12.172
युधिष्ठिर उवाच॥
केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम्। किं च कुर्वन्नरो लोके प्राप्नोति परमां गतिम् ॥१२-१७२-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। प्रह्रादस्य च संवादं मुनेराजगरस्य च ॥१२-१७२-२॥
चरन्तं ब्राह्मणं कञ्चित्कल्यचित्तमनामयम्। पप्रच्छ राजन्प्रह्रादो बुद्धिमान्प्राज्ञसंमतः ॥१२-१७२-३॥
स्वस्थः शक्तो मृदुर्दान्तो निर्विवित्सोऽनसूयकः। सुवाग्बहुमतो लोके प्राज्ञश्चरसि बालवत् ॥१२-१७२-४॥
नैव प्रार्थयसे लाभं नालाभेष्वनुशोचसि। नित्यतृप्त इव ब्रह्मन्न किञ्चिदवमन्यसे ॥१२-१७२-५॥
स्रोतसा ह्रियमाणासु प्रजास्वविमना इव। धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे ॥१२-१७२-६॥
नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे। इन्द्रियार्थाननादृत्य मुक्तश्चरसि साक्षिवत् ॥१२-१७२-७॥
का नु प्रज्ञा श्रुतं वा किं वृत्तिर्वा का नु ते मुने। क्षिप्रमाचक्ष्व मे ब्रह्मञ्श्रेयो यदिह मन्यसे ॥१२-१७२-८॥
अनुयुक्तः स मेधावी लोकधर्मविधानवित्। उवाच श्लक्ष्णया वाचा प्रह्रादमनपार्थया ॥१२-१७२-९॥
पश्यन्प्रह्राद भूतानामुत्पत्तिमनिमित्ततः। ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे ॥१२-१७२-१०॥
स्वभावादेव संदृश्य वर्तमानाः प्रवृत्तयः। स्वभावनिरताः सर्वाः परितप्ये न केनचित् ॥१२-१७२-११॥
पश्यन्प्रह्राद संयोगान्विप्रयोगपरायणान्। सञ्चयांश्च विनाशान्तान्न क्वचिद्विदधे मनः ॥१२-१७२-१२॥
अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः। उत्पत्तिनिधनज्ञस्य किं कार्यमवशिष्यते ॥१२-१७२-१३॥
जलजानामपि ह्यन्तं पर्यायेणोपलक्षये। महतामपि कायानां सूक्ष्माणां च महोदधौ ॥१२-१७२-१४॥
जङ्गमस्थावराणां च भूतानामसुराधिप। पार्थिवानामपि व्यक्तं मृत्युं पश्यामि सर्वशः ॥१२-१७२-१५॥
अन्तरिक्षचराणां च दानवोत्तम पक्षिणाम्। उत्तिष्ठति यथाकालं मृत्युर्बलवतामपि ॥१२-१७२-१६॥
दिवि सञ्चरमाणानि ह्रस्वानि च महान्ति च। ज्योतींषि च यथाकालं पतमानानि लक्षये ॥१२-१७२-१७॥
इति भूतानि सम्पश्यन्ननुषक्तानि मृत्युना। सर्वसामान्यतो विद्वान्कृतकृत्यः सुखं स्वपे ॥१२-१७२-१८॥
सुमहान्तमपि ग्रासं ग्रसे लब्धं यदृच्छया। शये पुनरभुञ्जानो दिवसानि बहून्यपि ॥१२-१७२-१९॥
आस्रवत्यपि मामन्नं पुनर्बहुगुणं बहु। पुनरल्पगुणं स्तोकं पुनर्नैवोपपद्यते ॥१२-१७२-२०॥
