Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.179
Library: Bharadvāja asks - When dissolution has occurred, what does the living being pursue? What does he perceive, or what does he hear or say?
भरद्वाज उवाच॥
यदि प्राणायते वायुर्वायुरेव विचेष्टते। श्वसित्याभाषते चैव तस्माज्जीवो निरर्थकः ॥१२-१७९-१॥
यद्यूष्मभाव आग्नेयो वह्निना पच्यते यदि। अग्निर्जरयते चैव तस्माज्जीवो निरर्थकः ॥१२-१७९-२॥
जन्तोः प्रमीयमाणस्य जीवो नैवोपलभ्यते। वायुरेव जहात्येनमूष्मभावश्च नश्यति ॥१२-१७९-३॥
यदि वातोपमो जीवः संश्लेषो यदि वायुना। वायुमण्डलवद्दृश्यो गच्छेत्सह मरुद्गणैः ॥१२-१७९-४॥
श्लेषो यदि च वातेन यदि तस्मात्प्रणश्यति। महार्णवविमुक्तत्वादन्यत्सलिलभाजनम् ॥१२-१७९-५॥
कूपे वा सलिलं दद्यात्प्रदीपं वा हुताशने। प्रक्षिप्तं नश्यति क्षिप्रं यथा नश्यत्यसौ तथा ॥१२-१७९-६॥
पञ्चसाधारणे ह्यस्मिञ्शरीरे जीवितं कुतः। येषामन्यतरत्यागाच्चतुर्णां नास्ति सङ्ग्रहः ॥१२-१७९-७॥
नश्यन्त्यापो ह्यनाहाराद्वायुरुच्छ्वासनिग्रहात्। नश्यते कोष्ठभेदात्खमग्निर्नश्यत्यभोजनात् ॥१२-१७९-८॥
व्याधिव्रणपरिक्लेशैर्मेदिनी चैव शीर्यते। पीडितेऽन्यतरे ह्येषां सङ्घातो याति पञ्चधा ॥१२-१७९-९॥
तस्मिन्पञ्चत्वमापन्ने जीवः किमनुधावति। किं वेदयति वा जीवः किं शृणोति ब्रवीति वा ॥१२-१७९-१०॥
एषा गौः परलोकस्थं तारयिष्यति मामिति। यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति ॥१२-१७९-११॥
गौश्च प्रतिग्रहीता च दाता चैव समं यदा। इहैव विलयं यान्ति कुतस्तेषां समागमः ॥१२-१७९-१२॥
विहगैरुपयुक्तस्य शैलाग्रात्पतितस्य वा। अग्निना चोपयुक्तस्य कुतः सञ्जीवनं पुनः ॥१२-१७९-१३॥
छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति। बीजान्यस्य प्रवर्तन्ते मृतः क्व पुनरेष्यति ॥१२-१७९-१४॥
बीजमात्रं पुरा सृष्टं यदेतत्परिवर्तते। मृता मृताः प्रणश्यन्ति बीजाद्बीजं प्रवर्तते ॥१२-१७९-१५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.