Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.151
भीष्म उवाच॥
एवमुक्त्वा तु राजेन्द्र शल्मलिं ब्रह्मवित्तमः। नारदः पवने सर्वं शल्मलेर्वाक्यमब्रवीत् ॥१२-१५१-१॥
हिमवत्पृष्ठजः कश्चिच्छल्मलिः परिवारवान्। बृहन्मूलो बृहच्छाखः स त्वां वायोऽवमन्यते ॥१२-१५१-२॥
बहून्याक्षेपयुक्तानि त्वामाह वचनानि सः। न युक्तानि मया वायो तानि वक्तुं त्वयि प्रभो ॥१२-१५१-३॥
जानामि त्वामहं वायो सर्वप्राणभृतां वरम्। वरिष्ठं च गरिष्ठं च क्रोधे वैवस्वतं यथा ॥१२-१५१-४॥
एवं तु वचनं श्रुत्वा नारदस्य समीरणः। शल्मलिं तमुपागम्य क्रुद्धो वचनमब्रवीत् ॥१२-१५१-५॥
शल्मले नारदे यत्तत्त्वयोक्तं मद्विगर्हणम्। अहं वायुः प्रभावं ते दर्शयाम्यात्मनो बलम् ॥१२-१५१-६॥
नाहं त्वा नाभिजानामि विदितश्चासि मे द्रुम। पितामहः प्रजासर्गे त्वयि विश्रान्तवान्प्रभुः ॥१२-१५१-७॥
तस्य विश्रमणादेव प्रसादो यः कृतस्तव। रक्ष्यसे तेन दुर्बुद्धे नात्मवीर्याद्द्रुमाधम ॥१२-१५१-८॥
यन्मा त्वमवजानीषे यथान्यं प्राकृतं तथा। दर्शयाम्येष आत्मानं यथा मामवभोत्स्यसे ॥१२-१५१-९॥
एवमुक्तस्ततः प्राह शल्मलिः प्रहसन्निव। पवन त्वं वने क्रुद्धो दर्शयात्मानमात्मना ॥१२-१५१-१०॥
मयि वै त्यज्यतां क्रोधः किं मे क्रुद्धः करिष्यसि। न ते बिभेमि पवन यद्यपि त्वं स्वयम्प्रभुः ॥१२-१५१-११॥
इत्येवमुक्तः पवनः श्व इत्येवाब्रवीद्वचः। दर्शयिष्यामि ते तेजस्ततो रात्रिरुपागमत् ॥१२-१५१-१२॥
अथ निश्चित्य मनसा शल्मलिर्वातकारितम्। पश्यमानस्तदात्मानमसमं मातरिश्वनः ॥१२-१५१-१३॥
नारदे यन्मया प्रोक्तं पवनं प्रति तन्मृषा। असमर्थो ह्यहं वायोर्बलेन बलवान्हि सः ॥१२-१५१-१४॥
मारुतो बलवान्नित्यं यथैनं नारदोऽब्रवीत्। अहं हि दुर्बलोऽन्येभ्यो वृक्षेभ्यो नात्र संशयः ॥१२-१५१-१५॥
किं तु बुद्ध्या समो नास्ति मम कश्चिद्वनस्पतिः। तदहं बुद्धिमास्थाय भयं मोक्ष्ये समीरणात् ॥१२-१५१-१६॥
यदि तां बुद्धिमास्थाय चरेयुः पर्णिनो वने। अरिष्टाः स्युः सदा क्रुद्धात्पवनान्नात्र संशयः ॥१२-१५१-१७॥
तेऽत्र बाला न जानन्ति यथा नैनान्समीरणः। समीरयेत सङ्क्रुद्धो यथा जानाम्यहं तथा ॥१२-१५१-१८॥
ततो निश्चित्य मनसा शल्मलिः क्षुभितस्तदा। शाखाः स्कन्धान्प्रशाखाश्च स्वयमेव व्यशातयत् ॥१२-१५१-१९॥
स परित्यज्य शाखाश्च पत्राणि कुसुमानि च। प्रभाते वायुमायान्तं प्रत्यैक्षत वनस्पतिः ॥१२-१५१-२०॥
ततः क्रुद्धः श्वसन्वायुः पातयन्वै महाद्रुमान्। आजगामाथ तं देशं स्थितो यत्र स शल्मलिः ॥१२-१५१-२१॥
तं हीनपर्णं पतिताग्रशाखं; विशीर्णपुष्पं प्रसमीक्ष्य वायुः। उवाच वाक्यं स्मयमान एनं; मुदा युतं शल्मलिं रुग्णशाखम् ॥१२-१५१-२२॥
अहमप्येवमेव त्वां कुर्वाणः शल्मले रुषा। आत्मना यत्कृतं कृत्स्नं शाखानामपकर्षणम् ॥१२-१५१-२३॥
हीनपुष्पाग्रशाखस्त्वं शीर्णाङ्कुरपलाशवान्। आत्मदुर्मन्त्रितेनेह मद्वीर्यवशगोऽभवः ॥१२-१५१-२४॥
एतच्छ्रुत्वा वचो वायोः शल्मलिर्व्रीडितस्तदा। अतप्यत वचः स्मृत्वा नारदो यत्तदाब्रवीत् ॥१२-१५१-२५॥
एवं यो राजशार्दूल दुर्बलः सन्बलीयसा। वैरमासज्जते बालस्तप्यते शल्मलिर्यथा ॥१२-१५१-२६॥
तस्माद्वैरं न कुर्वीत दुर्बलो बलवत्तरैः। शोचेद्धि वैरं कुर्वाणो यथा वै शल्मलिस्तथा ॥१२-१५१-२७॥
न हि वैरं महात्मानो विवृण्वन्त्यपकारिषु। शनैः शनैर्महाराज दर्शयन्ति स्म ते बलम् ॥१२-१५१-२८॥
वैरं न कुर्वीत नरो दुर्बुद्धिर्बुद्धिजीविना। बुद्धिर्बुद्धिमतो याति तूलेष्विव हुताशनः ॥१२-१५१-२९॥
न हि बुद्ध्या समं किञ्चिद्विद्यते पुरुषे नृप। तथा बलेन राजेन्द्र न समोऽस्तीति चिन्तयेत् ॥१२-१५१-३०॥
तस्मात्क्षमेत बालाय जडाय बधिराय च। बलाधिकाय राजेन्द्र तद्दृष्टं त्वयि शत्रुहन् ॥१२-१५१-३१॥
अक्षौहिण्यो दशैका च सप्त चैव महाद्युते। बलेन न समा राजन्नर्जुनस्य महात्मनः ॥१२-१५१-३२॥
हतास्ताश्चैव भग्नाश्च पाण्डवेन यशस्विना। चरता बलमास्थाय पाकशासनिना मृधे ॥१२-१५१-३३॥
उक्तास्ते राजधर्माश्च आपद्धर्माश्च भारत। विस्तरेण महाराज किं भूयः प्रब्रवीमि ते ॥१२-१५१-३४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.