Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.180
भृगुरुवाच॥
न प्रणाशोऽस्ति जीवानां दत्तस्य च कृतस्य च। याति देहान्तरं प्राणी शरीरं तु विशीर्यते ॥१२-१८०-१॥
न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यति। यथा समित्सु दग्धासु न प्रणश्यति पावकः ॥१२-१८०-२॥
भरद्वाज उवाच॥
अग्नेर्यथा तथा तस्य यदि नाशो न विद्यते। इन्धनस्योपयोगान्ते स चाग्निर्नोपलभ्यते ॥१२-१८०-३॥
नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम्। गतिर्यस्य प्रमाणं वा संस्थानं वा न दृश्यते ॥१२-१८०-४॥
भृगुरुवाच॥
समिधामुपयोगान्ते सन्नेवाग्निर्न दृश्यते। आकाशानुगतत्वाद्धि दुर्ग्रहः स निराश्रयः ॥१२-१८०-५॥
तथा शरीरसन्त्यागे जीवो ह्याकाशवत्स्थितः। न गृह्यते सुसूक्ष्मत्वाद्यथा ज्योतिर्न संशयः ॥१२-१८०-६॥
प्राणान्धारयते ह्यग्निः स जीव उपधार्यताम्। वायुसन्धारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात् ॥१२-१८०-७॥
तस्मिन्नष्टे शरीराग्नौ शरीरं तदचेतनम्। पतितं याति भूमित्वमयनं तस्य हि क्षितिः ॥१२-१८०-८॥
जङ्गमानां हि सर्वेषां स्थावराणां तथैव च। आकाशं पवनोऽभ्येति ज्योतिस्तमनुगच्छति ॥ तत्र त्रयाणामेकत्वं द्वयं भूमौ प्रतिष्ठितम् ॥१२-१८०-९॥
यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः। अमूर्तयस्ते विज्ञेया आपो मूर्तास्तथा क्षितिः ॥१२-१८०-१०॥
भरद्वाज उवाच॥
यद्यग्निमारुतौ भूमिः खमापश्च शरीरिषु। जीवः किंलक्षणस्तत्रेत्येतदाचक्ष्व मेऽनघ ॥१२-१८०-११॥
पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसंयुते। शरीरे प्राणिनां जीवं ज्ञातुमिच्छामि यादृशम् ॥१२-१८०-१२॥
मांसशोणितसङ्घाते मेदःस्नाय्वस्थिसञ्चये। भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते ॥१२-१८०-१३॥
यद्यजीवं शरीरं तु पञ्चभूतसमन्वितम्। शारीरे मानसे दुःखे कस्तां वेदयते रुजम् ॥१२-१८०-१४॥
शृणोति कथितं जीवः कर्णाभ्यां न शृणोति तत्। महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः ॥१२-१८०-१५॥
सर्वं पश्यति यद्दृश्यं मनोयुक्तेन चक्षुषा। मनसि व्याकुले तद्धि पश्यन्नपि न पश्यति ॥१२-१८०-१६॥
न पश्यति न च ब्रूते न शृणोति न जिघ्रति। न च स्पर्शरसौ वेत्ति निद्रावशगतः पुनः ॥१२-१८०-१७॥
हृष्यति क्रुध्यति च कः शोचत्युद्विजते च कः। इच्छति ध्यायति द्वेष्टि वाचमीरयते च कः ॥१२-१८०-१८॥
भृगुरुवाच॥
न पञ्चसाधारणमत्र किं चि; च्छरीरमेको वहतेऽन्तरात्मा। स वेत्ति गन्धांश्च रसाञ्श्रुतिं च; स्पर्शं च रूपं च गुणाश्च येऽन्ये ॥१२-१८०-१९॥
पञ्चात्मके पञ्चगुणप्रदर्शी; स सर्वगात्रानुगतोऽन्तरात्मा। स वेत्ति दुःखानि सुखानि चात्र; तद्विप्रयोगात्तु न वेत्ति देहः ॥१२-१८०-२०॥
यदा न रूपं न स्पर्शो नोष्मभावश्च पावके। तदा शान्ते शरीराग्नौ देहं त्यक्त्वा स नश्यति ॥१२-१८०-२१॥
अम्मयं सर्वमेवेदमापो मूर्तिः शरीरिणाम्। तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत् ॥१२-१८०-२२॥
आत्मानं तं विजानीहि सर्वलोकहितात्मकम्। तस्मिन्यः संश्रितो देहे ह्यब्बिन्दुरिव पुष्करे ॥१२-१८०-२३॥
क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम्। तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान् ॥१२-१८०-२४॥
सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम्। ततः परं क्षेत्रविदं वदन्ति; प्रावर्तयद्यो भुवनानि सप्त ॥१२-१८०-२५॥
न जीवनाशोऽस्ति हि देहभेदे; मिथ्यैतदाहुर्मृत इत्यबुद्धाः। जीवस्तु देहान्तरितः प्रयाति; दशार्धतैवास्य शरीरभेदः ॥१२-१८०-२६॥
एवं सर्वेषु भूतेषु गूढश्चरति संवृतः। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः ॥१२-१८०-२७॥
तं पूर्वापररात्रेषु युञ्जानः सततं बुधः। लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥१२-१८०-२८॥
चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम्। प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्नुते ॥१२-१८०-२९॥
मानसोऽग्निः शरीरेषु जीव इत्यभिधीयते। सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चये ॥१२-१८०-३०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.