12.173
युधिष्ठिर उवाच॥
बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह। नरस्य का प्रतिष्ठा स्यादेतत्पृष्टो वदस्व मे ॥१२-१७३-१॥
भीष्म उवाच॥
प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः। प्रज्ञा नैःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम् ॥१२-१७३-२॥
प्रज्ञया प्रापितार्थो हि बलिरैश्वर्यसङ्क्षये। प्रह्रादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम् ॥१२-१७३-३॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। इन्द्रकाश्यपसंवादं तन्निबोध युधिष्ठिर ॥१२-१७३-४॥
वैश्यः कश्चिदृषिं तात काश्यपं संशितव्रतम्। रथेन पातयामास श्रीमान्दृप्तस्तपस्विनम् ॥१२-१७३-५॥
आर्तः स पतितः क्रुद्धस्त्यक्त्वात्मानमथाब्रवीत्। मरिष्याम्यधनस्येह जीवितार्थो न विद्यते ॥१२-१७३-६॥
तथा मुमूर्षुमासीनमकूजन्तमचेतसम्। इन्द्रः सृगालरूपेण बभाषे क्रुद्धमानसम् ॥१२-१७३-७॥
मनुष्ययोनिमिच्छन्ति सर्वभूतानि सर्वशः। मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति ॥१२-१७३-८॥
मनुष्यो ब्राह्मणश्चासि श्रोत्रियश्चासि काश्यप। सुदुर्लभमवाप्यैतददोषान्मर्तुमिच्छसि ॥१२-१७३-९॥
सर्वे लाभाः साभिमाना इति सत्या बत श्रुतिः। सन्तोषणीयरूपोऽसि लोभाद्यदभिमन्यसे ॥१२-१७३-१०॥
अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः। पाणिमद्भ्यः स्पृहास्माकं यथा तव धनस्य वै ॥१२-१७३-११॥
न पाणिलाभादधिको लाभः कश्चन विद्यते। अपाणित्वाद्वयं ब्रह्मन्कण्टकान्नोद्धरामहे ॥१२-१७३-१२॥
अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली। उद्धरन्ति कृमीनङ्गाद्दशमानान्कषन्ति च ॥१२-१७३-१३॥
हिमवर्षातपानां च परित्राणानि कुर्वते। चेलमन्नं सुखं शय्यां निवातं चोपभुञ्जते ॥१२-१७३-१४॥
अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च। उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते ॥१२-१७३-१५॥
ये खल्वजिह्वाः कृपणा अल्पप्राणा अपाणयः। सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने ॥१२-१७३-१६॥
दिष्ट्या त्वं न सृगालो वै न कृमिर्न च मूषकः। न सर्पो न च मण्डूको न चान्यः पापयोनिजः ॥१२-१७३-१७॥
एतावतापि लाभेन तोष्टुमर्हसि काश्यप। किं पुनर्योऽसि सत्त्वानां सर्वेषां ब्राह्मणोत्तमः ॥१२-१७३-१८॥
इमे मां कृमयोऽदन्ति तेषामुद्धरणाय मे। नास्ति शक्तिरपाणित्वात्पश्यावस्थामिमां मम ॥१२-१७३-१९॥
अकार्यमिति चैवेमं नात्मानं सन्त्यजाम्यहम्। नेतः पापीयसीं योनिं पतेयमपरामिति ॥१२-१७३-२०॥
मध्ये वै पापयोनीनां सार्गाली यामहं गतः। पापीयस्यो बहुतरा इतोऽन्याः पापयोनयः ॥१२-१७३-२१॥
जात्यैवैके सुखतराः सन्त्यन्ये भृशदुःखिताः। नैकान्तसुखमेवेह क्वचित्पश्यामि कस्यचित् ॥१२-१७३-२२॥
मनुष्या ह्याढ्यतां प्राप्य राज्यमिच्छन्त्यनन्तरम्। राज्याद्देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि ॥१२-१७३-२३॥
भवेस्त्वं यद्यपि त्वाढ्यो न राजा न च दैवतम्। देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति ॥१२-१७३-२४॥
न तृप्तिः प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति। सम्प्रज्वलति सा भूयः समिद्भिरिव पावकः ॥१२-१७३-२५॥
