Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.178
भरद्वाज उवाच॥
पार्थिवं धातुमाश्रित्य शारीरोऽग्निः कथं भवेत्। अवकाशविशेषेण कथं वर्तयतेऽनिलः ॥१२-१७८-१॥
भृगुरुवाच॥
वायोर्गतिमहं ब्रह्मन्कीर्तयिष्यामि तेऽनघ। प्राणिनामनिलो देहान्यथा चेष्टयते बली ॥१२-१७८-२॥
श्रितो मूर्धानमग्निस्तु शरीरं परिपालयन्। प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते ॥१२-१७८-३॥
स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः। मनो बुद्धिरहङ्कारो भूतानि विषयाश्च सः ॥१२-१७८-४॥
एवं त्विह स सर्वत्र प्राणेन परिपाल्यते। पृष्ठतश्च समानेन स्वां स्वां गतिमुपाश्रितः ॥१२-१७८-५॥
वस्तिमूलं गुदं चैव पावकं च समाश्रितः। वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते ॥१२-१७८-६॥
प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते। उदान इति तं प्राहुरध्यात्मविदुषो जनाः ॥१२-१७८-७॥
सन्धिष्वपि च सर्वेषु संनिविष्टस्तथानिलः। शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते ॥१२-१७८-८॥
धातुष्वग्निस्तु विततः समानेन समीरितः। रसान्धातूंश्च दोषांश्च वर्तयन्नवतिष्ठति ॥१२-१७८-९॥
अपानप्राणयोर्मध्ये प्राणापानसमाहितः। समन्वितः स्वधिष्ठानः सम्यक्पचति पावकः ॥१२-१७८-१०॥
आस्यं हि पायुसंयुक्तमन्ते स्याद्गुदसञ्ज्ञितम्। स्रोतस्तस्मात्प्रजायन्ते सर्वस्रोतांसि देहिनाम् ॥१२-१७८-११॥
प्राणानां संनिपाताच्च संनिपातः प्रजायते। ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम् ॥१२-१७८-१२॥
अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते। स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ॥१२-१७८-१३॥
पक्वाशयस्त्वधो नाभेरूर्ध्वमामाशयः स्थितः। नाभिमध्ये शरीरस्य सर्वे प्राणाः समाहिताः ॥१२-१७८-१४॥
प्रसृता हृदयात्सर्वे तिर्यगूर्ध्वमधस्तथा। वहन्त्यन्नरसान्नाड्यो दश प्राणप्रचोदिताः ॥१२-१७८-१५॥
एष मार्गोऽथ योगानां येन गच्छन्ति तत्पदम्। जितक्लमासना धीरा मूर्धन्यात्मानमादधुः ॥१२-१७८-१६॥
एवं सर्वेषु विहितः प्राणापानेषु देहिनाम्। तस्मिन्स्थितो नित्यमग्निः स्थाल्यामिव समाहितः ॥१२-१७८-१७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.