Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.159
भीष्म उवाच॥
कृतार्थो यक्ष्यमाणश्च सर्ववेदान्तगश्च यः। आचार्यपितृभार्यार्थं स्वाध्यायार्थमथापि वा ॥१२-१५९-१॥
एते वै साधवो दृष्टा ब्राह्मणा धर्मभिक्षवः। अस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः ॥१२-१५९-२॥
अन्यत्र दक्षिणा या तु देया भरतसत्तम। अन्येभ्यो हि बहिर्वेद्यां नाकृतान्नं विधीयते ॥१२-१५९-३॥
सर्वरत्नानि राजा च यथार्हं प्रतिपादयेत्। ब्राह्मणाश्चैव यज्ञाश्च सहान्नाः सहदक्षिणाः ॥१२-१५९-४॥
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये। अधिकं वापि विद्येत स सोमं पातुमर्हति ॥१२-१५९-५॥
यज्ञश्चेत्प्रतिविद्धः स्यादङ्गेनैकेन यज्वनः। ब्राह्मणस्य विशेषेण धार्मिके सति राजनि ॥१२-१५९-६॥
यो वैश्यः स्याद्बहुपशुर्हीनक्रतुरसोमपः। कुटुम्बात्तस्य तद्द्रव्यं यज्ञार्थं पार्थिवो हरेत् ॥१२-१५९-७॥
आहरेद्वेश्मतः किञ्चित्कामं शूद्रस्य द्रव्यतः। न हि वेश्मनि शूद्रस्य कश्चिदस्ति परिग्रहः ॥१२-१५९-८॥
योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः। तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् ॥१२-१५९-९॥
अदातृभ्यो हरेन्नित्यं व्याख्याप्य नृपतिः प्रभो। तथा ह्याचरतो धर्मो नृपतेः स्यादथाखिलः ॥१२-१५९-१०॥
तथैव सप्तमे भक्ते भक्तानि षडनश्नता। अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥ खलात्क्षेत्रात्तथागाराद्यतो वाप्युपपद्यते ॥१२-१५९-११॥
आख्यातव्यं नृपस्यैतत्पृच्छतोऽपृच्छतोऽपि वा। न तस्मै धारयेद्दण्डं राजा धर्मेण धर्मवित् ॥१२-१५९-१२॥
क्षत्रियस्य हि बालिश्याद्ब्राह्मणः क्लिश्यते क्षुधा। श्रुतशीले समाज्ञाय वृत्तिमस्य प्रकल्पयेत् ॥ अथैनं परिरक्षेत पिता पुत्रमिवौरसम् ॥१२-१५९-१३॥
इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये। अविकल्पः पुराधर्मो धर्मवादैस्तु केवलम् ॥१२-१५९-१४॥
विश्वैस्तु देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः। आपत्सु मरणाद्भीतैर्लिङ्गप्रतिनिधिः कृतः ॥१२-१५९-१५॥
प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते। न साम्परायिकं तस्य दुर्मतेर्विद्यते फलम् ॥१२-१५९-१६॥
न ब्राह्मणान्वेदयेत कश्चिद्राजनि मानवः। अवीर्यो वेदनाद्विद्यात्सुवीर्यो वीर्यवत्तरम् ॥१२-१५९-१७॥
तस्माद्राज्ञा सदा तेजो दुःसहं ब्रह्मवादिनाम्। मन्ता शास्ता विधाता च ब्राह्मणो देव उच्यते ॥ तस्मिन्नाकुशलं ब्रूयान्न शुक्तामीरयेद्गिरम् ॥१२-१५९-१८॥
