Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.168
युधिष्ठिर उवाच॥
धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः। धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हसि पार्थिव ॥१२-१६८-१॥
भीष्म उवाच॥
सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलं तपः। बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया ॥१२-१६८-२॥
यस्मिन्यस्मिंस्तु विनये यो यो याति विनिश्चयम्। स तमेवाभिजानाति नान्यं भरतसत्तम ॥१२-१६८-३॥
यथा यथा च पर्येति लोकतन्त्रमसारवत्। तथा तथा विरागोऽत्र जायते नात्र संशयः ॥१२-१६८-४॥
एवं व्यवसिते लोके बहुदोषे युधिष्ठिर। आत्ममोक्षनिमित्तं वै यतेत मतिमान्नरः ॥१२-१६८-५॥
युधिष्ठिर उवाच॥
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते। यया बुद्ध्या नुदेच्छोकं तन्मे ब्रूहि पितामह ॥१२-१६८-६॥
भीष्म उवाच॥
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते। अहो दुःखमिति ध्यायञ्शोकस्यापचितिं चरेत् ॥१२-१६८-७॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। यथा सेनजितं विप्रः कश्चिदित्यब्रवीद्वचः ॥१२-१६८-८॥
पुत्रशोकाभिसन्तप्तं राजानं शोकविह्वलम्। विषण्णवदनं दृष्ट्वा विप्रो वचनमब्रवीत् ॥१२-१६८-९॥
किं नु खल्वसि मूढस्त्वं शोच्यः किमनुशोचसि। यदा त्वामपि शोचन्तः शोच्या यास्यन्ति तां गतिम् ॥१२-१६८-१०॥
त्वं चैवाहं च ये चान्ये त्वां राजन्पर्युपासते। सर्वे तत्र गमिष्यामो यत एवागता वयम् ॥१२-१६८-११॥
सेनजिदुवाच॥
का बुद्धिः किं तपो विप्र कः समाधिस्तपोधन। किं ज्ञानं किं श्रुतं वा ते यत्प्राप्य न विषीदसि ॥१२-१६८-१२॥
ब्राह्मण उवाच॥
पश्य भूतानि दुःखेन व्यतिषक्तानि सर्वशः। आत्मापि चायं न मम सर्वा वा पृथिवी मम ॥१२-१६८-१३॥
यथा मम तथान्येषामिति बुद्ध्या न मे व्यथा। एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे ॥१२-१६८-१४॥
यथा काष्ठं च काष्ठं च समेयातां महोदधौ। समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥१२-१६८-१५॥
एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा। तेषु स्नेहो न कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ॥१२-१६८-१६॥
अदर्शनादापतितः पुनश्चादर्शनं गतः। न त्वासौ वेद न त्वं तं कः सन्कमनुशोचसि ॥१२-१६८-१७॥
तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम्। सुखात्सञ्जायते दुःखमेवमेतत्पुनः पुनः ॥ सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ॥१२-१६८-१८॥
सुखात्त्वं दुःखमापन्नः पुनरापत्स्यसे सुखम्। न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥१२-१६८-१९॥
नालं सुखाय सुहृदो नालं दुःखाय शत्रवः। न च प्रज्ञालमर्थानां न सुखानामलं धनम् ॥१२-१६८-२०॥
न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये। लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ॥१२-१६८-२१॥
बुद्धिमन्तं च मूढं च शूरं भीरुं जडं कविम्। दुर्बलं बलवन्तं च भागिनं भजते सुखम् ॥१२-१६८-२२॥
धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च। पयः पिबति यस्तस्या धेनुस्तस्येति निश्चयः ॥१२-१६८-२३॥
ये च मूढतमा लोके ये च बुद्धेः परं गताः। ते नराः सुखमेधन्ते क्लिश्यत्यन्तरितो जनः ॥१२-१६८-२४॥
अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे। अन्त्यप्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः ॥१२-१६८-२५॥
ये तु बुद्धिसुखं प्राप्ता द्वंद्वातीता विमत्सराः। तान्नैवार्था न चानर्था व्यथयन्ति कदाचन ॥१२-१६८-२६॥
