Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.194
युधिष्ठिर उवाच॥
किं फलं ज्ञानयोगस्य वेदानां नियमस्य च। भूतात्मा वा कथं ज्ञेयस्तन्मे ब्रूहि पितामह ॥१२-१९४-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। मनोः प्रजापतेर्वादं महर्षेश्च बृहस्पतेः ॥१२-१९४-२॥
प्रजापतिं श्रेष्ठतमं पृथिव्यां; देवर्षिसङ्घप्रवरो महर्षिः। बृहस्पतिः प्रश्नमिमं पुराणं; पप्रच्छ शिष्योऽथ गुरुं प्रणम्य ॥१२-१९४-३॥
यत्कारणं मन्त्रविधिः प्रवृत्तो; ज्ञाने फलं यत्प्रवदन्ति विप्राः। यन्मन्त्रशब्दैरकृतप्रकाशं; तदुच्यतां मे भगवन्यथावत् ॥१२-१९४-४॥
यदर्थशास्त्रागममन्त्रविद्भि; र्यज्ञैरनेकैर्वरगोप्रदानैः। फलं महद्भिर्यदुपास्यते च; तत्किं कथं वा भविता क्व वा तत् ॥१२-१९४-५॥
मही महीजाः पवनोऽन्तरिक्षं; जलौकसश्चैव जलं दिवं च। दिवौकसश्चैव यतः प्रसूता; स्तदुच्यतां मे भगवन्पुराणम् ॥१२-१९४-६॥
ज्ञानं यतः प्रार्थयते नरो वै; ततस्तदर्था भवति प्रवृत्तिः। न चाप्यहं वेद परं पुराणं; मिथ्याप्रवृत्तिं च कथं नु कुर्याम् ॥१२-१९४-७॥
ऋक्सामसङ्घांश्च यजूंषि चाहं; छन्दांसि नक्षत्रगतिं निरुक्तम्। अधीत्य च व्याकरणं सकल्पं; शिक्षां च भूतप्रकृतिं न वेद्मि ॥१२-१९४-८॥
स मे भवाञ्शंसतु सर्वमेत; ज्ज्ञाने फलं कर्मणि वा यदस्ति। यथा च देहाच्च्यवते शरीरी; पुनः शरीरं च यथाभ्युपैति ॥१२-१९४-९॥
मनुरुवाच॥
यद्यत्प्रियं यस्य सुखं तदाहु; स्तदेव दुःखं प्रवदन्त्यनिष्टम्। इष्टं च मे स्यादितरच्च न स्या; देतत्कृते कर्मविधिः प्रवृत्तः ॥ इष्टं त्वनिष्टं च न मां भजेते; त्येतत्कृते ज्ञानविधिः प्रवृत्तः ॥१२-१९४-१०॥
कामात्मकाश्छन्दसि कर्मयोगा; एभिर्विमुक्तः परमश्नुवीत। नानाविधे कर्मपथे सुखार्थी; नरः प्रवृत्तो न परं प्रयाति ॥ परं हि तत्कर्मपथादपेतं; निराशिषं ब्रह्मपरं ह्यवश्यम् ॥१२-१९४-११॥
प्रजाः सृष्टा मनसा कर्मणा च; द्वावप्येतौ सत्पथौ लोकजुष्टौ। दृष्ट्वा कर्म शाश्वतं चान्तवच्च; मनस्त्यागः कारणं नान्यदस्ति ॥१२-१९४-१२॥
स्वेनात्मना चक्षुरिव प्रणेता; निशात्यये तमसा संवृतात्मा। ज्ञानं तु विज्ञानगुणेन युक्तं; कर्माशुभं पश्यति वर्जनीयम् ॥१२-१९४-१३॥
सर्पान्कुशाग्राणि तथोदपानं; ज्ञात्वा मनुष्याः परिवर्जयन्ति। अज्ञानतस्तत्र पतन्ति मूढा; ज्ञाने फलं पश्य यथा विशिष्टम् ॥१२-१९४-१४॥
कृत्स्नस्तु मन्त्रो विधिवत्प्रयुक्तो; यज्ञा यथोक्तास्त्वथ दक्षिणाश्च। अन्नप्रदानं मनसः समाधिः; पञ्चात्मकं कर्मफलं वदन्ति ॥१२-१९४-१५॥
गुणात्मकं कर्म वदन्ति वेदा; स्तस्मान्मन्त्रा मन्त्रमूलं हि कर्म। विधिर्विधेयं मनसोपपत्तिः; फलस्य भोक्ता तु यथा शरीरी ॥१२-१९४-१६॥
शब्दाश्च रूपाणि रसाश्च पुण्याः; स्पर्शाश्च गन्धाश्च शुभास्तथैव। नरो नसंस्थानगतः प्रभुः स्या; देतत्फलं सिध्यति कर्मलोके ॥१२-१९४-१७॥
यद्यच्छरीरेण करोति कर्म; शरीरयुक्तः समुपाश्नुते तत्। शरीरमेवायतनं सुखस्य; दुःखस्य चाप्यायतनं शरीरम् ॥१२-१९४-१८॥
वाचा तु यत्कर्म करोति किं चि; द्वाचैव सर्वं समुपाश्नुते तत्। मनस्तु यत्कर्म करोति किं चि; न्मनःस्थ एवायमुपाश्नुते तत् ॥१२-१९४-१९॥
यथागुणं कर्मगणं फलार्थी; करोत्ययं कर्मफले निविष्टः। तथा तथायं गुणसम्प्रयुक्तः; शुभाशुभं कर्मफलं भुनक्ति ॥१२-१९४-२०॥
मत्स्यो यथा स्रोत इवाभिपाती; तथा कृतं पूर्वमुपैति कर्म। शुभे त्वसौ तुष्यति दुष्कृते तु; न तुष्यते वै परमः शरीरी ॥१२-१९४-२१॥
यतो जगत्सर्वमिदं प्रसूतं; ज्ञात्वात्मवन्तो व्यतियान्ति यत्तत्। यन्मन्त्रशब्दैरकृतप्रकाशं; तदुच्यमानं शृणु मे परं यत् ॥१२-१९४-२२॥
रसैर्वियुक्तं विविधैश्च गन्धै; रशब्दमस्पर्शमरूपवच्च। अग्राह्यमव्यक्तमवर्णमेकं; पञ्चप्रकारं ससृजे प्रजानाम् ॥१२-१९४-२३॥
न स्त्री पुमान्वापि नपुंसकं च; न सन्न चासत्सदसच्च तन्न। पश्यन्ति यद्ब्रह्मविदो मनुष्या; स्तदक्षरं न क्षरतीति विद्धि ॥१२-१९४-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.