12.185
भृगुरुवाच॥
वानप्रस्थाः खलु ऋषिधर्ममनुसरन्तः पुण्यानि तीर्थानि नदीप्रस्रवणानि सुविविक्तेष्वरण्येषु मृगमहिषवराहसृमरगजाकीर्णेषु तपस्यन्तोऽनुसञ्चरन्ति। त्यक्तग्राम्यवस्त्राहारोपभोगा वन्यौषधिमूलफलपर्णपरिमितविचित्रनियताहाराः स्थानासनिनो भूमिपाषाणसिकताशर्करावालुकाभस्मशायिनः काशकुशचर्मवल्कलसंवृताङ्गाः केशश्मश्रुनखरोमधारिणो नियतकालोपस्पर्शना अस्कन्नहोमबलिकालानुष्ठायिनः समित्कुशकुसुमोपहारहोमार्जनलब्धविश्रामाः शीतोष्णपवननिष्टप्तविभिन्नसर्वत्वचो विविधनियमयोगचर्याविहितधर्मानुष्ठानहृतमांसशोणितास्त्वगस्थिभूता धृतिपराः सत्त्वयोगाच्छरीराण्युद्वहन्ति ॥१२-१८५-१॥
यस्त्वेतां नियतश्चर्यां ब्रह्मर्षिविहितां चरेत्। स दहेदग्निवद्दोषाञ्जयेल्लोकांश्च दुर्जयान् ॥१२-१८५-२॥
परिव्राजकानां पुनराचारस्तद्यथा। विमुच्याग्निधनकलत्रपरिबर्हसङ्गानात्मनः स्नेहपाशानवधूय परिव्रजन्ति समलोष्टाश्मकाञ्चनास्त्रिवर्गप्रवृत्तेष्वारम्भेष्वसक्तबुद्धयोऽरिमित्रोदासीनेषु तुल्यवृत्तयः स्थावरजरायुजाण्डजस्वेदजोद्भिज्जानां भूतानां वाङ्मनःकर्मभिरनभिद्रोहिणोऽनिकेताः पर्वतपुलिनवृक्षमूलदेवतायतनान्यनुचरन्तो वासार्थमुपेयुर्नगरं ग्रामं वा नगरे पञ्चरात्रिका ग्रामैकरात्रिकाः। प्रविश्य च प्राणधारणमात्रार्थं द्विजातीनां भवनान्यसङ्कीर्णकर्मणामुपतिष्ठेयुः पात्रपतितायाचितभैक्षाः कामक्रोधदर्पमोहलोभकार्पण्यदम्भपरिवादाभिमानहिंसानिवृत्ता इति ॥१२-१८५-३॥
भवति चात्र श्लोकः अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः। न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित् ॥१२-१८५-४॥
कृत्वाग्निहोत्रं स्वशरीरसंस्थं; शारीरमग्निं स्वमुखे जुहोति। यो भैक्षचर्योपगतैर्हविर्भि; श्चिताग्निनां स व्यतियाति लोकान् ॥१२-१८५-५॥
मोक्षाश्रमं यः कुरुते यथोक्तं; शुचिः सुसङ्कल्पितबुद्धियुक्तः। अनिन्धनं ज्योतिरिव प्रशान्तं; स ब्रह्मलोकं श्रयते द्विजातिः ॥१२-१८५-६॥
भरद्वाज उवाच॥
अस्माल्लोकात्परो लोकः श्रूयते नोपलभ्यते। तमहं ज्ञातुमिच्छामि तद्भवान्वक्तुमर्हति ॥१२-१८५-७॥
भृगुरुवाच॥
उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते। पुण्यः क्षेम्यश्च काम्यश्च स वरो लोक उच्यते ॥१२-१८५-८॥
