Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.153
युधिष्ठिर उवाच॥
अनर्थानामधिष्ठानमुक्तो लोभः पितामह। अज्ञानमपि वै तात श्रोतुमिच्छामि तत्त्वतः ॥१२-१५३-१॥
भीष्म उवाच॥
करोति पापं योऽज्ञानान्नात्मनो वेत्ति च क्षमम्। प्रद्वेष्टि साधुवृत्तांश्च स लोकस्यैति वाच्यताम् ॥१२-१५३-२॥
अज्ञानान्निरयं याति तथाज्ञानेन दुर्गतिम्। अज्ञानात्क्लेशमाप्नोति तथापत्सु निमज्जति ॥१२-१५३-३॥
युधिष्ठिर उवाच॥
अज्ञानस्य प्रवृत्तिं च स्थानं वृद्धिं क्षयोदयौ। मूलं योगं गतिं कालं कारणं हेतुमेव च ॥१२-१५३-४॥
श्रोतुमिच्छामि तत्त्वेन यथावदिह पार्थिव। अज्ञानप्रभवं हीदं यद्दुःखमुपलभ्यते ॥१२-१५३-५॥
भीष्म उवाच॥
रागो द्वेषस्तथा मोहो हर्षः शोकोऽभिमानिता। कामः क्रोधश्च दर्पश्च तन्द्रीरालस्यमेव च ॥१२-१५३-६॥
इच्छा द्वेषस्तथा तापः परवृद्ध्युपतापिता। अज्ञानमेतन्निर्दिष्टं पापानां चैव याः क्रियाः ॥१२-१५३-७॥
एतया या प्रवृत्तिश्च वृद्ध्यादीन्यांश्च पृच्छसि। विस्तरेण महाबाहो शृणु तच्च विशां पते ॥१२-१५३-८॥
उभावेतौ समफलौ समदोषौ च भारत। अज्ञानं चातिलोभश्चाप्येकं जानीहि पार्थिव ॥१२-१५३-९॥
लोभप्रभवमज्ञानं वृद्धं भूयः प्रवर्धते। स्थाने स्थानं क्षये क्षैण्यमुपैति विविधां गतिम् ॥१२-१५३-१०॥
मूलं लोभस्य महतः कालात्मगतिरेव च। छिन्नेऽच्छिन्ने तथा लोभे कारणं काल एव हि ॥१२-१५३-११॥
तस्याज्ञानात्तु लोभो हि लोभादज्ञानमेव च। सर्वे दोषास्तथा लोभात्तस्माल्लोभं विवर्जयेत् ॥१२-१५३-१२॥
जनको युवनाश्वश्च वृषादर्भिः प्रसेनजित्। लोभक्षयाद्दिवं प्राप्तास्तथैवान्ये जनाधिपाः ॥१२-१५३-१३॥
प्रत्यक्षं तु कुरुश्रेष्ठ त्यज लोभमिहात्मना। त्यक्त्वा लोभं सुखं लोके प्रेत्य चानुचरिष्यसि ॥१२-१५३-१४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.