12.175
युधिष्ठिर उवाच॥
कुतः सृष्टमिदं विश्वं जगत्स्थावरजङ्गमम्। प्रलये च कमभ्येति तन्मे ब्रूहि पितामह ॥१२-१७५-१॥
ससागरः सगगनः सशैलः सबलाहकः। सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः ॥१२-१७५-२॥
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः। शौचाशौचं कथं तेषां धर्माधर्मावथो कथम् ॥१२-१७५-३॥
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः। अस्माल्लोकादमुं लोकं सर्वं शंसतु नो भवान् ॥१२-१७५-४॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। भृगुणाभिहितं श्रेष्ठं भरद्वाजाय पृच्छते ॥१२-१७५-५॥
कैलासशिखरे दृष्ट्वा दीप्यमानमिवौजसा। भृगुं महर्षिमासीनं भरद्वाजोऽन्वपृच्छत ॥१२-१७५-६॥
ससागरः सगगनः सशैलः सबलाहकः। सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः ॥१२-१७५-७॥
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः। शौचाशौचं कथं तेषां धर्माधर्मावथो कथम् ॥१२-१७५-८॥
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः। परलोकमिमं चापि सर्वं शंसतु नो भवान् ॥१२-१७५-९॥
एवं स भगवान्पृष्टो भरद्वाजेन संशयम्। महर्षिर्ब्रह्मसङ्काशः सर्वं तस्मै ततोऽब्रवीत् ॥१२-१७५-१०॥
मानसो नाम विख्यातः श्रुतपूर्वो महर्षिभिः। अनादिनिधनो देवस्तथाभेद्योऽजरामरः ॥१२-१७५-११॥
अव्यक्त इति विख्यातः शाश्वतोऽथाक्षरोऽव्ययः। यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च ॥१२-१७५-१२॥
सोऽसृजत्प्रथमं देवो महान्तं नाम नामतः। आकाशमिति विख्यातं सर्वभूतधरः प्रभुः ॥१२-१७५-१३॥
आकाशादभवद्वारि सलिलादग्निमारुतौ। अग्निमारुतसंयोगात्ततः समभवन्मही ॥१२-१७५-१४॥
ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयम्भुवा। तस्मात्पद्मात्समभवद्ब्रह्मा वेदमयो निधिः ॥१२-१७५-१५॥
अहङ्कार इति ख्यातः सर्वभूतात्मभूतकृत्। ब्रह्मा वै सुमहातेजा य एते पञ्च धातवः ॥१२-१७५-१६॥
शैलास्तस्यास्थिसञ्ज्ञास्तु मेदो मांसं च मेदिनी। समुद्रास्तस्य रुधिरमाकाशमुदरं तथा ॥१२-१७५-१७॥
पवनश्चैव निःश्वासस्तेजोऽग्निर्निम्नगाः सिराः। अग्नीषोमौ तु चन्द्रार्कौ नयने तस्य विश्रुते ॥१२-१७५-१८॥
नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ दिशो भुजौ। दुर्विज्ञेयो ह्यनन्तत्वात्सिद्धैरपि न संशयः ॥१२-१७५-१९॥
स एव भगवान्विष्णुरनन्त इति विश्रुतः। सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्मभिः ॥१२-१७५-२०॥
अहङ्कारस्य यः स्रष्टा सर्वभूतभवाय वै। यतः समभवद्विश्वं पृष्टोऽहं यदिह त्वया ॥१२-१७५-२१॥
भरद्वाज उवाच॥
गगनस्य दिशां चैव भूतलस्यानिलस्य च। कान्यत्र परिमाणानि संशयं छिन्धि मेऽर्थतः ॥१२-१७५-२२॥
भृगुरुवाच॥
अनन्तमेतदाकाशं सिद्धचारणसेवितम्। रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते ॥१२-१७५-२३॥
ऊर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न दृश्यतः। तत्र देवाः स्वयं दीप्ता भास्वराश्चाग्निवर्चसः ॥१२-१७५-२४॥
ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः। दुर्गमत्वादनन्तत्वादिति मे विद्धि मानद ॥१२-१७५-२५॥
उपरिष्टोपरिष्टात्तु प्रज्वलद्भिः स्वयम्प्रभैः। निरुद्धमेतदाकाशमप्रमेयं सुरैरपि ॥१२-१७५-२६॥
पृथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम्। तमसोऽन्ते जलं प्राहुर्जलस्यान्तेऽग्निरेव च ॥१२-१७५-२७॥
रसातलान्ते सलिलं जलान्ते पन्नगाधिपः। तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम् ॥१२-१७५-२८॥
एवमन्तं भगवतः प्रमाणं सलिलस्य च। अग्निमारुततोयेभ्यो दुर्ज्ञेयं दैवतैरपि ॥१२-१७५-२९॥
अग्निमारुततोयानां वर्णाः क्षितितलस्य च। आकाशसदृशा ह्येते भिद्यन्ते तत्त्वदर्शनात् ॥१२-१७५-३०॥
पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च। त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा ॥ अदृश्याय त्वगम्याय कः प्रमाणमुदाहरेत् ॥१२-१७५-३१॥
सिद्धानां देवतानां च यदा परिमिता गतिः। तदा गौणमनन्तस्य नामानन्तेति विश्रुतम् ॥ नामधेयानुरूपस्य मानसस्य महात्मनः ॥१२-१७५-३२॥
यदा तु दिव्यं तद्रूपं ह्रसते वर्धते पुनः। कोऽन्यस्तद्वेदितुं शक्तो योऽपि स्यात्तद्विधोऽपरः ॥१२-१७५-३३॥
ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान्प्रभुः। ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः ॥१२-१७५-३४॥
भरद्वाज उवाच॥
पुष्कराद्यदि सम्भूतो ज्येष्ठं भवति पुष्करम्। ब्रह्माणं पूर्वजं चाह भवान्संदेह एव मे ॥१२-१७५-३५॥
भृगुरुवाच॥
मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता। तस्यासनविधानार्थं पृथिवी पद्ममुच्यते ॥१२-१७५-३६॥
कर्णिका तस्य पद्मस्य मेरुर्गगनमुच्छ्रितः। तस्य मध्ये स्थितो लोकान्सृजते जगतः प्रभुः ॥१२-१७५-३७॥