12.152
युधिष्ठिर उवाच॥
पापस्य यदधिष्ठानं यतः पापं प्रवर्तते। एतदिच्छाम्यहं ज्ञातुं तत्त्वेन भरतर्षभ ॥१२-१५२-१॥
भीष्म उवाच॥
पापस्य यदधिष्ठानं तच्छृणुष्व नराधिप। एको लोभो महाग्राहो लोभात्पापं प्रवर्तते ॥१२-१५२-२॥
अतः पापमधर्मश्च तथा दुःखमनुत्तमम्। निकृत्या मूलमेतद्धि येन पापकृतो जनाः ॥१२-१५२-३॥
लोभात्क्रोधः प्रभवति लोभात्कामः प्रवर्तते। लोभान्मोहश्च माया च मानस्तम्भः परासुता ॥१२-१५२-४॥
अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसङ्क्षयः। अभिध्याप्रज्ञता चैव सर्वं लोभात्प्रवर्तते ॥१२-१५२-५॥
अन्यायश्चावितर्कश्च विकर्मसु च याः क्रियाः। कूटविद्यादयश्चैव रूपैश्वर्यमदस्तथा ॥१२-१५२-६॥
सर्वभूतेष्वविश्वासः सर्वभूतेष्वनार्जवम्। सर्वभूतेष्वभिद्रोहः सर्वभूतेष्वयुक्तता ॥ हरणं परवित्तानां परदाराभिमर्शनम् ॥१२-१५२-७॥
वाग्वेगो मानसो वेगो निन्दावेगस्तथैव च। उपस्थोदरयोर्वेगो मृत्युवेगश्च दारुणः ॥१२-१५२-८॥
ईर्ष्यावेगश्च बलवान्मिथ्यावेगश्च दुस्त्यजः। रसवेगश्च दुर्वारः श्रोत्रवेगश्च दुःसहः ॥१२-१५२-९॥
कुत्सा विकत्था मात्सर्यं पापं दुष्करकारिता। साहसानां च सर्वेषामकार्याणां क्रियास्तथा ॥१२-१५२-१०॥
जातौ बाल्येऽथ कौमारे यौवने चापि मानवः। न सन्त्यजत्यात्मकर्म यन्न जीर्यति जीर्यतः ॥१२-१५२-११॥
यो न पूरयितुं शक्यो लोभः प्राप्त्या कुरूद्वह। नित्यं गम्भीरतोयाभिरापगाभिरिवोदधिः ॥ न प्रहृष्यति लाभैर्यो यश्च कामैर्न तृप्यति ॥१२-१५२-१२॥
यो न देवैर्न गन्धर्वैर्नासुरैर्न महोरगैः। ज्ञायते नृप तत्त्वेन सर्वैर्भूतगणैस्तथा ॥ स लोभः सह मोहेन विजेतव्यो जितात्मना ॥१२-१५२-१३॥
दम्भो द्रोहश्च निन्दा च पैशुन्यं मत्सरस्तथा। भवन्त्येतानि कौरव्य लुब्धानामकृतात्मनाम् ॥१२-१५२-१४॥
सुमहान्त्यपि शास्त्राणि धारयन्ति बहुश्रुताः। छेत्तारः संशयानां च क्लिश्यन्तीहाल्पबुद्धयः ॥१२-१५२-१५॥
द्वेषक्रोधप्रसक्ताश्च शिष्टाचारबहिष्कृताः। अन्तःक्षुरा वाङ्मधुराः कूपाश्छन्नास्तृणैरिव ॥ धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत् ॥१२-१५२-१६॥
कुर्वते च बहून्मार्गांस्तांस्तान्हेतुबलाश्रिताः। सर्वं मार्गं विलुम्पन्ति लोभाज्ञानेषु निष्ठिताः ॥१२-१५२-१७॥
धर्मस्याह्रियमाणस्य लोभग्रस्तैर्दुरात्मभिः। या या विक्रियते संस्था ततः साभिप्रपद्यते ॥१२-१५२-१८॥
दर्पः क्रोधो मदः स्वप्नो हर्षः शोकोऽतिमानिता। तत एव हि कौरव्य दृश्यन्ते लुब्धबुद्धिषु ॥ एतानशिष्टान्बुध्यस्व नित्यं लोभसमन्वितान् ॥१२-१५२-१९॥
शिष्टांस्तु परिपृच्छेथा यान्वक्ष्यामि शुचिव्रतान्। येषु वृत्तिभयं नास्ति परलोकभयं न च ॥१२-१५२-२०॥
नामिषेषु प्रसङ्गोऽस्ति न प्रियेष्वप्रियेषु च। शिष्टाचारः प्रियो येषु दमो येषु प्रतिष्ठितः ॥१२-१५२-२१॥
सुखं दुःखं परं येषां सत्यं येषां परायणम्। दातारो न गृहीतारो दयावन्तस्तथैव च ॥१२-१५२-२२॥
पितृदेवातिथेयाश्च नित्योद्युक्तास्तथैव च। सर्वोपकारिणो धीराः सर्वधर्मानुपालकाः ॥१२-१५२-२३॥
सर्वभूतहिताश्चैव सर्वदेयाश्च भारत। न ते चालयितुं शक्या धर्मव्यापारपारगाः ॥१२-१५२-२४॥
न तेषां भिद्यते वृत्तं यत्पुरा साधुभिः कृतम्। न त्रासिनो न चपला न रौद्राः सत्पथे स्थिताः ॥१२-१५२-२५॥
ते सेव्याः साधुभिर्नित्यं येष्वहिंसा प्रतिष्ठिता। कामक्रोधव्यपेता ये निर्ममा निरहङ्कृताः ॥ सुव्रताः स्थिरमर्यादास्तानुपास्स्व च पृच्छ च ॥१२-१५२-२६॥
न गवार्थं यशोर्थं वा धर्मस्तेषां युधिष्ठिर। अवश्यकार्य इत्येव शरीरस्य क्रियास्तथा ॥१२-१५२-२७॥
न भयं क्रोधचापल्यं न शोकस्तेषु विद्यते। न धर्मध्वजिनश्चैव न गुह्यं किञ्चिदास्थिताः ॥१२-१५२-२८॥
येष्वलोभस्तथामोहो ये च सत्यार्जवे रताः। तेषु कौन्तेय रज्येथा येष्वतन्द्रीकृतं मनः ॥१२-१५२-२९॥
ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च। निर्ममा निरहङ्काराः सत्त्वस्थाः समदर्शिनः ॥१२-१५२-३०॥
लाभालाभौ सुखदुःखे च तात; प्रियाप्रिये मरणं जीवितं च। समानि येषां स्थिरविक्रमाणां; बुद्धात्मनां सत्त्वमवस्थितानाम् ॥१२-१५२-३१॥
सुखप्रियैस्तान्सुमहाप्रतापा; न्यत्तोऽप्रमत्तश्च समर्थयेथाः। दैवात्सर्वे गुणवन्तो भवन्ति; शुभाशुभा वाक्प्रलापा यथैव ॥१२-१५२-३२॥