12.177
भरद्वाज उवाच॥
एते ते धातवः पञ्च ब्रह्मा यानसृजत्पुरा। आवृता यैरिमे लोका महाभूताभिसञ्ज्ञितैः ॥१२-१७७-१॥
यदासृजत्सहस्राणि भूतानां स महामतिः। पञ्चानामेव भूतत्वं कथं समुपपद्यते ॥१२-१७७-२॥
भृगुरुवाच॥
अमितानां महाशब्दो यान्ति भूतानि सम्भवम्। ततस्तेषां महाभूतशब्दोऽयमुपपद्यते ॥१२-१७७-३॥
चेष्टा वयूः खमाकाशमूष्माग्निः सलिलं द्रवः। पृथिवी चात्र सङ्घातः शरीरं पाञ्चभौतिकम् ॥१२-१७७-४॥
इत्येतैः पञ्चभिर्भूतैर्युक्तं स्थावरजङ्गमम्। श्रोत्रं घ्राणं रसः स्पर्शो दृष्टिश्चेन्द्रियसञ्ज्ञिताः ॥१२-१७७-५॥
भरद्वाज उवाच॥
पञ्चभिर्यदि भूतैस्तु युक्ताः स्थावरजङ्गमाः। स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः ॥१२-१७७-६॥
अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः। वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः ॥१२-१७७-७॥
न शृण्वन्ति न पश्यन्ति न गन्धरसवेदिनः। न च स्पर्शं विजानन्ति ते कथं पाञ्चभौतिकाः ॥१२-१७७-८॥
अद्रवत्वादनग्नित्वादभौमत्वादवायुतः। आकाशस्याप्रमेयत्वाद्वृक्षाणां नास्ति भौतिकम् ॥१२-१७७-९॥
भृगुरुवाच॥
घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः। तेषां पुष्पफले व्यक्तिर्नित्यं समुपलभ्यते ॥१२-१७७-१०॥
ऊष्मतो ग्लानपर्णानां त्वक्फलं पुष्पमेव च। म्लायते चैव शीते न स्पर्शस्तेनात्र विद्यते ॥१२-१७७-११॥
वाय्वग्न्यशनिनिष्पेषैः फलपुष्पं विशीर्यते। श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः ॥१२-१७७-१२॥
वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति। न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात्पश्यन्ति पादपाः ॥१२-१७७-१३॥
पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि। अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः ॥१२-१७७-१४॥
पादैः सलिलपानं च व्याधीनामपि दर्शनम्। व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे ॥१२-१७७-१५॥
वक्त्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत्। तथा पवनसंयुक्तः पादैः पिबति पादपः ॥१२-१७७-१६॥
ग्रहणात्सुखदुःखस्य छिन्नस्य च विरोहणात्। जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते ॥१२-१७७-१७॥
तेन तज्जलमादत्तं जरयत्यग्निमारुतौ। आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते ॥१२-१७७-१८॥
जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः। प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते ॥१२-१७७-१९॥
त्वक्च मांसं तथास्थीनि मज्जा स्नायु च पञ्चमम्। इत्येतदिह सङ्ख्यातं शरीरे पृथिवीमयम् ॥१२-१७७-२०॥
तेजोऽग्निश्च तथा क्रोधश्चक्षुरूष्मा तथैव च। अग्निर्जरयते चापि पञ्चाग्नेयाः शरीरिणः ॥१२-१७७-२१॥
श्रोत्रं घ्राणमथास्यं च हृदयं कोष्ठमेव च। आकाशात्प्राणिनामेते शरीरे पञ्च धातवः ॥१२-१७७-२२॥
श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च। इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा ॥१२-१७७-२३॥
प्राणात्प्रणीयते प्राणी व्यानाद्व्यायच्छते तथा। गच्छत्यपानोऽवाक्चैव समानो हृद्यवस्थितः ॥१२-१७७-२४॥
उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते। इत्येते वायवः पञ्च चेष्टयन्तीह देहिनम् ॥१२-१७७-२५॥
भूमेर्गन्धगुणान्वेत्ति रसं चाद्भ्यः शरीरवान्। ज्योतिः पश्यति चक्षुर्भ्यां स्पर्शं वेत्ति च वायुना ॥१२-१७७-२६॥
तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान्। इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च ॥१२-१७७-२७॥
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च। एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः ॥१२-१७७-२८॥
शब्दः स्पर्शश्च रूपं च रसश्चापां गुणाः स्मृताः। रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु ॥१२-१७७-२९॥
रसो बहुविधः प्रोक्तः सूरिभिः प्रथितात्मभिः। मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा ॥ एष षड्विधविस्तारो रसो वारिमयः स्मृतः ॥१२-१७७-३०॥
शब्दः स्पर्शश्च रूपं च त्रिगुणं ज्योतिरुच्यते। ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम् ॥१२-१७७-३१॥
ह्रस्वो दीर्घस्तथा स्थूलश्चतुरस्रोऽणु वृत्तवान्। शुक्लः कृष्णस्तथा रक्तो नीलः पीतोऽरुणस्तथा ॥ एवं द्वादशविस्तारो ज्योतीरूपगुणः स्मृतः ॥१२-१७७-३२॥
शब्दस्पर्शौ तु विज्ञेयौ द्विगुणो वायुरुच्यते। वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः ॥१२-१७७-३३॥
कठिनश्चिक्कणः श्लक्ष्णः पिच्छलो मृदुदारुणः। उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च ॥ एवं द्वादशविस्तारो वायव्यो गुण उच्यते ॥१२-१७७-३४॥
तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम्। तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम् ॥१२-१७७-३५॥
षड्ज ऋषभगान्धारौ मध्यमः पञ्चमस्तथा। धैवतश्चापि विज्ञेयस्तथा चापि निषादकः ॥१२-१७७-३६॥
एष सप्तविधः प्रोक्तो गुण आकाशलक्षणः। त्रैस्वर्येण तु सर्वत्र स्थितोऽपि पटहादिषु ॥१२-१७७-३७॥
आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह। अव्याहतैश्चेतयते न वेत्ति विषमागतैः ॥१२-१७७-३८॥
आप्यायन्ते च ते नित्यं धातवस्तैस्तु धातुभिः। आपोऽग्निर्मारुतश्चैव नित्यं जाग्रति देहिषु ॥१२-१७७-३९॥