क्षत्रियो बाहुवीर्येण तरत्यापदमात्मनः। धनेन वैश्यः शूद्रश्च मन्त्रैर्होमैश्च वै द्विजः ॥१२-१५९-१९॥
न वै कन्या न युवतिर्नामन्त्रो न च बालिशः। परिवेष्टाग्निहोत्रस्य भवेन्नासंस्कृतस्तथा ॥ नरके निपतन्त्येते जुह्वानाः स च यस्य तत् ॥१२-१५९-२०॥
प्राजापत्यमदत्त्वाश्वमग्न्याधेयस्य दक्षिणाम्। अनाहिताग्निरिति स प्रोच्यते धर्मदर्शिभिः ॥१२-१५९-२१॥
पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः। अनाप्तदक्षिणैर्यज्ञैर्न यजेत कथञ्चन ॥१२-१५९-२२॥
प्रजाः पशूंश्च स्वर्गं च हन्ति यज्ञो ह्यदक्षिणः। इन्द्रियाणि यशः कीर्तिमायुश्चास्योपकृन्तति ॥१२-१५९-२३॥
उदक्या ह्यासते ये च ये च केचिदनग्नयः। कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रधर्मिणः ॥१२-१५९-२४॥
उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः। उषित्वा द्वादश समाः शूद्रकर्मेह गच्छति ॥१२-१५९-२५॥
अनार्यां शयने बिभ्रदुज्झन्बिभ्रच्च यो द्विजाम्। अब्राह्मणो मन्यमानस्तृणेष्वासीत पृष्ठतः ॥ तथा स शुध्यते राजञ्शृणु चात्र वचो मम ॥१२-१५९-२६॥
यदेकरात्रेण करोति पापं; कृष्णं वर्णं ब्राह्मणः सेवमानः। स्थानासनाभ्यां विचरन्व्रती सं; स्त्रिभिर्वर्षैः शमयेदात्मपापम् ॥१२-१५९-२७॥
न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन्न विवाहकाले। न गुर्वर्थे नात्मनो जीवितार्थे; पञ्चानृतान्याहुरपातकानि ॥१२-१५९-२८॥
श्रद्दधानः शुभां विद्यां हीनादपि समाचरेत्। सुवर्णमपि चामेध्यादाददीतेति धारणा ॥१२-१५९-२९॥
स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत्। अदुष्टा हि स्त्रियो रत्नमाप इत्येव धर्मतः ॥१२-१५९-३०॥
गोब्राह्मणहितार्थं च वर्णानां सङ्करेषु च। गृह्णीयात्तु धनुर्वैश्यः परित्राणाय चात्मनः ॥१२-१५९-३१॥
सुरापानं ब्रह्महत्या गुरुतल्पमथापि वा। अनिर्देश्यानि मन्यन्ते प्राणान्तानीति धारणा ॥१२-१५९-३२॥
सुवर्णहरणं स्तैन्यं विप्रासङ्गश्च पातकम्। विहरन्मद्यपानं चाप्यगम्यागमनं तथा ॥१२-१५९-३३॥
पतितैः सम्प्रयोगाच्च ब्राह्मणैर्योनितस्तथा। अचिरेण महाराज तादृशो वै भवत्युत ॥१२-१५९-३४॥
संवत्सरेण पतति पतितेन सहाचरन्। याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥१२-१५९-३५॥
एतानि च ततोऽन्यानि निर्देश्यानीति धारणा। निर्देश्यकेन विधिना कालेनाव्यसनी भवेत् ॥१२-१५९-३६॥
