Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.171
युधिष्ठिर उवाच॥
ईहमानः समारम्भान्यदि नासादयेद्धनम्। धनतृष्णाभिभूतश्च किं कुर्वन्सुखमाप्नुयात् ॥१२-१७१-१॥
भीष्म उवाच॥
सर्वसाम्यमनायासः सत्यवाक्यं च भारत। निर्वेदश्चाविवित्सा च यस्य स्यात्स सुखी नरः ॥१२-१७१-२॥
एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये। एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं सताम् ॥१२-१७१-३॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर ॥१२-१७१-४॥
ईहमानो धनं मङ्किर्भग्नेहश्च पुनः पुनः। केनचिद्धनशेषेण क्रीतवान्दम्यगोयुगम् ॥१२-१७१-५॥
सुसम्बद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ। आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम् ॥१२-१७१-६॥
तयोः सम्प्राप्तयोरुष्ट्रः स्कन्धदेशममर्षणः। उत्थायोत्क्षिप्य तौ दम्यौ प्रससार महाजवः ॥१२-१७१-७॥
ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना। म्रियमाणौ च सम्प्रेक्ष्य मङ्किस्तत्राब्रवीदिदम् ॥१२-१७१-८॥
न चैवाविहितं शक्यं दक्षेणापीहितुं धनम्। युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता ॥१२-१७१-९॥
कृतस्य पूर्वं चानर्थैर्युक्तस्याप्यनुतिष्ठतः। इमं पश्यत सङ्गत्या मम दैवमुपप्लवम् ॥१२-१७१-१०॥
उद्यम्योद्यम्य मे दम्यौ विषमेणेव गच्छति। उत्क्षिप्य काकतालीयमुन्माथेनेव जम्बुकः ॥१२-१७१-११॥
मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम। शुद्धं हि दैवमेवेदमतो नैवास्ति पौरुषम् ॥१२-१७१-१२॥
यदि वाप्युपपद्येत पौरुषं नाम कर्हिचित्। अन्विष्यमाणं तदपि दैवमेवावतिष्ठते ॥१२-१७१-१३॥
तस्मान्निर्वेद एवेह गन्तव्यः सुखमीप्सता। सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने ॥१२-१७१-१४॥
अहो सम्यक्षुकेनोक्तं सर्वतः परिमुच्यता। प्रतिष्ठता महारण्यं जनकस्य निवेशनात् ॥१२-१७१-१५॥
यः कामान्प्राप्नुयात्सर्वान्यश्चैनान्केवलांस्त्यजेत्। प्रापणात्सर्वकामानां परित्यागो विशिष्यते ॥१२-१७१-१६॥
नान्तं सर्वविवित्सानां गतपूर्वोऽस्ति कश्चन। शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते ॥१२-१७१-१७॥
निवर्तस्व विवित्साभ्यः शाम्य निर्विद्य मामक। असकृच्चासि निकृतो न च निर्विद्यसे तनो ॥१२-१७१-१८॥
यदि नाहं विनाश्यस्ते यद्येवं रमसे मया। मा मां योजय लोभेन वृथा त्वं वित्तकामुक ॥१२-१७१-१९॥
सञ्चितं सञ्चितं द्रव्यं नष्टं तव पुनः पुनः। कदा विमोक्ष्यसे मूढ धनेहां धनकामुक ॥१२-१७१-२०॥
अहो नु मम बालिश्यं योऽहं क्रीडनकस्तव। किं नैव जातु पुरुषः परेषां प्रेष्यतामियात् ॥१२-१७१-२१॥
न पूर्वे नापरे जातु कामानामन्तमाप्नुवन्। त्यक्त्वा सर्वसमारम्भान्प्रतिबुद्धोऽस्मि जागृमि ॥१२-१७१-२२॥
नूनं ते हृदयं काम वज्रसारमयं दृधम्। यदनर्थशताविष्टं शतधा न विदीर्यते ॥१२-१७१-२३॥
त्यजामि काम त्वां चैव यच्च किञ्चित्प्रियं तव। तवाहं सुखमन्विच्छन्नात्मन्युपलभे सुखम् ॥१२-१७१-२४॥
काम जानामि ते मूलं सङ्कल्पात्किल जायसे। न त्वां सङ्कल्पयिष्यामि समूलो न भविष्यसि ॥१२-१७१-२५॥
ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी। लब्धनाशो यथा मृत्युर्लब्धं भवति वा न वा ॥१२-१७१-२६॥
परेत्य यो न लभते ततो दुःखतरं नु किम्। न च तुष्यति लब्धेन भूय एव च मार्गति ॥१२-१७१-२७॥
अनुतर्षुल एवार्थः स्वादु गाङ्गमिवोदकम्। मद्विलापनमेतत्तु प्रतिबुद्धोऽस्मि सन्त्यज ॥१२-१७१-२८॥
य इमं मामकं देहं भूतग्रामः समाश्रितः। स यात्वितो यथाकामं वसतां वा यथासुखम् ॥१२-१७१-२९॥
न युष्मास्विह मे प्रीतिः कामलोभानुसारिषु। तस्मादुत्सृज्य सर्वान्वः सत्यमेवाश्रयाम्यहम् ॥१२-१७१-३०॥
सर्वभूतान्यहं देहे पश्यन्मनसि चात्मनः। योगे बुद्धिं श्रुते सत्त्वं मनो ब्रह्मणि धारयन् ॥१२-१७१-३१॥
