Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.183
भृगुरुवाच॥
सत्यं ब्रह्म तपः सत्यं सत्यं सृजति च प्रजाः। सत्येन धार्यते लोकः स्वर्गं सत्येन गच्छति ॥१२-१८३-१॥
अनृतं तमसो रूपं तमसा नीयते ह्यधः। तमोग्रस्ता न पश्यन्ति प्रकाशं तमसावृतम् ॥१२-१८३-२॥
स्वर्गः प्रकाश इत्याहुर्नरकं तम एव च। सत्यानृतात्तदुभयं प्राप्यते जगतीचरैः ॥१२-१८३-३॥
तत्र त्वेवंविधा वृत्तिर्लोके सत्यानृता भवेत्। धर्माधर्मौ प्रकाशश्च तमो दुःखं सुखं तथा ॥१२-१८३-४॥
तत्र यत्सत्यं स धर्मो यो धर्मः स प्रकाशो यः प्रकाशस्तत्सुखमिति। तत्र यदनृतं सोऽधर्मो योऽधर्मस्तत्तमो यत्तमस्तद्दुःखमिति ॥१२-१८३-५॥
अत्रोच्यते शारीरैर्मानसैर्दुःखैः सुखैश्चाप्यसुखोदयैः। लोकसृष्टिं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः ॥१२-१८३-६॥
तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः। सुखं ह्यनित्यं भूतानामिह लोके परत्र च ॥१२-१८३-७॥
राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते। तथा तमोभिभूतानां भूतानां भ्रश्यते सुखम् ॥१२-१८३-८॥
तत्खलु द्विविधं सुखमुच्यते शारीरं मानसं च इह खल्वमुष्मिंश्च लोके सर्वारम्भप्रवृत्तयः सुखार्था अभिधीयन्ते। न ह्यतस्त्रिवर्गफलं विशिष्टतरमस्ति स एष काम्यो गुणविशेषो धर्मार्थयोरारम्भस्तद्धेतुरस्योत्पत्तिः सुखप्रयोजना भरद्वाज उवाच ॥१२-१८३-९॥
यदेतद्भवताभिहितं सुखानां परमाः स्त्रिय इति तन्न गृह्णीमः
न ह्येषामृषीणां महति स्थितानामप्राप्य एष गुणविशेषो न चैनमभिलषन्ति श्रूयते च भगवांस्त्रिलोककृद्ब्रह्मा प्रभुरेकाकी तिष्ठति ब्रह्मचारी न कामसुखेष्वात्मानमवदधाति अपि च भगवान्विश्वेश्वर उमापतिः काममभिवर्तमानमनङ्गत्वेन शममनयत् तस्माद्ब्रूमो न महात्मभिरयं प्रतिगृहीतो न त्वेष तावद्विशिष्टो गुण इति नैतद्भगवतः प्रत्येमि भगवता तूक्तं सुखानां परमाः स्त्रिय इति लोकप्रवादोऽपि च भवति द्विविधः फलोदयः सुकृतात्सुखमवाप्यते दुष्कृताद्दुःखमिति अत्रोच्यताम् भृगुरुवाच ॥१२-१८३-१०॥
अनृतात्खलु तमः प्रादुर्भूतं तमोग्रस्ता अधर्ममेवानुवर्तन्ते न धर्मम् क्रोधलोभमोहमानानृतादिभिरवच्छन्ना न खल्वस्मिँल्लोके न चामुत्र सुखमाप्नुवन्ति विविधव्याधिगणोपतापैरवकीर्यन्ते वधबन्धरोगपरिक्लेशादिभिश्च क्षुत्पिपासाश्रमकृतैरुपतापैरुपतप्यन्ते। चण्डवातात्युष्णातिशीतकृतैश्च प्रतिभयैः शारीरैर्दुःखैरुपतप्यन्ते बन्धुधनविनाशविप्रयोगकृतैश्च मानसैः शोकैरभिभूयन्ते जरामृत्युकृतैश्चान्यैरिति ॥१२-१८३-११॥
यस्त्वेतैः शारीरैर्मानसैर्दुःखैर्न स्पृश्यते स सुखं वेद। न चैते दोषाः स्वर्गे प्रादुर्भवन्ति तत्र भवति खलु ॥१२-१८३-१२॥
सुसुखः पवनः स्वर्गे गन्धश्च सुरभिस्तथा। क्षुत्पिपासाश्रमो नास्ति न जरा न च पापकम् ॥१२-१८३-१३॥
नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम्। नरके दुःखमेवाहुः समं तु परमं पदम् ॥१२-१८३-१४॥
पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः। पुमान्प्रजापतिस्तत्र शुक्रं तेजोमयं विदुः ॥१२-१८३-१५॥
इत्येतल्लोकनिर्माणं ब्रह्मणा विहितं पुरा। प्रजा विपरिवर्तन्ते स्वैः स्वैः कर्मभिरावृताः ॥१२-१८३-१६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.