अन्नं तिर्यङ्न होतव्यं प्रेतकर्मण्यपातिते। त्रिषु त्वेतेषु पूर्वेषु न कुर्वीत विचारणाम् ॥१२-१५९-३७॥
अमात्यान्वा गुरून्वापि जह्याद्धर्मेण धार्मिकः। प्रायश्चित्तमकुर्वाणैर्नैतैरर्हति संविदम् ॥१२-१५९-३८॥
अधर्मकारी धर्मेण तपसा हन्ति किल्बिषम्। ब्रुवन्स्तेन इति स्तेनं तावत्प्राप्नोति किल्बिषम् ॥ अस्तेनं स्तेन इत्युक्त्वा द्विगुणं पापमाप्नुयात् ॥१२-१५९-३९॥
त्रिभागं ब्रह्महत्यायाः कन्या प्राप्नोति दुष्यती। यस्तु दूषयिता तस्याः शेषं प्राप्नोति किल्बिषम् ॥१२-१५९-४०॥
ब्राह्मणायावगूर्येह स्पृष्ट्वा गुरुतरं भवेत्। वर्षाणां हि शतं पापः प्रतिष्ठां नाधिगच्छति ॥१२-१५९-४१॥
सहस्रं त्वेव वर्षाणां निपात्य नरके वसेत्। तस्मान्नैवावगूर्याद्धि नैव जातु निपातयेत् ॥१२-१५९-४२॥
शोणितं यावतः पांसून्सङ्गृह्णीयाद्द्विजक्षतात्। तावतीः स समा राजन्नरके परिवर्तते ॥१२-१५९-४३॥
भ्रूणहाहवमध्ये तु शुध्यते शस्त्रपातितः। आत्मानं जुहुयाद्वह्नौ समिद्धे तेन शुध्यति ॥१२-१५९-४४॥
सुरापो वारुणीमुष्णां पीत्वा पापाद्विमुच्यते। तया स काये निर्दग्धे मृत्युना प्रेत्य शुध्यति ॥ लोकांश्च लभते विप्रो नान्यथा लभते हि सः ॥१२-१५९-४५॥
गुरुतल्पमधिष्ठाय दुरात्मा पापचेतनः। सूर्मीं ज्वलन्तीमाश्लिष्य मृत्युना स विशुध्यति ॥१२-१५९-४६॥
अथ वा शिश्नवृषणावादायाञ्जलिना स्वयम्। नैरृतीं दिशमास्थाय निपतेत्स त्वजिह्मगः ॥१२-१५९-४७॥
ब्राह्मणार्थेऽपि वा प्राणान्सन्त्यजेत्तेन शुध्यति। अश्वमेधेन वापीष्ट्वा गोमेधेनापि वा पुनः ॥ अग्निष्टोमेन वा सम्यगिह प्रेत्य च पूयते ॥१२-१५९-४८॥
तथैव द्वादश समाः कपाली ब्रह्महा भवेत्। ब्रह्मचारी चरेद्भैक्षं स्वकर्मोदाहरन्मुनिः ॥१२-१५९-४९॥
एवं वा तपसा युक्तो ब्रह्महा सवनी भवेत्। एवं वा गर्भमज्ञाता चात्रेयीं योऽभिगच्छति ॥ द्विगुणा ब्रह्महत्या वै आत्रेयीव्यसने भवेत् ॥१२-१५९-५०॥
सुरापो नियताहारो ब्रह्मचारी क्षमाचरः। ऊर्ध्वं त्रिभ्योऽथ वर्षेभ्यो यजेताग्निष्टुता परम् ॥ ऋषभैकसहस्रं गा दत्त्वा शुभमवाप्नुयात् ॥१२-१५९-५१॥
वैश्यं हत्वा तु वर्षे द्वे ऋषभैकशताश्च गाः। शूद्रं हत्वाब्दमेवैकमृषभैकादशाश्च गाः ॥१२-१५९-५२॥
श्वबर्बरखरान्हत्वा शौद्रमेव व्रतं चरेत्। मार्जारचाषमण्डूकान्काकं भासं च मूषकम् ॥१२-१५९-५३॥
उक्तः पशुसमो धर्मो राजन्प्राणिनिपातनात्। प्रायश्चित्तान्यथान्यानि प्रवक्ष्याम्यनुपूर्वशः ॥१२-१५९-५४॥
