Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.169
युधिष्ठिर उवाच॥
अतिक्रामति कालेऽस्मिन्सर्वभूतक्षयावहे। किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह ॥१२-१६९-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। पितुः पुत्रेण संवादं तन्निबोध युधिष्ठिर ॥१२-१६९-२॥
द्विजातेः कस्यचित्पार्थ स्वाध्यायनिरतस्य वै। बभूव पुत्रो मेधावी मेधावी नाम नामतः ॥१२-१६९-३॥
सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम्। मोक्षधर्मार्थकुशलो लोकतत्त्वविचक्षणः ॥१२-१६९-४॥
धीरः किं स्वित्तात कुर्यात्प्रजान; न्क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम्। पितस्तदाचक्ष्व यथार्थयोगं; ममानुपूर्व्या येन धर्मं चरेयम् ॥१२-१६९-५॥
पितोवाच॥
वेदानधीत्य ब्रह्मचर्येण पुत्र; पुत्रानिच्छेत्पावनार्थं पितॄणाम्। अग्नीनाधाय विधिवच्चेष्टयज्ञो; वनं प्रविश्याथ मुनिर्बुभूषेत् ॥१२-१६९-६॥
पुत्र उवाच॥
एवमभ्याहते लोके समन्तात्परिवारिते। अमोघासु पतन्तीषु किं धीर इव भाषसे ॥१२-१६९-७॥
पितोवाच॥
कथमभ्याहतो लोकः केन वा परिवारितः। अमोघाः काः पतन्तीह किं नु भीषयसीव माम् ॥१२-१६९-८॥
पुत्र उवाच॥
मृत्युनाभ्याहतो लोको जरया परिवारितः। अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे ॥१२-१६९-९॥
यदाहमेतज्जानामि न मृत्युस्तिष्ठतीति ह। सोऽहं कथं प्रतीक्षिष्ये जालेनापिहितश्चरन् ॥१२-१६९-१०॥
रात्र्यां रात्र्यां व्यतीतायामायुरल्पतरं यदा। गाधोदके मत्स्य इव सुखं विन्देत कस्तदा ॥ तदेव वन्ध्यं दिवसमिति विद्याद्विचक्षणः ॥१२-१६९-११॥
अनवाप्तेषु कामेषु मृत्युरभ्येति मानवम्। शष्पाणीव विचिन्वन्तमन्यत्रगतमानसम् ॥ वृकीवोरणमासाद्य मृत्युरादाय गच्छति ॥१२-१६९-१२॥
अद्यैव कुरु यच्छ्रेयो मा त्वा कालोऽत्यगादयम्। अकृतेष्वेव कार्येषु मृत्युर्वै सम्प्रकर्षति ॥१२-१६९-१३॥
श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्। न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम् ॥ को हि जानाति कस्याद्य मृत्युसेना निवेक्ष्यते ॥१२-१६९-१४॥
युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम्। कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम् ॥१२-१६९-१५॥
मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः। कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रयच्छति ॥१२-१६९-१६॥
तं पुत्रपशुसंमत्तं व्यासक्तमनसं नरम्। सुप्तं व्याघ्रं महौघो वा मृत्युरादाय गच्छति ॥१२-१६९-१७॥
सञ्चिन्वानकमेवैकं कामानामवितृप्तकम्। व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति ॥१२-१६९-१८॥
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम्। एवमीहासुखासक्तं कृतान्तः कुरुते वशे ॥१२-१६९-१९॥
कृतानां फलमप्राप्तं कर्मणां फलसङ्गिनम्। क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति ॥१२-१६९-२०॥
मृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम्। अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि ॥१२-१६९-२१॥
जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम्। अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः ॥१२-१६९-२२॥
मृत्योर्वा गृहमेवैतद्या ग्रामे वसतो रतिः। देवानामेष वै गोष्ठो यदरण्यमिति श्रुतिः ॥१२-१६९-२३॥
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः। छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥१२-१६९-२४॥
न हिंसयति यः प्राणान्मनोवाक्कायहेतुभिः। जीवितार्थापनयनैः कर्मभिर्न स बध्यते ॥१२-१६९-२५॥
न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते। ऋते सत्यमसन्त्याज्यं सत्ये ह्यमृतमाश्रितम् ॥१२-१६९-२६॥
तस्मात्सत्यव्रताचारः सत्ययोगपरायणः। सत्यारामः समो दान्तः सत्येनैवान्तकं जयेत् ॥१२-१६९-२७॥
अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम्। मृत्युमापद्यते मोहात्सत्येनापद्यतेऽमृतम् ॥१२-१६९-२८॥
सोऽहं ह्यहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः। समदुःखसुखः क्षेमी मृत्युं हास्याम्यमर्त्यवत् ॥१२-१६९-२९॥
शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः। वाङ्मनःकर्मयज्ञश्च भविष्याम्युदगायने ॥१२-१६९-३०॥
पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति। अन्तवद्भिरुत प्राज्ञः क्षत्रयज्ञैः पिशाचवत् ॥१२-१६९-३१॥
यस्य वाङ्मनसी स्यातां सम्यक्प्रणिहिते सदा। तपस्त्यागश्च योगश्च स वै सर्वमवाप्नुयात् ॥१२-१६९-३२॥
नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं बलम्। नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥१२-१६९-३३॥
आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोऽपि वा। आत्मन्येव भविष्यामि न मां तारयति प्रजा ॥१२-१६९-३४॥
नैतादृशं ब्राह्मणस्यास्ति वित्तं; यथैकता समता सत्यता च। शीले स्थितिर्दण्डनिधानमार्जवं; ततस्ततश्चोपरमः क्रियाभ्यः ॥१२-१६९-३५॥
किं ते धनैर्बान्धवैर्वापि किं ते; किं ते दारैर्ब्राह्मण यो मरिष्यसि। आत्मानमन्विच्छ गुहां प्रविष्टं; पितामहस्ते क्व गतः पिता च ॥१२-१६९-३६॥
भीष्म उवाच॥
पुत्रस्यैतद्वचः श्रुत्वा तथाकार्षीत्पिता नृप। तथा त्वमपि वर्तस्व सत्यधर्मपरायणः ॥१२-१६९-३७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.