विहरिष्याम्यनासक्तः सुखी लोकान्निरामयः। यथा मा त्वं पुनर्नैवं दुःखेषु प्रणिधास्यसि ॥१२-१७१-३२॥
त्वया हि मे प्रणुन्नस्य गतिरन्या न विद्यते। तृष्णाशोकश्रमाणां हि त्वं काम प्रभवः सदा ॥१२-१७१-३३॥
धननाशोऽधिकं दुःखं मन्ये सर्वमहत्तरम्। ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनच्युतम् ॥१२-१७१-३४॥
अवज्ञानसहस्रैस्तु दोषाः कष्टतराधने। धने सुखकला या च सापि दुःखैर्विधीयते ॥१२-१७१-३५॥
धनमस्येति पुरुषं पुरा निघ्नन्ति दस्यवः। क्लिश्यन्ति विविधैर्दण्डैर्नित्यमुद्वेजयन्ति च ॥१२-१७१-३६॥
मन्दलोलुपता दुःखमिति बुद्धं चिरान्मया। यद्यदालम्बसे काम तत्तदेवानुरुध्यसे ॥१२-१७१-३७॥
अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः। नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम् ॥१२-१७१-३८॥
पातालमिव दुष्पूरो मां दुःखैर्योक्तुमिच्छसि। नाहमद्य समावेष्टुं शक्यः काम पुनस्त्वया ॥१२-१७१-३९॥
निर्वेदमहमासाद्य द्रव्यनाशाद्यदृच्छया। निर्वृतिं परमां प्राप्य नाद्य कामान्विचिन्तये ॥१२-१७१-४०॥
अतिक्लेशान्सहामीह नाहं बुध्याम्यबुद्धिमान्। निकृतो धननाशेन शये सर्वाङ्गविज्वरः ॥१२-१७१-४१॥
परित्यजामि काम त्वां हित्वा सर्वमनोगतीः। न त्वं मया पुनः काम नस्योतेनेव रंस्यसे ॥१२-१७१-४२॥
क्षमिष्येऽक्षममाणानां न हिंसिष्ये च हिंसितः। द्वेष्यमुक्तः प्रियं वक्ष्याम्यनादृत्य तदप्रियम् ॥१२-१७१-४३॥
तृप्तः स्वस्थेन्द्रियो नित्यं यथालब्धेन वर्तयन्। न सकामं करिष्यामि त्वामहं शत्रुमात्मनः ॥१२-१७१-४४॥
निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम्। सर्वभूतदयां चैव विद्धि मां शरणागतम् ॥१२-१७१-४५॥
तस्मात्कामश्च लोभश्च तृष्णा कार्पण्यमेव च। त्यजन्तु मां प्रतिष्ठन्तं सत्त्वस्थो ह्यस्मि साम्प्रतम् ॥१२-१७१-४६॥
प्रहाय कामं लोभं च क्रोधं पारुष्यमेव च। नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्यनात्मवान् ॥१२-१७१-४७॥
यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते। कामस्य वशगो नित्यं दुःखमेव प्रपद्यते ॥१२-१७१-४८॥
कामान्व्युदस्य धुनुते यत्किञ्चित्पुरुषो रजः। कामक्रोधोद्भवं दुःखमह्रीररतिरेव च ॥१२-१७१-४९॥
एष ब्रह्मप्रविष्टोऽहं ग्रीष्मे शीतमिव ह्रदम्। शाम्यामि परिनिर्वामि सुखमासे च केवलम् ॥१२-१७१-५०॥
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्। तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥१२-१७१-५१॥
आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम्। प्राप्यावध्यं ब्रह्मपुरं राजेव स्यामहं सुखी ॥१२-१७१-५२॥
एतां बुद्धिं समास्थाय मङ्किर्निर्वेदमागतः। सर्वान्कामान्परित्यज्य प्राप्य ब्रह्म महत्सुखम् ॥१२-१७१-५३॥
दम्यनाशकृते मङ्किरमरत्वं किलागमत्। अच्छिनत्काममूलं स तेन प्राप महत्सुखम् ॥१२-१७१-५४॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। गीतं विदेहराजेन जनकेन प्रशाम्यता ॥१२-१७१-५५॥
अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन। मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन ॥१२-१७१-५६॥
अत्रैवोदाहरन्तीमं बोध्यस्य पदसञ्चयम्। निर्वेदं प्रति विन्यस्तं प्रतिबोध युधिष्ठिर ॥१२-१७१-५७॥
बोध्यं दान्तमृषिं राजा नहुषः पर्यपृच्छत। निर्वेदाच्छान्तिमापन्नं शान्तं प्रज्ञानतर्पितम् ॥१२-१७१-५८॥
उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे। कां बुद्धिं समनुध्याय शान्तश्चरसि निर्वृतः ॥१२-१७१-५९॥
बोध्य उवाच॥
उपदेशेन वर्तामि नानुशास्मीह कञ्चन। लक्षणं तस्य वक्ष्येऽहं तत्स्वयं प्रविमृश्यताम् ॥१२-१७१-६०॥
पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने। इषुकारः कुमारी च षडेते गुरवो मम ॥१२-१७१-६१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.