12.184
भरद्वाज उवाच॥
दानस्य किं फलं प्राहुर्धर्मस्य चरितस्य च। तपसश्च सुतप्तस्य स्वाध्यायस्य हुतस्य च ॥१२-१८४-१॥
भृगुरुवाच॥
हुतेन शाम्यते पापं स्वाध्याये शान्तिरुत्तमा। दानेन भोग इत्याहुस्तपसा सर्वमाप्नुयात् ॥१२-१८४-२॥
दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च। सद्भ्यो यद्दीयते किञ्चित्तत्परत्रोपतिष्ठति ॥१२-१८४-३॥
असत्सु दीयते यत्तु तद्दानमिह भुज्यते। यादृशं दीयते दानं तादृशं फलमाप्यते ॥१२-१८४-४॥
भरद्वाज उवाच॥
किं कस्य धर्मचरणं किं वा धर्मस्य लक्षणम्। धर्मः कतिविधो वापि तद्भवान्वक्तुमर्हति ॥१२-१८४-५॥
भृगुरुवाच॥
स्वधर्मचरणे युक्ता ये भवन्ति मनीषिणः। तेषां धर्मफलावाप्तिर्योऽन्यथा स विमुह्यति ॥१२-१८४-६॥
भरद्वाज उवाच॥
यदेतच्चातुराश्रम्यं ब्रह्मर्षिविहितं पुरा। तेषां स्वे स्वे य आचारास्तान्मे वक्तुमिहार्हसि ॥१२-१८४-७॥
भृगुरुवाच॥
पूर्वमेव भगवता लोकहितमनुतिष्ठता धर्मसंरक्षणार्थमाश्रमाश्चत्वारोऽभिनिर्दिष्टाः तत्र गुरुकुलवासमेव तावत्प्रथममाश्रममुदाहरन्ति सम्यगत्र शौचसंस्कारविनयनियमप्रणीतो विनीतात्मा उभे सन्ध्ये भास्कराग्निदैवतान्युपस्थाय विहाय तन्द्रालस्ये गुरोरभिवादनवेदाभ्यासश्रवणपवित्रीकृतान्तरात्मा त्रिषवणमुपस्पृश्य ब्रह्मचर्याग्निपरिचरणगुरुशुश्रूषानित्यो भैक्षादिसर्वनिवेदितान्तरात्मा गुरुवचननिर्देशानुष्ठानाप्रतिकूलो गुरुप्रसादलब्धस्वाध्यायतत्परः स्यात् ॥१२-१८४-८॥
भवति चात्र श्लोकः गुरुं यस्तु समाराध्य द्विजो वेदमवाप्नुयात्। तस्य स्वर्गफलावाप्तिः सिध्यते चास्य मानसम् ॥१२-१८४-९॥
गार्हस्थ्यं खलु द्वितीयमाश्रमं वदन्ति तस्य समुदाचारलक्षणं सर्वमनुव्याख्यास्यामः समावृत्तानां सदाराणां सहधर्मचर्याफलार्थिनां गृहाश्रमो विधीयते धर्मार्थकामावाप्तिर्ह्यत्र त्रिवर्गसाधनमवेक्ष्यागर्हितेन कर्मणा धनान्यादाय स्वाध्यायप्रकर्षोपलब्धेन ब्रह्मर्षिनिर्मितेन वा अद्रिसारगतेन वा हव्यनियमाभ्यासदैवतप्रसादोपलब्धेन वा धनेन गृहस्थो गार्हस्थ्यं प्रवर्तयेत् तद्धि सर्वाश्रमाणां मूलमुदाहरन्ति गुरुकुलवासिनः परिव्राजका ये चान्ये सङ्कल्पितव्रतनियमधर्मानुष्ठायिनस्तेषामप्यत एव भिक्षाबलिसंविभागाः प्रवर्तन्ते ॥॥१२-१८४-१०॥
वानप्रस्थानां द्रव्योपस्कार इति प्रायशः खल्वेते साधवः साधुपथ्यदर्शनाः स्वाध्यायप्रसङ्गिनस्तीर्थाभिगमनदेशदर्शनार्थं पृथिवीं पर्यटन्ति तेषां प्रत्युत्थानाभिवादनानसूयावाक्प्रदानसौमुख्यशक्त्यासनशयनाभ्यवहारसत्क्रियाश्चेति ॥१२-१८४-११॥
भवति चात्र श्लोकः अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते। स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥१२-१८४-१२॥
अपि चात्र यज्ञक्रियाभिर्देवताः प्रीयन्ते निवापेन पितरो वेदाभ्यासश्रवणधारणेन ऋषयः अपत्योत्पादनेन प्रजापतिरिति ॥१२-१८४-१३॥
श्लोकौ चात्र भवतः वत्सलाः सर्वभूतानां वाच्याः श्रोत्रसुखा गिरः। परिवादोपघातौ च पारुष्यं चात्र गर्हितम् ॥१२-१८४-१४॥
अवज्ञानमहङ्कारो दम्भश्चैव विगर्हितः। अहिंसा सत्यमक्रोधः सर्वाश्रमगतं तपः ॥१२-१८४-१५॥
अपि चात्र माल्याभरणवस्त्राभ्यङ्गगन्धोपभोगनृत्तगीतवादित्रश्रुतिसुख- नयनाभिरामसंदर्शनानां प्राप्तिर्भक्ष्यभोज्यपेयलेह्यचोष्याणामभ्यवहार्याणां विविधानामुपभोगः स्वदारविहारसन्तोषः कामसुखावाप्तिरिति ॥१२-१८४-१६॥
त्रिवर्गगुणनिर्वृत्तिर्यस्य नित्यं गृहाश्रमे। स सुखान्यनुभूयेह शिष्टानां गतिमाप्नुयात् ॥१२-१८४-१७॥
उञ्छवृत्तिर्गृहस्थो यः स्वधर्मचरणे रतः। त्यक्तकामसुखारम्भस्तस्य स्वर्गो न दुर्लभः ॥१२-१८४-१८॥