रेयांसं धर्ममाप्स्यसि ॥१२-१४८-७॥
पुण्यदेशाभिगमनं पवित्रं परमं स्मृतम्। अपि ह्युदाहरन्तीमा गाथा गीता ययातिना ॥१२-१४८-८॥
यो मर्त्यः प्रतिपद्येत आयुर्जीवेत वा पुनः। यज्ञमेकान्ततः कृत्वा तत्संन्यस्य तपश्चरेत् ॥१२-१४८-९॥
पुण्यमाहुः कुरुक्षेत्रं सरस्वत्यां पृथूदकम्। यत्रावगाह्य पीत्वा वा नैवं श्वोमरणं तपेत् ॥१२-१४८-१०॥
महासरः पुष्कराणि प्रभासोत्तरमानसे। कालोदं त्वेव गन्तासि लब्धायुर्जीविते पुनः ॥१२-१४८-११॥
सरस्वतीदृषद्वत्यौ सेवमानोऽनुसञ्चरेः। स्वाध्यायशीलः स्थानेषु सर्वेषु समुपस्पृशेः ॥१२-१४८-१२॥
त्यागधर्मं पवित्राणां संन्यासं परमब्रवीत्। अत्राप्युदाहरन्तीमा गाथाः सत्यवता कृताः ॥१२-१४८-१३॥
यथा कुमारः सत्यो वै न पुण्यो न च पापकृत्। न ह्यस्ति सर्वभूतेषु दुःखमस्मिन्कुतः सुखम् ॥१२-१४८-१४॥
एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम्। त्यजतां जीवितं प्रायो विवृते पुण्यपातके ॥१२-१४८-१५॥
यत्त्वेव राज्ञो ज्यायो वै कार्याणां तद्वदामि ते। बलेन संविभागैश्च जय स्वर्गं पुनीष्व च ॥१२-१४८-१६॥
यस्यैवं बलमोजश्च स धर्मस्य प्रभुर्नरः। ब्राह्मणानां सुखार्थं त्वं पर्येहि पृथिवीमिमाम् ॥१२-१४८-१७॥
यथैवैनान्पुराक्षैप्सीस्तथैवैनान्प्रसादय। अपि धिक्क्रियमाणोऽपि त्यज्यमानोऽप्यनेकधा ॥१२-१४८-१८॥
आत्मनो दर्शनं विद्वन्नाहन्तास्मीति मा क्रुधः। घटमानः स्वकार्येषु कुरु नैःश्रेयसं परम् ॥१२-१४८-१९॥
हिमाग्निघोरसदृशो राजा भवति कश्चन। लाङ्गलाशनिकल्पो वा भवत्यन्यः परन्तप ॥१२-१४८-२०॥
न निःशेषेण मन्तव्यमचिकित्स्येन वा पुनः। न जातु नाहमस्मीति प्रसक्तव्यमसाधुषु ॥१२-१४८-२१॥
विकर्मणा तप्यमानः पादात्पापस्य मुच्यते। नैतत्कार्यं पुनरिति द्वितीयात्परिमुच्यते ॥ चरिष्ये धर्ममेवेति तृतीयात्परिमुच्यते ॥१२-१४८-२२॥
कल्याणमनुमन्तव्यं पुरुषेण बुभूषता। ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते ॥ ये दुर्गन्धीनि सेवन्ते तथागन्धा भवन्ति ते ॥१२-१४८-२३॥
तपश्चर्यापरः सद्यः पापाद्धि परिमुच्यते। संवत्सरमुपास्याग्निमभिशस्तः प्रमुच्यते ॥ त्रीणि वर्षाण्युपास्याग्निं भ्रूणहा विप्रमुच्यते ॥१२-१४८-२४॥
यावतः प्राणिनो हन्यात्तज्जातीयान्स्वभावतः। प्रमीयमाणानुन्मोच्य भ्रूणहा विप्रमुच्यते ॥१२-१४८-२५॥
अपि वाप्सु निमज्जेत त्रिर्जपन्नघमर्षणम्। यथाश्वमेधावभृथस्तथा तन्मनुरब्रवीत् ॥१२-१४८-२६॥
क्षिप्रं प्रणुदते पापं सत्कारं लभते तथा। अपि चैनं प्रसीदन्ति भूतानि जडमूकवत् ॥१२-१४८-२७॥
बृहस्पतिं देवगुरुं सुरासुराः; समेत्य सर्वे नृपतेऽन्वयुञ्जन्। धर्मे फलं वेत्थ कृते महर्षे; तथेतरस्मिन्नरके पापलोके ॥१२-१४८-२८॥
उभे तु यस्य सुकृते भवेतां; किं स्वित्तयोस्तत्र जयोत्तरं स्यात्। आचक्ष्व नः कर्मफलं महर्षे; कथं पापं नुदते पुण्यशीलः ॥१२-१४८-२९॥
बृहस्पतिरुवाच॥
कृत्वा पापं पूर्वमबुद्धिपूर्वं; पुण्यानि यः कुरुते बुद्धिपूर्वम्। स तत्पापं नुदते पुण्यशीलो; वासो यथा मलिनं क्षारयुक्त्या ॥१२-१४८-३०॥
पापं कृत्वा न मन्येत नाहमस्मीति पूरुषः। चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः ॥१२-१४८-३१॥
छिद्राणि वसनस्येव साधुना विवृणोति यः। यः पापं पुरुषः कृत्वा कल्याणमभिपद्यते ॥१२-१४८-३२॥
यथादित्यः पुनरुद्यंस्तमः सर्वं व्यपोहति। कल्याणमाचरन्नेवं सर्वं पापं व्यपोहति ॥१२-१४८-३३॥
भीष्म उवाच॥
एवमुक्त्वा स राजानमिन्द्रोतो जनमेजयम्। याजयामास विधिवद्वाजिमेधेन शौनकः ॥१२-१४८-३४॥
ततः स राजा व्यपनीतकल्मषः; श्रिया युतः प्रज्वलिताग्निरूपया। विवेश राज्यं स्वममित्रकर्शनो; दिवं यथा पूर्णवपुर्निशाकरः ॥१२-१४८-३५॥