अस्त्येव त्वयि शोको वै हर्षश्चास्ति तथा त्वयि। सुखदुःखे तथा चोभे तत्र का परिदेवना ॥१२-१७३-२६॥
परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम्। मूलं रुन्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे ॥१२-१७३-२७॥
न खल्वप्यरसज्ञस्य कामः क्वचन जायते। संस्पर्शाद्दर्शनाद्वापि श्रवणाद्वापि जायते ॥१२-१७३-२८॥
न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम्। ताभ्यां चाभ्यधिको भक्ष्यो न कश्चिद्विद्यते क्वचित् ॥१२-१७३-२९॥
यानि चान्यानि दूरेषु भक्ष्यभोज्यानि काश्यप। येषामभुक्तपूर्वं ते तेषामस्मृतिरेव च ॥१२-१७३-३०॥
अप्राशनमसंस्पर्शमसंदर्शनमेव च। पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः ॥१२-१७३-३१॥
पाणिमन्तो धनैर्युक्ता बलवन्तो न संशयः। मनुष्या मानुषैरेव दासत्वमुपपादिताः ॥१२-१७३-३२॥
वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः। ते खल्वपि रमन्ते च मोदन्ते च हसन्ति च ॥१२-१७३-३३॥
अपरे बाहुबलिनः कृतविद्या मनस्विनः। जुगुप्सितां सुकृपणां पापां वृत्तिमुपासते ॥१२-१७३-३४॥
उत्सहन्ते च ते वृत्तिमन्यामप्युपसेवितुम्। स्वकर्मणा तु नियतं भवितव्यं तु तत्तथा ॥१२-१७३-३५॥
न पुल्कसो न चण्डाल आत्मानं त्यक्तुमिच्छति। असन्तुष्टः स्वया योन्या मायां पश्यस्व यादृशीम् ॥१२-१७३-३६॥
दृष्ट्वा कुणीन्पक्षहतान्मनुष्यानामयाविनः। सुसम्पूर्णः स्वया योन्या लब्धलाभोऽसि काश्यप ॥१२-१७३-३७॥
यदि ब्राह्मण देहस्ते निरातङ्को निरामयः। अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः ॥१२-१७३-३८॥
न केनचित्प्रवादेन सत्येनैवापहारिणा। धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुमर्हसि ॥१२-१७३-३९॥
यदि ब्रह्मञ्शृणोष्येतच्छ्रद्दधासि च मे वचः। वेदोक्तस्य च धर्मस्य फलं मुख्यमवाप्स्यसि ॥१२-१७३-४०॥
स्वाध्यायमग्निसंस्कारमप्रमत्तोऽनुपालय। सत्यं दमं च दानं च स्पर्धिष्ठा मा च केनचित् ॥१२-१७३-४१॥
ये केचन स्वध्ययनाः प्राप्ता यजनयाजनम्। कथं ते जातु शोचेयुर्ध्यायेयुर्वाप्यशोभनम् ॥१२-१७३-४२॥
इच्छन्तस्ते विहाराय सुखं महदवाप्नुयुः। उत जाताः सुनक्षत्रे सुतीर्थाः सुमुहूर्तजाः ॥१२-१७३-४३॥
नक्षत्रेष्वासुरेष्वन्ये दुस्तीर्था दुर्मुहूर्तजाः। सम्पतन्त्यासुरीं योनिं यज्ञप्रसववर्जिताम् ॥१२-१७३-४४॥
अहमासं पण्डितको हैतुको वेदनिन्दकः। आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् ॥१२-१७३-४५॥
हेतुवादान्प्रवदिता वक्ता संसत्सु हेतुमत्। आक्रोष्टा चाभिवक्ता च ब्रह्मयज्ञेषु वै द्विजान् ॥१२-१७३-४६॥
नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः। तस्येयं फलनिर्वृत्तिः सृगालत्वं मम द्विज ॥१२-१७३-४७॥
अपि जातु तथा तत्स्यादहोरात्रशतैरपि। यदहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः ॥१२-१७३-४८॥
सन्तुष्टश्चाप्रमत्तश्च यज्ञदानतपोरतिः। ज्ञेयज्ञाता भवेयं वै वर्ज्यवर्जयिता तथा ॥१२-१७३-४९॥
ततः स मुनिरुत्थाय काश्यपस्तमुवाच ह। अहो बतासि कुशलो बुद्धिमानिति विस्मितः ॥१२-१७३-५०॥
समवैक्षत तं विप्रो ज्ञानदीर्घेण चक्षुषा। ददर्श चैनं देवानामिन्द्रं देवं शचीपतिम् ॥१२-१७३-५१॥
ततः सम्पूजयामास काश्यपो हरिवाहनम्। अनुज्ञातश्च तेनाथ प्रविवेश स्वमाश्रमम् ॥१२-१७३-५२॥