12.181
भृगुरुवाच॥
असृजद्ब्राह्मणानेव पूर्वं ब्रह्मा प्रजापतिः। आत्मतेजोभिनिर्वृत्तान्भास्कराग्निसमप्रभान् ॥१२-१८१-१॥
ततः सत्यं च धर्मं च तपो ब्रह्म च शाश्वतम्। आचारं चैव शौचं च स्वर्गाय विदधे प्रभुः ॥१२-१८१-२॥
देवदानवगन्धर्वदैत्यासुरमहोरगाः। यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा ॥१२-१८१-३॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विजसत्तम। ये चान्ये भूतसङ्घानां सङ्घास्तांश्चापि निर्ममे ॥१२-१८१-४॥
ब्राह्मणानां सितो वर्णः क्षत्रियाणां तु लोहितः। वैश्यानां पीतको वर्णः शूद्राणामसितस्तथा ॥१२-१८१-५॥
भरद्वाज उवाच॥
चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभज्यते। सर्वेषां खलु वर्णानां दृश्यते वर्णसङ्करः ॥१२-१८१-६॥
कामः क्रोधो भयं लोभः शोकश्चिन्ता क्षुधा श्रमः। सर्वेषां नः प्रभवति कस्माद्वर्णो विभज्यते ॥१२-१८१-७॥
स्वेदमूत्रपुरीषाणि श्लेष्मा पित्तं सशोणितम्। तनुः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते ॥१२-१८१-८॥
जङ्गमानामसङ्ख्येयाः स्थावराणां च जातयः। तेषां विविधवर्णानां कुतो वर्णविनिश्चयः ॥१२-१८१-९॥
भृगुरुवाच॥
न विशेषोऽस्ति वर्णानां सर्वं ब्राह्ममिदं जगत्। ब्रह्मणा पूर्वसृष्टं हि कर्मभिर्वर्णतां गतम् ॥१२-१८१-१०॥
कामभोगप्रियास्तीक्ष्णाः क्रोधनाः प्रियसाहसाः। त्यक्तस्वधर्मा रक्ताङ्गास्ते द्विजाः क्षत्रतां गताः ॥१२-१८१-११॥
गोषु वृत्तिं समाधाय पीताः कृष्युपजीविनः। स्वधर्मं नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः ॥१२-१८१-१२॥
हिंसानृतप्रिया लुब्धाः सर्वकर्मोपजीविनः। कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शूद्रतां गताः ॥१२-१८१-१३॥
इत्येतैः कर्मभिर्व्यस्ता द्विजा वर्णान्तरं गताः। धर्मो यज्ञक्रिया चैषां नित्यं न प्रतिषिध्यते ॥१२-१८१-१४॥
वर्णाश्चत्वार एते हि येषां ब्राह्मी सरस्वती। विहिता ब्रह्मणा पूर्वं लोभात्त्वज्ञानतां गताः ॥१२-१८१-१५॥
ब्राह्मणा धर्मतन्त्रस्थास्तपस्तेषां न नश्यति। ब्रह्म धारयतां नित्यं व्रतानि नियमांस्तथा ॥१२-१८१-१६॥
ब्रह्म चैतत्पुरा सृष्टं ये न जानन्त्यतद्विदः। तेषां बहुविधास्त्वन्यास्तत्र तत्र हि जातयः ॥१२-१८१-१७॥
पिशाचा राक्षसाः प्रेता बहुधा म्लेच्छजातयः। प्रनष्टज्ञानविज्ञानाः स्वच्छन्दाचारचेष्टिताः ॥१२-१८१-१८॥
प्रजा ब्राह्मणसंस्काराः स्वधर्मकृतनिश्चयाः। ऋषिभिः स्वेन तपसा सृज्यन्ते चापरे परैः ॥१२-१८१-१९॥
आदिदेवसमुद्भूता ब्रह्ममूलाक्षयाव्यया। सा सृष्टिर्मानसी नाम धर्मतन्त्रपरायणा ॥१२-१८१-२०॥