12.167
भीष्म उवाच॥
ततश्चितां बकपतेः कारयामास राक्षसः। रत्नैर्गन्धैश्च बहुभिर्वस्त्रैश्च समलङ्कृताम् ॥१२-१६७-१॥
तत्र प्रज्वाल्य नृपते बकराजं प्रतापवान्। प्रेतकार्याणि विधिवद्राक्षसेन्द्रश्चकार ह ॥१२-१६७-२॥
तस्मिन्कालेऽथ सुरभिर्देवी दाक्षायणी शुभा। उपरिष्टात्ततस्तस्य सा बभूव पयस्विनी ॥१२-१६७-३॥
तस्या वक्त्राच्च्युतः फेनः क्षीरमिश्रस्तदानघ। सोऽपतद्वै ततस्तस्यां चितायां राजधर्मणः ॥१२-१६७-४॥
ततः सञ्जीवितस्तेन बकराजस्तदानघ। उत्पत्य च समेयाय विरूपाक्षं बकाधिपः ॥१२-१६७-५॥
ततोऽभ्ययाद्देवराजो विरूपाक्षपुरं तदा। प्राह चेदं विरूपाक्षं दिष्ट्यायं जीवतीत्युत ॥१२-१६७-६॥
श्रावयामास चेन्द्रस्तं विरूपाक्षं पुरातनम्। यथा शापः पुरा दत्तो ब्रह्मणा राजधर्मणः ॥१२-१६७-७॥
यदा बकपती राजन्ब्रह्माणं नोपसर्पति। ततो रोषादिदं प्राह बकेन्द्राय पितामहः ॥१२-१६७-८॥
यस्मान्मूढो मम सदो नागतोऽसौ बकाधमः। तस्माद्वधं स दुष्टात्मा नचिरात्समवाप्स्यति ॥१२-१६७-९॥
तदायं तस्य वचनान्निहतो गौतमेन वै। तेनैवामृतसिक्तश्च पुनः सञ्जीवितो बकः ॥१२-१६७-१०॥
राजधर्मा ततः प्राह प्रणिपत्य पुरंदरम्। यदि तेऽनुग्रहकृता मयि बुद्धिः पुरंदर ॥ सखायं मे सुदयितं गौतमं जीवयेत्युत ॥१२-१६७-११॥
तस्य वाक्यं समाज्ञाय वासवः पुरुषर्षभ। सञ्जीवयित्वा सख्ये वै प्रादात्तं गौतमं तदा ॥१२-१६७-१२॥
सभाण्डोपस्करं राजंस्तमासाद्य बकाधिपः। सम्परिष्वज्य सुहृदं प्रीत्या परमया युतः ॥१२-१६७-१३॥
अथ तं पापकर्माणं राजधर्मा बकाधिपः। विसर्जयित्वा सधनं प्रविवेश स्वमालयम् ॥१२-१६७-१४॥
यथोचितं च स बको ययौ ब्रह्मसदस्तदा। ब्रह्मा च तं महात्मानमातिथ्येनाभ्यपूजयत् ॥१२-१६७-१५॥
गौतमश्चापि सम्प्राप्य पुनस्तं शबरालयम्। शूद्रायां जनयामास पुत्रान्दुष्कृतकारिणः ॥१२-१६७-१६॥
शापश्च सुमहांस्तस्य दत्तः सुरगणैस्तदा। कुक्षौ पुनर्भ्वां भार्यायां जनयित्वा चिरात्सुतान् ॥ निरयं प्राप्स्यति महत्कृतघ्नोऽयमिति प्रभो ॥१२-१६७-१७॥
एतत्प्राह पुरा सर्वं नारदो मम भारत। संस्मृत्य चापि सुमहदाख्यानं पुरुषर्षभ ॥ मयापि भवते सर्वं यथावदुपवर्णितम् ॥१२-१६७-१८॥
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम्। अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ॥१२-१६७-१९॥
मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः। मित्रध्रुङ्निरयं घोरमनन्तं प्रतिपद्यते ॥१२-१६७-२०॥
कृतज्ञेन सदा भाव्यं मित्रकामेन चानघ। मित्रात्प्रभवते सत्यं मित्रात्प्रभवते बलम् ॥ सत्कारैरुत्तमैर्मित्रं पूजयेत विचक्षणः ॥१२-१६७-२१॥
परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः। मित्रद्रोही कुलाङ्गारः पापकर्मा नराधमः ॥१२-१६७-२२॥
एष धर्मभृतां श्रेष्ठ प्रोक्तः पापो मया तव। मित्रद्रोही कृतघ्नो वै किं भूयः श्रोतुमिच्छसि ॥१२-१६७-२३॥
वैशम्पायन उवाच॥
एतच्छ्रुत्वा तदा वाक्यं भीष्मेणोक्तं महात्मना। युधिष्ठिरः प्रीतमना बभूव जनमेजय ॥१२-१६७-२४॥