तत्र ह्यपापकर्माणः शुचयोऽत्यन्तनिर्मलाः। लोभमोहपरित्यक्ता मानवा निरुपद्रवाः ॥१२-१८५-९॥
स स्वर्गसदृशो देशस्तत्र ह्युक्ताः शुभा गुणाः। काले मृत्युः प्रभवति स्पृशन्ति व्याधयो न च ॥१२-१८५-१०॥
न लोभः परदारेषु स्वदारनिरतो जनः। न चान्योन्यवधस्तत्र द्रव्येषु न च विस्मयः ॥ परोक्षधर्मो नैवास्ति संदेहो नापि जायते ॥१२-१८५-११॥
कृतस्य तु फलं तत्र प्रत्यक्षमुपलभ्यते। शय्यायानासनोपेताः प्रासादभवनाश्रयाः ॥ सर्वकामैर्वृताः केचिद्धेमाभरणभूषिताः ॥१२-१८५-१२॥
प्राणधारणमात्रं तु केषाञ्चिदुपपद्यते। श्रमेण महता केचित्कुर्वन्ति प्राणधारणम् ॥१२-१८५-१३॥
इह धर्मपराः केचित्केचिन्नैकृतिका नराः। सुखिता दुःखिताः केचिन्निर्धना धनिनोऽपरे ॥१२-१८५-१४॥
इह श्रमो भयं मोहः क्षुधा तीव्रा च जायते। लोभश्चार्थकृतो नॄणां येन मुह्यन्ति पण्डिताः ॥१२-१८५-१५॥
इह चिन्ता बहुविधा धर्माधर्मस्य कर्मणः। यस्तद्वेदोभयं प्राज्ञः पाप्मना न स लिप्यते ॥१२-१८५-१६॥
सोपधं निकृतिः स्तेयं परिवादोऽभ्यसूयता। परोपघातो हिंसा च पैशुन्यमनृतं तथा ॥१२-१८५-१७॥
एतानासेवते यस्तु तपस्तस्य प्रहीयते। यस्त्वेतान्नाचरेद्विद्वांस्तपस्तस्याभिवर्धते ॥१२-१८५-१८॥
कर्मभूमिरियं लोक इह कृत्वा शुभाशुभम्। शुभैः शुभमवाप्नोति कृत्वाशुभमतोऽन्यथा ॥१२-१८५-१९॥
इह प्रजापतिः पूर्वं देवाः सर्षिगणास्तथा। इष्ट्वेष्टतपसः पूता ब्रह्मलोकमुपाश्रिताः ॥१२-१८५-२०॥
उत्तरः पृथिवीभागः सर्वपुण्यतमः शुभः। इहत्यास्तत्र जायन्ते ये वै पुण्यकृतो जनाः ॥१२-१८५-२१॥
असत्कर्माणि कुर्वन्तस्तिर्यग्योनिषु चापरे। क्षीणायुषस्तथैवान्ये नश्यन्ति पृथिवीतले ॥१२-१८५-२२॥
अन्योन्यभक्षणे सक्ता लोभमोहसमन्विताः। इहैव परिवर्तन्ते न ते यान्त्युत्तरां दिशम् ॥१२-१८५-२३॥
ये गुरूनुपसेवन्ते नियता ब्रह्मचारिणः। पन्थानं सर्वलोकानां ते जानन्ति मनीषिणः ॥१२-१८५-२४॥
इत्युक्तोऽयं मया धर्मः सङ्क्षेपाद्ब्रह्मनिर्मितः। धर्माधर्मौ हि लोकस्य यो वै वेत्ति स बुद्धिमान् ॥१२-१८५-२५॥
भीष्म उवाच॥
इत्युक्तो भृगुणा राजन्भरद्वाजः प्रतापवान्। भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत् ॥१२-१८५-२६॥
एष ते प्रभवो राजञ्जगतः सम्प्रकीर्तितः। निखिलेन महाप्राज्ञ किं भूयः श्रोतुमिच्छसि ॥१२-१८५-२७॥