Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.186
युधिष्ठिर उवाच॥
आचारस्य विधिं तात प्रोच्यमानं त्वयानघ। श्रोतुमिच्छामि धर्मज्ञ सर्वज्ञो ह्यसि मे मतः ॥१२-१८६-१॥
भीष्म उवाच॥
दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः प्रियसाहसाः। असन्तो ह्यभिविख्याताः सन्तश्चाचारलक्षणाः ॥१२-१८६-२॥
पुरीषं यदि वा मूत्रं ये न कुर्वन्ति मानवाः। राजमार्गे गवां मध्ये धान्यमध्ये च ते शुभाः ॥१२-१८६-३॥
शौचमावश्यकं कृत्वा देवतानां च तर्पणम्। धर्ममाहुर्मनुष्याणामुपस्पृश्य नदीं तरेत् ॥१२-१८६-४॥
सूर्यं सदोपतिष्ठेत न स्वप्याद्भास्करोदये। सायं प्रातर्जपन्सन्ध्यां तिष्ठेत्पूर्वां तथापराम् ॥१२-१८६-५॥
पञ्चार्द्रो भोजनं कुर्यात्प्राङ्मुखो मौनमास्थितः। न निन्देदन्नभक्ष्यांश्च स्वाद्वस्वादु च भक्षयेत् ॥१२-१८६-६॥
नार्द्रपाणिः समुत्तिष्ठेन्नार्द्रपादः स्वपेन्निशि। देवर्षिनारदप्रोक्तमेतदाचारलक्षणम् ॥१२-१८६-७॥
शुचिकाममनड्वाहं देवगोष्ठं चतुष्पथम्। ब्राह्मणं धार्मिकं चैव नित्यं कुर्यात्प्रदक्षिणम् ॥१२-१८६-८॥
अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च। सामान्यं भोजनं भृत्यैः पुरुषस्य प्रशस्यते ॥१२-१८६-९॥
सायं प्रातर्मनुष्याणामशनं देवनिर्मितम्। नान्तरा भोजनं दृष्टमुपवासी तथा भवेत् ॥१२-१८६-१०॥
होमकाले तथा जुह्वन्नृतुकाले तथा व्रजन्। अनन्यस्त्रीजनः प्राज्ञो ब्रह्मचारी तथा भवेत् ॥१२-१८६-११॥
अमृतं ब्राह्मणोच्छिष्टं जनन्या हृदयं कृतम्। उपासीत जनः सत्यं सत्यं सन्त उपासते ॥१२-१८६-१२॥
यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात्। न भक्षयेद्वृथामांसं पृष्ठमांसं च वर्जयेत् ॥१२-१८६-१३॥
स्वदेशे परदेशे वा अतिथिं नोपवासयेत्। काम्यं कर्मफलं लब्ध्वा गुरूणामुपपादयेत् ॥१२-१८६-१४॥
गुरुभ्य आसनं देयं कर्तव्यं चाभिवादनम्। गुरूनभ्यर्च्य युज्यन्ते आयुषा यशसा श्रिया ॥१२-१८६-१५॥
नेक्षेतादित्यमुद्यन्तं न च नग्नां परस्त्रियम्। मैथुनं समये धर्म्यं गुह्यं चैव समाचरेत् ॥१२-१८६-१६॥
तीर्थानां हृदयं तीर्थं शुचीनां हृदयं शुचिः। सर्वमार्यकृतं शौचं वालसंस्पर्शनानि च ॥१२-१८६-१७॥
दर्शने दर्शने नित्यं सुखप्रश्नमुदाहरेत्। सायं प्रातश्च विप्राणां प्रदिष्टमभिवादनम् ॥१२-१८६-१८॥
देवगोष्ठे गवां मध्ये ब्राह्मणानां क्रियापथे। स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ॥१२-१८६-१९॥
पण्यानां शोभनं पण्यं कृषीणां बाद्यते कृषिः। बहुकारं च सस्यानां वाह्ये वाह्यं तथा गवाम् ॥१२-१८६-२०॥
सम्पन्नं भोजने नित्यं पानीये तर्पणं तथा। सुशृतं पायसे ब्रूयाद्यवाग्वां कृसरे तथा ॥१२-१८६-२१॥
श्मश्रुकर्मणि सम्प्राप्ते क्षुते स्नानेऽथ भोजने। व्याधितानां च सर्वेषामायुष्यमभिनन्दनम् ॥१२-१८६-२२॥
प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत्। सुतस्त्रिया च शयनं सहभोज्यं च वर्जयेत् ॥१२-१८६-२३॥
त्वङ्कारं नामधेयं च ज्येष्ठानां परिवर्जयेत्। अवराणां समानानामुभयेषां न दुष्यति ॥१२-१८६-२४॥
हृदयं पापवृत्तानां पापमाख्याति वैकृतम्। ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने ॥१२-१८६-२५॥
ज्ञानपूर्वं कृतं पापं छादयन्त्यबहुश्रुताः। नैनं मनुष्याः पश्यन्ति पश्यन्ति त्रिदिवौकसः ॥१२-१८६-२६॥
पापेन हि कृतं पापं पापमेवानुवर्तते। धार्मिकेण कृतो धर्मः कर्तारमनुवर्तते ॥१२-१८६-२७॥
पापं कृतं न स्मरतीह मूढो; विवर्तमानस्य तदेति कर्तुः। राहुर्यथा चन्द्रमुपैति चापि; तथाबुधं पापमुपैति कर्म ॥१२-१८६-२८॥
आशया सञ्चितं द्रव्यं यत्काले नेह भुज्यते। तद्बुधा न प्रशंसन्ति मरणं न प्रतीक्षते ॥१२-१८६-२९॥
मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः। तस्मात्सर्वेषु भूतेषु मनसा शिवमाचरेत् ॥१२-१८६-३०॥
एक एव चरेद्धर्मं नास्ति धर्मे सहायता। केवलं विधिमासाद्य सहायः किं करिष्यति ॥१२-१८६-३१॥
देवा योनिर्मनुष्याणां देवानाममृतं दिवि। प्रेत्यभावे सुखं धर्माच्छश्वत्तैरुपभुज्यते ॥१२-१८६-३२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.