12.176
भरद्वाज उवाच॥
प्रजाविसर्गं विविधं कथं स सृजते प्रभुः। मेरुमध्ये स्थितो ब्रह्मा तद्ब्रूहि द्विजसत्तम ॥१२-१७६-१॥
भृगुरुवाच॥
प्रजाविसर्गं विविधं मानसो मनसासृजत्। सन्धुक्षणार्थं भूतानां सृष्टं प्रथमतो जलम् ॥१२-१७६-२॥
यत्प्राणाः सर्वभूतानां वर्धन्ते येन च प्रजाः। परित्यक्ताश्च नश्यन्ति तेनेदं सर्वमावृतम् ॥१२-१७६-३॥
पृथिवी पर्वता मेघा मूर्तिमन्तश्च ये परे। सर्वं तद्वारुणं ज्ञेयमापस्तस्तम्भिरे पुनः ॥१२-१७६-४॥
भरद्वाज उवाच॥
कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ। कथं च मेदिनी सृष्टेत्यत्र मे संशयो महान् ॥१२-१७६-५॥
भृगुरुवाच॥
ब्रह्मकल्पे पुरा ब्रह्मन्ब्रह्मर्षीणां समागमे। लोकसम्भवसंदेहः समुत्पन्नो महात्मनाम् ॥१२-१७६-६॥
तेऽतिष्ठन्ध्यानमालम्ब्य मौनमास्थाय निश्चलाः। त्यक्ताहाराः पवनपा दिव्यं वर्षशतं द्विजाः ॥१२-१७६-७॥
तेषां धर्ममयी वाणी सर्वेषां श्रोत्रमागमत्। दिव्या सरस्वती तत्र सम्बभूव नभस्तलात् ॥१२-१७६-८॥
पुरा स्तिमितनिःशब्दमाकाशमचलोपमम्। नष्टचन्द्रार्कपवनं प्रसुप्तमिव सम्बभौ ॥१२-१७६-९॥
ततः सलिलमुत्पन्नं तमसीवापरं तमः। तस्माच्च सलिलोत्पीडादुदतिष्ठत मारुतः ॥१२-१७६-१०॥
यथा भाजनमच्छिद्रं निःशब्दमिव लक्ष्यते। तच्चाम्भसा पूर्यमाणं सशब्दं कुरुतेऽनिलः ॥१२-१७६-११॥
तथा सलिलसंरुद्धे नभसोऽन्ते निरन्तरे। भित्त्वार्णवतलं वायुः समुत्पतति घोषवान् ॥१२-१७६-१२॥
स एष चरते वायुरर्णवोत्पीडसम्भवः। आकाशस्थानमासाद्य प्रशान्तिं नाधिगच्छति ॥१२-१७६-१३॥
तस्मिन्वाय्वम्बुसङ्घर्षे दीप्ततेजा महाबलः। प्रादुर्भवत्यूर्ध्वशिखः कृत्वा वितिमिरं नभः ॥१२-१७६-१४॥
अग्निः पवनसंयुक्तः खात्समुत्पतते जलम्। सोऽग्निर्मारुतसंयोगाद्घनत्वमुपपद्यते ॥१२-१७६-१५॥
तस्याकाशे निपतितः स्नेहस्तिष्ठति योऽपरः। स सङ्घातत्वमापन्नो भूमित्वमुपगच्छति ॥१२-१७६-१६॥
रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा। भूमिर्योनिरिह ज्ञेया यस्यां सर्वं प्रसूयते ॥१२-१७६-१७॥