अथ ये बुद्धिमप्राप्ता व्यतिक्रान्ताश्च मूढताम्। तेऽतिवेलं प्रहृष्यन्ति सन्तापमुपयान्ति च ॥१२-१६८-२७॥
नित्यप्रमुदिता मूढा दिवि देवगणा इव। अवलेपेन महता परिदृब्धा विचेतसः ॥१२-१६८-२८॥
सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम्। भूतिश्चैव श्रिया सार्धं दक्षे वसति नालसे ॥१२-१६८-२९॥
सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम्। प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ॥१२-१६८-३०॥
शोकस्थानसहस्राणि हर्षस्थानशतानि च। दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥१२-१६८-३१॥
बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुमनसूयकम्। दान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम् ॥१२-१६८-३२॥
एतां बुद्धिं समास्थाय गुप्तचित्तश्चरेद्बुधः। उदयास्तमयज्ञं हि न शोकः स्प्रष्टुमर्हति ॥१२-१६८-३३॥
यन्निमित्तं भवेच्छोकस्त्रासो वा दुःखमेव वा। आयासो वा यतोमूलस्तदेकाङ्गमपि त्यजेत् ॥१२-१६८-३४॥
यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते। कामानुसारी पुरुषः कामाननु विनश्यति ॥१२-१६८-३५॥
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्। तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥१२-१६८-३६॥
पूर्वदेहकृतं कर्म शुभं वा यदि वाशुभम्। प्राज्ञं मूढं तथा शूरं भजते यादृशं कृतम् ॥१२-१६८-३७॥
एवमेव किलैतानि प्रियाण्येवाप्रियाणि च। जीवेषु परिवर्तन्ते दुःखानि च सुखानि च ॥१२-१६८-३८॥
तदेवं बुद्धिमास्थाय सुखं जीवेद्गुणान्वितः। सर्वान्कामाञ्जुगुप्सेत सङ्गान्कुर्वीत पृष्ठतः ॥ वृत्त एष हृदि प्रौढो मृत्युरेष मनोमयः ॥१२-१६८-३९॥
यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः। तदात्मज्योतिरात्मा च आत्मन्येव प्रसीदति ॥१२-१६८-४०॥
किञ्चिदेव ममत्वेन यदा भवति कल्पितम्। तदेव परितापार्थं सर्वं सम्पद्यते तदा ॥१२-१६८-४१॥
न बिभेति यदा चायं यदा चास्मान्न बिभ्यति। यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥१२-१६८-४२॥
उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये। प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यसि ॥१२-१६८-४३॥
यदा न कुरुते धीरः सर्वभूतेषु पापकम्। कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥१२-१६८-४४॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः। योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥१२-१६८-४५॥
अत्र पिङ्गलया गीता गाथाः श्रूयन्ति पार्थिव। यथा सा कृच्छ्रकालेऽपि लेभे धर्मं सनातनम् ॥१२-१६८-४६॥
सङ्केते पिङ्गला वेश्या कान्तेनासीद्विनाकृता। अथ कृच्छ्रगता शान्तां बुद्धिमास्थापयत्तदा ॥१२-१६८-४७॥
पिङ्गलोवाच॥
उन्मत्ताहमनुन्मत्तं कान्तमन्ववसं चिरम्। अन्तिके रमणं सन्तं नैनमध्यगमं पुरा ॥१२-१६८-४८॥
एकस्थूणं नवद्वारमपिधास्याम्यगारकम्। का हि कान्तमिहायान्तमयं कान्तेति मंस्यते ॥१२-१६८-४९॥
अकामाः कामरूपेण धूर्ता नरकरूपिणः। न पुनर्वञ्चयिष्यन्ति प्रतिबुद्धास्मि जागृमि ॥१२-१६८-५०॥
अनर्थोऽपि भवत्यर्थो दैवात्पूर्वकृतेन वा। सम्बुद्धाहं निराकारा नाहमद्याजितेन्द्रिया ॥१२-१६८-५१॥
सुखं निराशः स्वपिति नैराश्यं परमं सुखम्। आशामनाशां कृत्वा हि सुखं स्वपिति पिङ्गला ॥१२-१६८-५२॥
भीष्म उवाच॥
एतैश्चान्यैश्च विप्रस्य हेतुमद्भिः प्रभाषितैः। पर्यवस्थापितो राजा सेनजिन्मुमुदे सुखम् ॥१२-१६८-५३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.