Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.194
Library: The discussion between Manu and the great sage Bṛhaspati - what is that cause from which the ritual of mantra has arisen, what is the fruit in knowledge that the sages declare, and what is that which is not made manifest by the words of mantras.
युधिष्ठिर उवाच॥
किं फलं ज्ञानयोगस्य वेदानां नियमस्य च। भूतात्मा वा कथं ज्ञेयस्तन्मे ब्रूहि पितामह ॥१२-१९४-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। मनोः प्रजापतेर्वादं महर्षेश्च बृहस्पतेः ॥१२-१९४-२॥
प्रजापतिं श्रेष्ठतमं पृथिव्यां; देवर्षिसङ्घप्रवरो महर्षिः। बृहस्पतिः प्रश्नमिमं पुराणं; पप्रच्छ शिष्योऽथ गुरुं प्रणम्य ॥१२-१९४-३॥
यत्कारणं मन्त्रविधिः प्रवृत्तो; ज्ञाने फलं यत्प्रवदन्ति विप्राः। यन्मन्त्रशब्दैरकृतप्रकाशं; तदुच्यतां मे भगवन्यथावत् ॥१२-१९४-४॥
यदर्थशास्त्रागममन्त्रविद्भि; र्यज्ञैरनेकैर्वरगोप्रदानैः। फलं महद्भिर्यदुपास्यते च; तत्किं कथं वा भविता क्व वा तत् ॥१२-१९४-५॥
मही महीजाः पवनोऽन्तरिक्षं; जलौकसश्चैव जलं दिवं च। दिवौकसश्चैव यतः प्रसूता; स्तदुच्यतां मे भगवन्पुराणम् ॥१२-१९४-६॥
ज्ञानं यतः प्रार्थयते नरो वै; ततस्तदर्था भवति प्रवृत्तिः। न चाप्यहं वेद परं पुराणं; मिथ्याप्रवृत्तिं च कथं नु कुर्याम् ॥१२-१९४-७॥
ऋक्सामसङ्घांश्च यजूंषि चाहं; छन्दांसि नक्षत्रगतिं निरुक्तम्। अधीत्य च व्याकरणं सकल्पं; शिक्षां च भूतप्रकृतिं न वेद्मि ॥१२-१९४-८॥
स मे भवाञ्शंसतु सर्वमेत; ज्ज्ञाने फलं कर्मणि वा यदस्ति। यथा च देहाच्च्यवते शरीरी; पुनः शरीरं च यथाभ्युपैति ॥१२-१९४-९॥
मनुरुवाच॥
यद्यत्प्रियं यस्य सुखं तदाहु; स्तदेव दुःखं प्रवदन्त्यनिष्टम्। इष्टं च मे स्यादितरच्च न स्या; देतत्कृते कर्मविधिः प्रवृत्तः ॥ इष्टं त्वनिष्टं च न मां भजेते; त्येतत्कृते ज्ञानविधिः प्रवृत्तः ॥१२-१९४-१०॥
कामात्मकाश्छन्दसि कर्मयोगा; एभिर्विमुक्तः परमश्नुवीत। नानाविधे कर्मपथे सुखार्थी; नरः प्रवृत्तो न परं प्रयाति ॥ परं हि तत्कर्मपथादपेतं; निराशिषं ब्रह्मपरं ह्यवश्यम् ॥१२-१९४-११॥
प्रजाः सृष्टा मनसा कर्मणा च; द्वावप्येतौ सत्पथौ लोकजुष्टौ। दृष्ट्वा कर्म शाश्वतं चान्तवच्च; मनस्त्यागः कारणं नान्यदस्ति ॥१२-१९४-१२॥
स्वेनात्मना चक्षुरिव प्रणेता; निशात्यये तमसा संवृतात्मा। ज्ञानं तु विज्ञानगुणेन युक्तं; कर्माशुभं पश्यति वर्जनीयम् ॥१२-१९४-१३॥
सर्पान्कुशाग्राणि तथोदपानं; ज्ञात्वा मनुष्याः परिवर्जयन्ति। अज्ञानतस्तत्र पतन्ति मूढा; ज्ञाने फलं पश्य यथा विशिष्टम् ॥१२-१९४-१४॥
कृत्स्नस्तु मन्त्रो विधिवत्प्रयुक्तो; यज्ञा यथोक्तास्त्वथ दक्षिणाश्च। अन्नप्रदानं मनसः समाधिः; पञ्चात्मकं कर्मफलं वदन्ति ॥१२-१९४-१५॥
गुणात्मकं कर्म वदन्ति वेदा; स्तस्मान्मन्त्रा मन्त्रमूलं हि कर्म। विधिर्विधेयं मनसोपपत्तिः; फलस्य भोक्ता तु यथा शरीरी ॥१२-१९४-१६॥
शब्दाश्च रूपाणि रसाश्च पुण्याः; स्पर्शाश्च गन्धाश्च शुभास्तथैव। नरो नसंस्थानगतः प्रभुः स्या; देतत्फलं सिध्यति कर्मलोके ॥१२-१९४-१७॥
यद्यच्छरीरेण करोति कर्म; शरीरयुक्तः समुपाश्नुते तत्। शरीरमेवायतनं सुखस्य; दुःखस्य चाप्यायतनं शरीरम् ॥१२-१९४-१८॥
वाचा तु यत्कर्म करोति किं चि; द्वाचैव सर्वं समुपाश्नुते तत्। मनस्तु यत्कर्म करोति किं चि; न्मनःस्थ एवायमुपाश्नुते तत् ॥१२-१९४-१९॥
यथागुणं कर्मगणं फलार्थी; करोत्ययं कर्मफले निविष्टः। तथा तथायं गुणसम्प्रयुक्तः; शुभाशुभं कर्मफलं भुनक्ति ॥१२-१९४-२०॥
मत्स्यो यथा स्रोत इवाभिपाती; तथा कृतं पूर्वमुपैति कर्म। शुभे त्वसौ तुष्यति दुष्कृते तु; न तुष्यते वै परमः शरीरी ॥१२-१९४-२१॥
यतो जगत्सर्वमिदं प्रसूतं; ज्ञात्वात्मवन्तो व्यतियान्ति यत्तत्। यन्मन्त्रशब्दैरकृतप्रकाशं; तदुच्यमानं शृणु मे परं यत् ॥१२-१९४-२२॥
रसैर्वियुक्तं विविधैश्च गन्धै; रशब्दमस्पर्शमरूपवच्च। अग्राह्यमव्यक्तमवर्णमेकं; पञ्चप्रकारं ससृजे प्रजानाम् ॥१२-१९४-२३॥
न स्त्री पुमान्वापि नपुंसकं च; न सन्न चासत्सदसच्च तन्न। पश्यन्ति यद्ब्रह्मविदो मनुष्या; स्तदक्षरं न क्षरतीति विद्धि ॥१२-१९४-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.