12.174
Library: Wisdom and Karma - No matter how swiftly one runs, destiny follows. Just as the path of birds in the sky and of fishes in water cannot be seen, so too the path of the wise is not visible.
युधिष्ठिर उवाच॥
यद्यस्ति दत्तमिष्टं वा तपस्तप्तं तथैव च। गुरूणां चापि शुश्रूषा तन्मे ब्रूहि पितामह ॥१२-१७४-१॥
भीष्म उवाच॥
आत्मनानर्थयुक्तेन पापे निविशते मनः। स कर्म कलुषं कृत्वा क्लेशे महति धीयते ॥१२-१७४-२॥
दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम्। मृतेभ्यः प्रमृतं यान्ति दरिद्राः पापकारिणः ॥१२-१७४-३॥
उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम्। श्रद्दधानाश्च दान्ताश्च धनाढ्याः शुभकारिणः ॥१२-१७४-४॥
व्यालयुञ्जरदुर्गेषु सर्पचोरभयेषु च। हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम् ॥१२-१७४-५॥
प्रियदेवातिथेयाश्च वदान्याः प्रियसाधवः। क्षेम्यमात्मवतां मार्गमास्थिता हस्तदक्षिणम् ॥१२-१७४-६॥
पुलाका इव धान्येषु पुत्तिका इव पक्षिषु। तद्विधास्ते मनुष्येषु येषां धर्मो न कारणम् ॥१२-१७४-७॥
सुशीघ्रमपि धावन्तं विधानमनुधावति। शेते सह शयानेन येन येन यथा कृतम् ॥१२-१७४-८॥
उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति। करोति कुर्वतः कर्म छायेवानुविधीयते ॥१२-१७४-९॥
येन येन यथा यद्यत्पुरा कर्म समाचितम्। तत्तदेव नरो भुङ्क्ते नित्यं विहितमात्मना ॥१२-१७४-१०॥
स्वकर्मफलविक्षिप्तं विधानपरिरक्षितम्। भूतग्राममिमं कालः समन्तात्परिकर्षति ॥१२-१७४-११॥
अचोद्यमानानि यथा पुष्पाणि च फलानि च। स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥१२-१७४-१२॥
संमानश्चावमानश्च लाभालाभौ क्षयोदयौ। प्रवृत्ता विनिवर्तन्ते विधानान्ते पुनः पुनः ॥१२-१७४-१३॥
आत्मना विहितं दुःखमात्मना विहितं सुखम्। गर्भशय्यामुपादाय भुज्यते पौर्वदेहिकम् ॥१२-१७४-१४॥
बालो युवा च वृद्धश्च यत्करोति शुभाशुभम्। तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि ॥१२-१७४-१५॥
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्। तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥१२-१७४-१६॥
समुन्नमग्रतो वस्त्रं पश्चाच्छुध्यति कर्मणा। उपवासैः प्रतप्तानां दीर्घं सुखमनन्तकम् ॥१२-१७४-१७॥
दीर्घकालेन तपसा सेवितेन तपोवने। धर्मनिर्धूतपापानां संसिध्यन्ते मनोरथाः ॥१२-१७४-१८॥
शकुनीनामिवाकाशे मत्स्यानामिव चोदके। पदं यथा न दृश्येत तथा ज्ञानविदां गतिः ॥१२-१७४-१९॥
अलमन्यैरुपालम्भैः कीर्तितैश्च व्यतिक्रमैः। पेशलं चानुरूपं च कर्तव्यं हितमात्मनः ॥१२-१७४-२०॥