तल्पे चान्यस्य चौर्ये च पृथक्संवत्सरं चरेत्। त्रीणि श्रोत्रियभार्यायां परदारे तु द्वे स्मृते ॥१२-१५९-५५॥
काले चतुर्थे भुञ्जानो ब्रह्मचारी व्रती भवेत्। स्थानासनाभ्यां विहरेत्त्रिरह्नोऽभ्युदितादपः ॥ एवमेव निराचान्तो यश्चाग्नीनपविध्यति ॥१२-१५९-५६॥
त्यजत्यकारणे यश्च पितरं मातरं तथा। पतितः स्यात्स कौरव्य तथा धर्मेषु निश्चयः ॥१२-१५९-५७॥
ग्रासाच्छादनमत्यर्थं दद्यादिति निदर्शनम्। भार्यायां व्यभिचारिण्यां निरुद्धायां विशेषतः ॥ यत्पुंसां परदारेषु तच्चैनां चारयेद्व्रतम् ॥१२-१५९-५८॥
श्रेयांसं शयने हित्वा या पापीयांसमृच्छति। श्वभिस्तां खादयेद्राजा संस्थाने बहुसंवृते ॥१२-१५९-५९॥
पुमांसं बन्धयेत्प्राज्ञः शयने तप्त आयसे। अप्यादधीत दारूणि तत्र दह्येत पापकृत् ॥१२-१५९-६०॥
एष दण्डो महाराज स्त्रीणां भर्तृव्यतिक्रमे। संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो भवेत् ॥१२-१५९-६१॥
द्वे तस्य त्रीणि वर्षाणि चत्वारि सहसेविनः। कुचरः पञ्च वर्षाणि चरेद्भैक्षं मुनिव्रतः ॥१२-१५९-६२॥
परिवित्तिः परिवेत्ता यया च परिविद्यते। पाणिग्राहश्च धर्मेण सर्वे ते पतिताः स्मृताः ॥१२-१५९-६३॥
चरेयुः सर्व एवैते वीरहा यद्व्रतं चरेत्। चान्द्रायणं चरेन्मासं कृच्छ्रं वा पापशुद्धये ॥१२-१५९-६४॥
परिवेत्ता प्रयच्छेत परिवित्ताय तां स्नुषाम्। ज्येष्ठेन त्वभ्यनुज्ञातो यवीयान्प्रत्यनन्तरम् ॥ एनसो मोक्षमाप्नोति सा च तौ चैव धर्मतः ॥१२-१५९-६५॥
अमानुषीषु गोवर्जमनावृष्टिर्न दुष्यति। अधिष्ठातारमत्तारं पशूनां पुरुषं विदुः ॥१२-१५९-६६॥
परिधायोर्ध्ववालं तु पात्रमादाय मृन्मयम्। चरेत्सप्त गृहान्भैक्षं स्वकर्म परिकीर्तयन् ॥१२-१५९-६७॥
तत्रैव लब्धभोजी स्याद्द्वादशाहात्स शुध्यति। चरेत्संवत्सरं चापि तद्व्रतं यन्निराकृति ॥१२-१५९-६८॥
भवेत्तु मानुषेष्वेवं प्रायश्चित्तमनुत्तमम्। दानं वादानसक्तेषु सर्वमेव प्रकल्पयेत् ॥ अनास्तिकेषु गोमात्रं प्राणमेकं प्रचक्षते ॥१२-१५९-६९॥
श्ववराहमनुष्याणां कुक्कुटस्य खरस्य च। मांसं मूत्रपुरीषं च प्राश्य संस्कारमर्हति ॥१२-१५९-७०॥
ब्राह्मणस्य सुरापस्य गन्धमाघ्राय सोमपः। अपस्त्र्यहं पिबेदुष्णास्त्र्यहमुष्णं पयः पिबेत् ॥ त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहम् ॥१२-१५९-७१॥
एवमेतत्समुद्दिष्टं प्रायश्चित्तं सनातनम्। ब्राह्मणस्य विशेषेण तत्त्वज्ञानेन जायते ॥१२-१५९-७२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.