कणान्कदाचित्खादामि पिण्याकमपि च ग्रसे। भक्षये शालिमांसानि भक्षांश्चोच्चावचान्पुनः ॥१२-१७२-२१॥
शये कदाचित्पर्यङ्के भूमावपि पुनः शये। प्रासादेऽपि च मे शय्या कदाचिदुपपद्यते ॥१२-१७२-२२॥
धारयामि च चीराणि शाणीं क्षौमाजिनानि च। महार्हाणि च वासांसि धारयाम्यहमेकदा ॥१२-१७२-२३॥
न संनिपतितं धर्म्यमुपभोगं यदृच्छया। प्रत्याचक्षे न चाप्येनमनुरुध्ये सुदुर्लभम् ॥१२-१७२-२४॥
अचलमनिधनं शिवं विशोकं; शुचिमतुलं विदुषां मते निविष्टम्। अनभिमतमसेवितं च मूढै; र्व्रतमिदमाजगरं शुचिश्चरामि ॥१२-१७२-२५॥
अचलितमतिरच्युतः स्वधर्मा; त्परिमितसंसरणः परावरज्ञः। विगतभयकषायलोभमोहो; व्रतमिदमाजगरं शुचिश्चरामि ॥१२-१७२-२६॥
अनियतफलभक्ष्यभोज्यपेयं; विधिपरिणामविभक्तदेशकालम्। हृदयसुखमसेवितं कदर्यै; र्व्रतमिदमाजगरं शुचिश्चरामि ॥१२-१७२-२७॥
इदमिदमिति तृष्णयाभिभूतं; जनमनवाप्तधनं विषीदमानम्। निपुणमनुनिशाम्य तत्त्वबुद्ध्या; व्रतमिदमाजगरं शुचिश्चरामि ॥१२-१७२-२८॥
बहुविधमनुदृश्य चार्थहेतोः; कृपणमिहार्यमनार्यमाश्रयन्तम्। उपशमरुचिरात्मवान्प्रशान्तो; व्रतमिदमाजगरं शुचिश्चरामि ॥१२-१७२-२९॥
सुखमसुखमनर्थमर्थलाभं; रतिमरतिं मरणं च जीवितं च। विधिनियतमवेक्ष्य तत्त्वतोऽहं; व्रतमिदमाजगरं शुचिश्चरामि ॥१२-१७२-३०॥
अपगतभयरागमोहदर्पो; धृतिमतिबुद्धिसमन्वितः प्रशान्तः। उपगतफलभोगिनो निशाम्य; व्रतमिदमाजगरं शुचिश्चरामि ॥१२-१७२-३१॥
अनियतशयनासनः प्रकृत्या; दमनियमव्रतसत्यशौचयुक्तः। अपगतफलसञ्चयः प्रहृष्टो; व्रतमिदमाजगरं शुचिश्चरामि ॥१२-१७२-३२॥
अभिगतमसुखार्थमीहनार्थै; रुपगतबुद्धिरवेक्ष्य चात्मसंस्थः। तृषितमनियतं मनो नियन्तुं; व्रतमिदमाजगरं शुचिश्चरामि ॥१२-१७२-३३॥
न हृदयमनुरुध्यते मनो वा; प्रियसुखदुर्लभतामनित्यतां च। तदुभयमुपलक्षयन्निवाहं; व्रतमिदमाजगरं शुचिश्चरामि ॥१२-१७२-३४॥
बहु कथितमिदं हि बुद्धिमद्भिः; कविभिरभिप्रथयद्भिरात्मकीर्तिम्। इदमिदमिति तत्र तत्र तत्त; त्स्वपरमतैर्गहनं प्रतर्कयद्भिः ॥१२-१७२-३५॥
तदहमनुनिशाम्य विप्रयातं; पृथगभिपन्नमिहाबुधैर्मनुष्यैः। अनवसितमनन्तदोषपारं; नृषु विहरामि विनीतरोषतृष्णः ॥१२-१७२-३६॥
भीष्म उवाच॥
अजगरचरितं व्रतं महात्मा; य इह नरोऽनुचरेद्विनीतरागः। अपगतभयमन्युलोभमोहः; स खलु सुखी विहरेदिमं विहारम् ॥१२-१७२-३७॥