12.158
युधिष्ठिर उवाच॥
आनृशंस्यं विजानामि दर्शनेन सतां सदा। नृशंसान्न विजानामि तेषां कर्म च भारत ॥१२-१५८-१॥
कण्टकान्कूपमग्निं च वर्जयन्ति यथा नराः। तथा नृशंसकर्माणं वर्जयन्ति नरा नरम् ॥१२-१५८-२॥
नृशंसो ह्यधमो नित्यं प्रेत्य चेह च भारत। तस्माद्ब्रवीहि कौरव्य तस्य धर्मविनिश्चयम् ॥१२-१५८-३॥
भीष्म उवाच॥
स्पृहास्यान्तर्हिता चैव विदितार्था च कर्मणा। आक्रोष्टा क्रुश्यते चैव बन्धिता बध्यते च यः ॥१२-१५८-४॥
दत्तानुकीर्तिर्विषमः क्षुद्रो नैकृतिकः शठः। असम्भोगी च मानी च तथा सङ्गी विकत्थनः ॥१२-१५८-५॥
सर्वातिशङ्की परुषो बालिशः कृपणस्तथा। वर्गप्रशंसी सततमाश्रमद्वेषसङ्करी ॥१२-१५८-६॥
हिंसाविहारी सततमविशेषगुणागुणः। बह्वलीको मनस्वी च लुब्धोऽत्यर्थं नृशंसकृत् ॥१२-१५८-७॥
धर्मशीलं गुणोपेतं पाप इत्यवगच्छति। आत्मशीलानुमानेन न विश्वसिति कस्यचित् ॥१२-१५८-८॥
परेषां यत्र दोषः स्यात्तद्गुह्यं सम्प्रकाशयेत्। समानेष्वेव दोषेषु वृत्त्यर्थमुपघातयेत् ॥१२-१५८-९॥
तथोपकारिणं चैव मन्यते वञ्चितं परम्। दत्त्वापि च धनं काले सन्तपत्युपकारिणे ॥१२-१५८-१०॥
भक्ष्यं भोज्यमथो लेह्यं यच्चान्यत्साधु भोजनम्। प्रेक्षमाणेषु योऽश्नीयान्नृशंस इति तं विदुः ॥१२-१५८-११॥
ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाश्नुते। स प्रेत्य लभते स्वर्गमिह चानन्त्यमश्नुते ॥१२-१५८-१२॥
एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः। सदा विवर्जनीयो वै पुरुषेण बुभूषता ॥१२-१५८-१३॥