Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.157
युधिष्ठिर उवाच॥
यतः प्रभवति क्रोधः कामश्च भरतर्षभ। शोकमोहौ विवित्सा च परासुत्वं तथा मदः ॥१२-१५७-१॥
लोभो मात्सर्यमीर्ष्या च कुत्सासूया कृपा तथा। एतत्सर्वं महाप्राज्ञ याथातथ्येन मे वद ॥१२-१५७-२॥
भीष्म उवाच॥
त्रयोदशैतेऽतिबलाः शत्रवः प्राणिनां स्मृताः। उपासते महाराज समस्ताः पुरुषानिह ॥१२-१५७-३॥
एते प्रमत्तं पुरुषमप्रमत्ता नुदन्ति हि। वृका इव विलुम्पन्ति दृष्ट्वैव पुरुषेतरान् ॥१२-१५७-४॥
एभ्यः प्रवर्तते दुःखमेभ्यः पापं प्रवर्तते। इति मर्त्यो विजानीयात्सततं भरतर्षभ ॥१२-१५७-५॥
एतेषामुदयं स्थानं क्षयं च पुरुषोत्तम। हन्त ते वर्तयिष्यामि तन्मे निगदतः शृणु ॥१२-१५७-६॥
लोभात्क्रोधः प्रभवति परदोषैरुदीर्यते। क्षमया तिष्ठते राजञ्श्रीमांश्च विनिवर्तते ॥१२-१५७-७॥
सङ्कल्पाज्जायते कामः सेव्यमानो विवर्धते। अवद्यदर्शनाद्व्येति तत्त्वज्ञानाच्च धीमताम् ॥१२-१५७-८॥
विरुद्धानि हि शास्त्राणि पश्यन्तीहाल्पबुद्धयः। विवित्सा जायते तत्र तत्त्वज्ञानान्निवर्तते ॥१२-१५७-९॥
प्रीतेः शोकः प्रभवति वियोगात्तस्य देहिनः। यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति ॥१२-१५७-१०॥
परासुता क्रोधलोभादभ्यासाच्च प्रवर्तते। दयया सर्वभूतानां निर्वेदात्सा निवर्तते ॥१२-१५७-११॥
सत्त्वत्यागात्तु मात्सर्यमहितानि च सेवते। एतत्तु क्षीयते तात साधूनामुपसेवनात् ॥१२-१५७-१२॥
कुलाज्ज्ञानात्तथैश्वर्यान्मदो भवति देहिनाम्। एभिरेव तु विज्ञातैर्मदः सद्यः प्रणश्यति ॥१२-१५७-१३॥
ईर्ष्या कामात्प्रभवति सङ्घर्षाच्चैव भारत। इतरेषां तु मर्त्यानां प्रज्ञया सा प्रणश्यति ॥१२-१५७-१४॥
विभ्रमाल्लोकबाह्यानां द्वेष्यैर्वाक्यैरसङ्गतैः। कुत्सा सञ्जायते राजन्नुपेक्षाभिः प्रशाम्यति ॥१२-१५७-१५॥
प्रतिकर्तुमशक्याय बलस्थायापकारिणे। असूया जायते तीव्रा कारुण्याद्विनिवर्तते ॥१२-१५७-१६॥
कृपणान्सततं दृष्ट्वा ततः सञ्जायते कृपा। धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा ॥१२-१५७-१७॥
एतान्येव जितान्याहुः प्रशमाच्च त्रयोदश। एते हि धार्तराष्ट्राणां सर्वे दोषास्त्रयोदश ॥ त्वया सर्वात्मना नित्यं विजिता जेष्यसे च तान् ॥१२-१५७-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.